अग्नि पुराण · अध्याय 169
:ए इत्य् आग्नेये महापुराणे महापातकादिकथनं
नामाष्टषष्ट्यधिकशततमो ऽध्यायः ॥
:न्
1 मार्जारस्यैव मारणमिति ङ..
:प् 170
% छप्तेर् {169}
:श् अथैकोनसप्तत्यधिकशततमो ऽध्यायः
प्रायश्चित्तानि
पुष्कर उवाच
एतत्प्रभृतिपापानां प्रायश्चित्तं वदामि ते ।अप्_169.001अब्।
ब्रह्महा द्वादशाब्दानि कुटीङ्कृत्वा वने वसेत्
भिक्षेतात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजं ।अप्_169.002अब्।
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः
यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा ।अप्_169.003अब्।
जपन्वान्यतमं वेदं योजनानां शतं ब्रजेत्
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ।अप्_169.004अब्।
व्रतैर् एतैर् व्यपोहन्ति महापातकिनो मलं
उपपातकसंयुक्तो गोघ्नो मासं यवान् पिवेत् ।अप्_169.005अब्।
कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः
चतुर्थकालमश्रीयादक्षारलवणं मितं ।अप्_169.006अब्।
गोमूत्रेण चरेत् स्नानं द्वौ मासौ नियतेन्द्रियः
दिवानुगच्छेद्गाश् चैव तिष्ठन्नूर्ध्वं रजः पिवेत् ।अप्_169.007अब्।
वृषभैकादशा गास्तु दद्याद्विचारितव्रतः(1)
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ।अप्_169.008अब्।
पादमेकञ्चरेद्रोधे द्वौ पादौ बन्धने चरेत्
:न्
1 दद्यात् सुचरितव्रत इति ङ..
:प् 171
योजने पादहीनं स्याच्चरेत् सर्वं निपातने ।अप्_169.009अब्।
कान्तारेष्वथ दुर्गेषु विषमेषु भयेषु च
यदि तत्र विपत्तिः स्यादेकपादो विधीयते ।अप्_169.010अब्।
घण्टाभरणदोषेण तथैवर्धं विनिर्दिशत्
दमने दमने रोधे शकटस्य नियोजने ।अप्_169.011अब्।
स्तम्भशृङ्खलपाशेषु मृते पादोनमाचरेत्
शृङ्गभङ्गे ऽस्थिभङ्गे च लाङ्गूलच्छेदने तथा ।अप्_169.012अब्।
यावकन्तु पिवेत्तावद्यावत् सुस्था तु गौर्भवेत्
गोमतीञ्च जपेद्विद्यां गोस्तुतिं गोमतीं स्मरेत् ।अप्_169.013अब्।
एका चेद्बहुभिर्दैवाद् यत्र व्यापादिता भवेत्
पादं पादन्तु हत्यायाश् चरेयुस्ते पृथक् पृथक् ।अप्_169.014अब्।
उपकारे क्रियमाणे विपत्तौ नास्ति पातकं
एतदेव व्रतं कुर्युरुपपातकिनस् तथा ।अप्_169.015अब्।
अवकीर्णवर्जं शुद्ध्यर्थञ्चान्द्रायणमथापि वा
अवकीर्णी तु कालेन गर्धभेन चतुष्पथे ।अप्_169.016अब्।
पाकयज्ञविधानेन यजेत निरृतिं निशि
कृत्वाग्निं विधिवद्धीमानन्ततस्तु समित्तृचा ।अप्_169.017अब्।
चन्द्रेन्द्रगुरुवह्नीनां जुहुयात् सर्पिषाहुतिं(1)
अथवा गार्धभञ्चर्म वसित्वाब्दञ्चरेन्महीं ।अप्_169.018अब्।
हत्वा गर्भमविज्ञातं ब्रह्महत्याव्रतं चरेत्
:न्
1 जुहुयात्सर्पिषाहुतीरिति ख.. , ङ.. , ज.. च
:प् 172
सरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिवेत् ।अप्_169.019अब्।
गोमूत्रमग्निवर्णं वा पिवेदुदकमेव वा
सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु ।अप्_169.020अब्।
स्वकर्म ख्यापयन् व्रूयान्मां भवाननुशास्त्विति
गृहीत्वा मुशलं राजा सकृद्धन्यात् स्वयङ्गतं ।अप्_169.021अब्।
बधेन शुद्ध्यते स्तेयो ब्राह्मणस्तपसैव वा
गुरुतल्पो निकृत्यैव शिश्नञ्च वृषणं स्वयं ।अप्_169.022अब्।
निधाय चाञ्चलौ गच्छेदानिपाताच्च नैरृतिं
चान्द्रायणान् वा त्रीन्मासानभ्यसेन्नियतेन्द्रियः ।अप्_169.023अब्।
जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया
चरेच्छान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ।अप्_169.024अब्।
सङ्करीपात्रकृत्यासु मासं शोधनमैन्दवं
मलिनीकरणीयेषु तप्तं स्याद्यावकं त्र्यहं ।अप्_169.025अब्।
तुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे स्मृतः
वैश्ये ऽष्टमांशे वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ।अप्_169.026अब्।
मार्जरनकुलौ हत्वा चासं मण्डूकमेव च
श्वगोधोलूककाकांश् च शूद्रहत्याव्रतं चरेत् ।अप्_169.027अब्।
चतुर्णामपि वर्णानां नारीं हत्वानवस्थितां
अमत्यैव प्रमाप्य स्त्रीं शूद्रहत्याव्रतं चरेत् ।अप्_169.028अब्।
सर्पादीनां बधे नक्तमनस्थ्नां वायुसंयमः
द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ।अप्_169.029अब्।
चरेच्छान्तपनं कृच्छं व्रतं निर्वाप्य सिद्ध्यति
:प् 173
भक्षभोज्यापहरणे यानशय्यासनस्य च ।अप्_169.030अब्।
पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनं
तृणकाष्ठद्रुमाणान्तु शुष्कान्नस्य गुडस्य च ।अप्_169.031अब्।
चेलचर्मामिषाणान्तु(1) त्रिरात्रं स्यादभोजनं
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।अप्_169.032अब्।
अयःकांस्योपलानाञ्च द्वादशाहं कणान्नभुक्
कार्पासकीटजीर्णानां द्विशफैकशफस्य च ।अप्_169.033अब्।
पक्षिगन्धौषधीनान्तु रज्वा चैव त्र्यहम्पयः
गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु ।अप्_169.034अब्।
सख्युः पुत्रस्य च स्त्रीषु कुमारोष्वन्त्यजासु च
पितृस्वस्रेयीं भगिनीं स्वस्रीयां मातुरेव च ।अप्_169.035अब्।
मातुश् च भ्रातुराप्तस्य गत्वा चान्द्रायणञ्चरेत्
अमानुषीषु पुरुष उदक्यायामयोनिषु ।अप्_169.036अब्।
रेतः सिक्त्वा जले चैव कृच्छ्रं शान्तपनञ्चरेत्
मैथुनन्तु समासेव्य पुंसि योषिति वा द्विजः ।अप्_169.037अब्।
गोयाने ऽप्सु दिवा चैव सवासाः स्नानमाचरेत्
चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।अप्_169.038अब्।
पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति
विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि ।अप्_169.039अब्।
यत् पुंसः परदारेषु तदेनाञ्चारयेद्व्रतं
साचेत्पुनः प्रदुष्येत सदृशेनोपमन्त्रिता ।अप्_169.040अब्।
कृच्छ्रञ्चाद्रायणञ्चैव तदस्याः पावनं स्मृतं
:न्
1 वेणुचर्मामिषाणाञ्चेति झ..
:प् 174
यत् करोत्येकरात्रेण वृषलीसेवनं द्विजः ।अप्_169.041अब्।
तद्भैक्ष्यभुक् जपेन्नित्यं त्रिभिर्वषैर् व्यपोहति
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0