भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 166

166.001

:ए इत्य् आग्नेये महापुराणे नानाधमा नाम
पञ्चषष्ट्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {166}
:श् अथ षट्षष्ट्यधिकशततमो ऽध्यायः
वर्णधर्मादिकथनं
पुष्कर उवाच
वेदस्मार्तं प्रवक्ष्यामि धर्मं वै पञ्चधा स्मृतं(1) ।अप्_166.001अब्।
वर्णत्वमेकमाश्रित्य यो ऽधिकारः प्रवर्तते

166.002

:न्
1 धर्मं वै परमामृतमिति ख.. , छ.. च
:प् 159
वर्णधर्ंअः स विज्ञ्येयो यथोपनयनन्त्रिषु ।अप्_166.002अब्।
यस्त्वाश्रमं समाश्रित्य पदार्थः संविधीयते

166.003

उक्त आश्रमधर्मस्तु भिन्नपिण्डादिको यथा ।अप्_166.003अब्।
उभयेन निमित्तेन यो विधिः सम्प्रवर्तते

166.004

नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा ।अप्_166.004अब्।
ब्रह्मचारी गृही चापि वानप्रस्थो यतिर् नृप

166.005

उक्त आश्रमधर्मस्तु धर्मः स्यात् पञ्चधा परः(1) ।अप्_166.005अब्।
षाड्गुण्यस्याभिधाने यो दृष्टार्थः स उदाहृतः

166.006

स त्रेधा मन्त्रयागाद्यदृष्टार्थ इति मानवाः ।अप्_166.006अब्।
उभयार्थो व्यवहारस्तु दण्डधारणमेव च

166.007

तुल्यार्थानां विकल्पः स्याद् यागमूलः प्रकीर्तितः ।अप्_166.007अब्।
वेदे तु विहितो धर्मः स्मृतौ तादृश एव च

166.008

अनुवादं स्मृतिः सूते(2) कार्यार्थमिति मानवाः ।अप्_166.008अब्।
गुणार्थः परिसङ्ख्यार्थो वानुवादो विशेषतः(3)

166.009

विशेषदृष्ट एवासौ फलार्थ इति मानवाः ।अप्_166.009अब्।
स्यादष्टचत्वारिंशद्भिः संस्कारैर् ब्रह्मलोकगः

166.010

गर्भाधानं पुंसवनं सीमन्तोन्नयनः ततः ।अप्_166.010अब्।
जातकर्म नामकृतिरन्नप्राशनचूडकं

166.011

संस्कारश्चोपनयनं वेदव्रतचतुष्टयं ।अप्_166.011अब्।
स्नानं स्वधर्मचारिण्या योगः स्याद्यज्ञपञ्चकं

166.012

:न्
1 धर्म एष सनातन इति ङ..
2 अर्थवादं स्मृतिः सूत इति ख.. , छ.. च
3 वार्थवादो विशेषत इति ख.. , छ.. च
:प् 160
देवयज्ञः पितृयज्ञो मनुष्यभूतयज्ञकौ ।अप्_166.012अब्।
ब्रह्मयज्ञः सप्तपाकयज्ञसंस्थाः पुरो ऽष्टकाः

166.013

पार्वणश्राद्धं श्रावण्याग्रहायणी च चैत्र्यपि ।अप्_166.013अब्।
आश्वयुजी सप्तहविर्यज्ञसंस्थास्ततः स्मृताः

166.014

अग्न्याधेयमग्निहोत्रं(1) दर्शः स्यात् पशुबन्धकः ।अप्_166.014अब्।
चातुर्मास्याग्रहायेष्टिर्निरूढः पशुबन्धकः

166.015

सौत्रामणिसप्तसोमसंस्थाग्निष्टोम आदितः ।अप्_166.015अब्।
अत्यग्निष्टोम उक्थश् च षोडशी वाजपेयकः

166.016

अतिरात्रास् तथा स्तोम अष्टौ चात्मगुणास्ततः ।अप्_166.016अब्।
दया क्षमानसूया च अनायासो ऽथ मङ्गलं

166.017

अकार्पण्यास्पृहाशौचं यस्यैते स परं व्रजेत् ।अप्_166.017अब्।
प्रचारे मैथुने चैव प्रस्रावे दन्तधावने

166.018

स्नानभोजनकाले च पट्सु मौनं समाचरेत् ।अप्_166.018अब्।
पुनर्दानं पृथक्पानमाज्येन यपसा निशि

166.019

दन्तच्छेदनमुष्णं च सप्त शक्तुषु वर्जयेत् ।अप्_166.019अब्।
स्नात्वा पुष्पं न गृह्णीयाद् देवायोग्यन्तदीरितं

166.020

अन्यगोत्रोप्यसम्बद्धः(2) प्रेतस्याग्निन्ददाति यः ।अप्_166.020अब्।
पिण्डञ्चोदकदानञ्च स दशाहं समापयेत्

166.021

उदकञ्च तृणं भस्म द्वारम्पन्थास्तथैव च ।अप्_166.021अब्।
:न्
1 अग्न्याधानमग्निहोत्रमिति ख.. , छ.. च
2 अन्यगोत्रो ऽन्यसम्बन्ध इति ख.. , घ.. , ञ.. च
:प् 161
एभिरन्तरितं कृत्वा पङ्क्तिदोषो न विद्यते

166.022

पञ्च प्राणाहुतीर्दद्यादनामाङ्गुष्ठयोगतः
॥22

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc