अग्नि पुराण · अध्याय 16
:ए इत्य् आदिमहापुराणे आग्नेये महाभारतवर्णनं नाम
पञ्चदशो ऽध्यायः
% छप्तेर् {16}
:श् अथ षोडशो ऽध्यायः
बुद्धाद्यवतारकथनम्
अग्निर् उवाच
वक्ष्ये बुद्धावतारञ्च पठतः शृण्वतोर्थदम् ।अप्_16.001अब्।
पुरा देवासुरे युद्धे दैत्यैर् देवाः पराजिताः
रक्ष रक्षेति शरणं वदन्तो जग्मुरीश्वरम् ।अप्_16.002अब्।
मायमोहस्वरुपोसौ शुद्धोदनसुतो ऽभवत्
मोहयामास दैत्यांस्तांस्त्याजिता वेदधर्मकम् ।अप्_16.003अब्।
ते च बौद्धा बभूवुर्हि तेभ्योन्ये वेदवर्जिताः
आर्हतः सो ऽभवत् पश्चादार्हतानकरोत् परान् ।अप्_16.004अब्।
एवं पाषण्डिनो जाता वेदधर्मादिवर्जिताः
:प् 39
नरकार्हं कर्म चक्रुर्ग्रहीष्यन्त्यधमादपि ।अप्_16.005अब्।
सर्वे कलियुगान्ते तु भविष्यन्ति च सङ्कराः
दस्यवः शीलहीनाश् च वेदो वाजसनेयकः ।अप्_16.006अब्।
दश पञ्च च शाखा वै प्रमाणेन भविष्यति
धर्मकञ्चुकसंवीता अधर्मरुचयस् तथा ।अप्_16.007अब्।
मानुषान् भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः
कल्की विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः ।अप्_16.008अब्।
उत्सादयिष्यति म्लेच्छान् गृहीतास्त्रः कृतायुधः
स्थापयिष्यति मर्यादां चातुर्वर्ण्ये यथोचिताम् ।अप्_16.009अब्।
आश्रमेषु च सर्वेषु प्रजाः सद्धर्मवर्त्मनि
कल्किरूपं परित्यज्य हरिः स्वर्गं गमिष्यति ।अप्_16.010अब्।
ततः कृतयुगान्नाम पुरावत् सम्भविष्यति
वर्नाश्रमाश् च धर्मेषु स्वेषु स्थास्यन्ति सत्तम ।अप्_16.011अब्।
एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च
अवतारा असङ्ख्याता अतीतानागतादयः ।अप्_16.012अब्।
विष्णोर्दशावताराख्यान् यः पठेत् शृणुयान्नरः
सोवाप्तकामो विमलः सकुलः स्वर्गमाप्नुयात् ।अप्_16.013अब्।
धर्माधर्मव्यवस्थानमेवं वै कुरुते हरिः ।अप्_16.013च्द्।
अवतीर्णञ्च स गतः सर्गादेः कारणं हरिः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0