भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 165

165.001

:ए इत्य् आग्नेये महापुराणे नवग्रहहोमो नाम
चतुःषष्ट्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {165}
:श् अथ पञ्चषष्त्यधिकशततमो ऽध्यायः
नानाधर्माः
अग्निर् उवाच
ध्येय आत्मा स्थितो यो ऽसौ हृदये दीपवत् प्रभुः ।अप्_165.001अब्।
अनन्यविषयं कृत्वा मनो बुद्धिस्मृतीन्द्रियं

165.002

श्राद्धन्तु ध्यायिने देयं(3) गव्यं दधि घृतं पयः ।अप्_165.002अब्।
प्रियङ्गवो मसूराश् च वार्ताकुः कोद्रवो न हि

165.003

सैंहिकयो यदा सूर्यं ग्रसते पर्वसन्धिषु ।अप्_165.003अब्।
हस्तिच्छाया तु सा ज्ञेया श्राद्धदानादिके ऽक्ष्या

165.004

:न्
1 सदा दुःस्थ इति ख.. , छ.. च
2 मनुष्याणामिति ङ..
3 व्यापिने देयमिति ङ..
:प् 156
पित्रे चैव यदा सोमो हंसे चैव करे स्थिते ।अप्_165.004अब्।
तिथिर्वैवस्वतो नाम सा छाया कुञ्जरस्य तु

165.005

अग्नौकरणशेषन्तु न दद्याद्वैश्वदेविके ।अप्_165.005अब्।
अग्न्यभावे तु विप्रस्य हस्ते दद्यात्तु दक्षिणे

165.006

न स्त्री दुष्यति जारेण न विप्रो वेदकर्मणा ।अप्_165.006अब्।
बलात्कारोपभुक्ता चेद्वैरिहस्तगतापि वा(1)

165.007

सन्त्यजेद् दूषितान्नारीमृतुकाले न शुद्ध्यति ।अप्_165.007अब्।
य आत्मत्र्यतिरेकेण द्वितीयं नात्र पश्यति(2)

165.008

ब्रह्मभूतः स एवेह योगी चात्मरतो ऽमलः ।अप्_165.008अब्।
विषयेन्द्रियसंयोगात् केचिद् योगं वदन्ति वै

165.009

अधर्मो धर्मबुद्ध्या तु गृहीतस्तैर् अपण्डितैः ।अप्_165.009अब्।
आत्मनो मनसश् चैव संयोगञ्च तथा परे

165.010

वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं परमात्मनि ।अप्_165.010अब्।
एकीकृत्य विमुच्येत बन्धाद्योगो ऽयमुत्तमः

165.011

कुटुम्बैः पञ्चभिर्यामः षष्ठस्तत्र महत्तरः ।अप्_165.011अब्।
देवासुरमनुष्यैर् वा स जेतुं नैव शक्यते(3)

165.012

वहिर्मुखानि सर्वाणि कृत्वा चाभिमुखानि वै ।अप्_165.012अब्।
मनस्येवेन्द्रियग्रामं मनश्चात्मनि योजयेत्

165.013

सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् ।अप्_165.013अब्।
एतज्ज्ञानञ्च ध्यानञ्च शेषो ऽन्यो ग्रन्थविस्तरः(4)

165.014

:न्
1 चौरहस्तगतापि वेति ख.. , घ.. , ञ च
2 द्वितीयं नानुपश्यतीति घ.. , ट.. च
3 स जेतुं न च शक्यत इति ग.. , ङ.. च
4 शेषा ये ग्रन्थविस्तरा इति ङ
:प् 157
यन्नास्ति सर्वलोकस्य तदस्तीति विरुध्यते ।अप्_165.014अब्।
कथ्यमानं तथान्यस्य हृदये नावतिष्ठते

165.015

असंवेद्यं हि तद् ब्रह्म(1) कुमारी स्त्रीमुखं यथा ।अप्_165.015अब्।
अयोगी नैव जानाति जात्यन्धो हि घटं यथा

165.016

सत्र्यसन्तं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः ।अप्_165.016अब्।
एष मे मण्डलं भित्त्वा परं ब्रह्माधिगच्छति

165.017

उपवासव्रतञ्चैव स्नानन्तीर्थं फलन्तपः ।अप्_165.017अब्।
द्विजसम्पादनञ्चैव सम्पन्नन्तस्य तत् फलं

165.018

एकाक्षरं परं ब्रह्म प्राणायामः परन्तपः ।अप्_165.018अब्।
सावित्र्यास्तु परं नास्ति पावनं परमं स्मृतः

165.019

पूर्वं स्त्रियः सुरैर् भुक्ताः सोमगन्धर्ववह्निभिः ।अप्_165.019अब्।
भुञ्जते मानुषाः पश्चान्नैता दुष्यन्ति केनचित्

165.020

असवर्णेन यो गर्भः स्त्रीणां योनौ निषिच्यते ।अप्_165.020अब्।
अशुद्धा तु भवेन्नारी यावत्छल्यं न मुञ्चति

165.021

निःसृते तु ततः शल्ये रजसा शुद्ध्यते ततः ।अप्_165.021अब्।
ध्यानेन सदृशन्नास्ति शोधनं पापकर्मणां

165.022

श्वपाकेष्वपि भुञ्जानो ध्यानेन हि विशुद्ध्यति ।अप्_165.022अब्।
आत्मा ध्याता मनो ध्यानं ध्येयो विष्णुः फलं हरिः

165.023

अक्षयाय यतिः श्राद्धे पङ्क्तिपावनपावनः ।अप्_165.023अब्।
आरूढो नैष्ठिकन्धर्मं यस्तु प्रच्यवते द्विजः

165.024

:न्
1 स्वसंवेद्यं हि तद् ब्रह्म इति ग.. , ङ.. च । सुसंवेद्यं हि तद् ब्रह्म
इति ज.. , ट.. च । स्वयं वेद्यं हि तद् ब्रह्म इति घ.. , ञ.. च
:प् 158
प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्स आत्महा ।अप्_165.024अब्।
ये च प्रव्रजिताः पत्न्यां या चैषां वीजसन्ततिः

165.025

विदुरा नाम चण्डाला जायन्ते नात्र संशयः ।अप्_165.025अब्।
शतिको म्रियते गृध्रः श्वासौ द्वादशिकस् तथा

165.026

भासो विंशतिवर्षाणि सूकरो दशभिस् तथा ।अप्_165.026अब्।
अपुष्पो विफलो वृक्षो जायते कण्टकावृतः

165.027

ततो दावाग्निदग्धस्तु स्थाणुर्भवति सानुगः ।अप्_165.027अब्।
ततो वर्षशतान्यष्टौ द्वे तिष्ठत्यचेतनः

165.028

पूर्णे वर्षसहस्रे तु जायते ब्रह्मराक्षसः ।अप्_165.028अब्।
प्लवेन लभते मोक्षं कुलस्योत्सादनेन वा

165.029

योगमेव निषेवेतेत नान्यं मन्त्रमघापहं ॥29

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc