अग्नि पुराण · अध्याय 171
:ए इत्य् आग्नेये महापुराणे प्रायश्चित्तानि नाम सप्तत्यधिकशततमो
ऽध्यायः ॥
:न्
1 अन्त्यजैश् च स्वपाकेनेति ङ.
2 अन्त्यजातिश्वपाकेनेत्यादिः, तत्र आचरेदित्यन्तः पाठः छ..
पुस्तके नास्ति
3 शवन्ततत्स्पर्शिनं श्वानमिति ख.. । शवन्तत्स्पृष्टिनं
श्वानमिति घ.. , ज.. च
4 मूत्रोच्चारं द्विजः कृत्वेत्यादिः, पूयन्ते पापिनो ऽखिला इत्य्
अन्तः पाठः ज.. , झ.. पुस्तके नास्ति
:प् 179
% छप्तेर् {171}
:श् अथ एकसप्तत्यधिकशततमो ऽध्यायः
प्रायश्चित्तानि
पुष्कर उवाच
प्रायश्चित्तं रहस्यादि वक्ष्ये शुद्धिकरं पर ।अप्_171.001अब्।
पौरुषेण तु सूक्तेन मासं जप्यादिनाघहा
मुच्यते पातकैः सर्वैर् जप्त्वा त्रिरघमर्षणं ।अप्_171.002अब्।
वेदजप्याद्वायुयमाद् गायत्र्या व्रततो ऽद्यहा(1)
मुण्डनं सर्वकृच्छ्रेषु स्नानं होमो हरेर्यजिः ।अप्_171.003अब्।
उत्थितस्तु दिवा तिष्ठेदुपविष्टस् तथा निशि
एतद्वीरासनं प्रोक्तं कृच्छ्रकृत्तेन पापहा ।अप्_171.004अब्।
अष्टभिः प्रत्यहं ग्रासैर् यतिचान्द्रायणं स्मृतं
प्रातश् चतुर्भिः सायञ्च शिशुचान्द्रायणं स्मृतं ।अप्_171.005अब्।
यथाकथञ्चित् पिण्डानाम् चत्वारिंशच्छतद्वयं
मासेन भक्षयेदेतत् सुरचान्द्रायणं चरेत् ।अप्_171.006अब्।
त्र्यहमुष्णं पिवेदापस्त्यहमुष्णं पयः पिवेत्
त्र्याहमुष्णं घृतं पीत्वा वायुभक्षो भवेत् त्र्यहं ।अप्_171.007अब्।
तप्तकृच्छ्रमिदं प्रोक्तं शीतैः शीतं प्रकीर्तितं
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिं ।अप्_171.008अब्।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकं
:न्
1 जपतो ऽवधहेति ख.. , घ.. , ज.. च
:प् 180
एकरात्रोपवासश् चकृच्छ्रं शान्तपनं स्मृतं ।अप्_171.009अब्।
एतच्च प्रत्याभ्यस्तं महाशान्तपनं स्मृतं
त्र्यहाभ्यस्तमथैकैकमतिशान्तपनं स्मृतं ।अप्_171.010अब्।
कृच्छ्रं पराकसञ्ज्ञं स्याद्द्वादशाहमभोजनं
एकभक्तं त्र्यहाभ्यस्तं क्रमान्नक्तमयाचितं ।अप्_171.011अब्।
प्राजापत्यमुपोष्यान्ते पादः स्यात् कृच्छ्रपादकः
फलैर् मासं फलं कृच्छ्रं बिल्वैः श्रीक्च्छ्र ईरितः ।अप्_171.012अब्।
पद्माक्षैः स्यादामलकैः पुष्पकृच्छ्रं तु पुष्पकैः
पत्रकृच्छ्रन्तथा पत्रैस्तोयकृच्छ्रं जलेन तु ।अप्_171.013अब्।
मूलकृच्छ्रन्तथा मूलैर् दृध्न क्षीरेण तक्रतः
मासं वायव्यकृच्छ्रं स्यात्पाणिपूरान्नभोजनात् ।अप्_171.014अब्।
तिलैर् द्वादशरात्रेण कृच्छ्रमाग्नेयमार्तिनुत्
पाक्षं प्रसृत्या लाजानां ब्रह्मकूर्चं तथा भवेत् ।अप्_171.015अब्।
उपोषितश् चतुर्दृश्यां पञ्चदश्यामनन्तरं
पञ्चगव्यं समश्नीयाद्धविष्याशीत्यनन्तरं ।अप्_171.016अब्।
मासेन द्विर् नरः कृत्वा सर्वपापैः प्रमुच्यते
श्रीकामः पुष्टिकामश् च स्वर्गकामो ऽघनष्टये ।अप्_171.017अब्।
देवताराधनपरः कृच्छ्रकारी स सर्वभाक्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0