भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 167

167.001

:ए इत्य् आग्नेये महापुराणे वर्णधर्मादिर्नाम
षट्षष्ट्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {167}
:श् अथ सप्तषष्ट्यधिकशततमो ऽध्यायः ॥
अयुतलक्षकोटिहोमाः
अग्निर् उवाच
श्रीशान्तिविजयाद्यर्थं ग्रहयज्ञं पुनर्वदे ।अप्_167.001अब्।
ग्रहयज्ञो ऽयुतहोमलक्षकोट्यात्मकस्त्रिधा

167.002

वेदेरैशे ह्य् अग्निकुण्डाद् ग्रहानावाह्य मण्डले ।अप्_167.002अब्।
सौम्ये गुरुर्बुधश् चैशे शुक्रः पूर्वदले शशी

167.003

आग्नेये दक्षिणे भौमो मध्ये स्याद्भास्करस् तथा ।अप्_167.003अब्।
शनिराप्ये ऽथ नैरृत्ये राहुः केतुश् च वायवे

167.004

ईशश्चोमा गुहो विष्णुर्ब्रह्मेन्द्रौ यमकालकौ ।अप्_167.004अब्।
चित्रगुप्तश्चाधिदेवा अग्निरापः क्षितिर्हरिः

167.005

इन्द्र ऐन्द्री देवता च प्रजेशो ऽहिर्विधिः क्रमात् ।अप्_167.005अब्।
एते प्रत्यधिदेवाश् च गणेशो दुर्गयानिलः

167.006

खमश्विनौ च सम्पूज्य यजेद्वीजैश् च वेदजैः ।अप्_167.006अब्।
:प् 162
अर्कः पलाशः खदिरो ह्य् अपामार्गश् च पिप्पलः

167.007

उदुम्बरः शमी दुर्वा कुशाश् च समिधः क्रमात् ।अप्_167.007अब्।
मध्वाज्यदधिसंमिश्रा होतव्याश्चाष्टधा शतम्

167.008

एकाष्टशतुरः कुम्भान् पूर्य पूर्णाहुतिन्तथा ।अप्_167.008अब्।
वसोर्धारान्ततो दद्याद्दक्षिणाञ्च ततो ददेत्

167.009

यजमानं चतुर्भिस्तैर् अभिषिञ्चेत् समन्त्रकैः ।अप्_167.009अब्।
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः

167.010

वासुदेवो जगन्नाथस् तथा सङ्कर्षणः प्रभुः ।अप्_167.010अब्।
प्रद्युम्नश्चानिरुद्धश् च भवन्तु विजयाय ते

167.011

आखण्डलो ऽग्निर्भगवान् यमो वै नैरृतस् तथा ।अप्_167.011अब्।
वरुणः पवनश् चैव धनाध्यक्षस् तथा शिवः

167.012

ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु वः सदा ।अप्_167.012अब्।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः

167.013

बुद्धिर् लज्जा वपुः शान्तिस्तुष्टिः कान्तिश् च मातरः ।अप्_167.013अब्।
एतास्त्वामभिषिञ्चन्तु धर्मपत्न्याः समागताः

167.014

आदित्यश् चन्द्रमा भौमो बुधजीवशितार्कजाः ।अप्_167.014अब्।
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश् च तर्पिताः

167.015

देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।अप्_167.015अब्।
ऋषयो मनवो गावो देवमातर एव च

167.016

देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसाङ्गणाः ।अप्_167.016अब्।
अस्त्राणि सर्वशास्त्राणि राजानो वाहनानि च

167.017

औषधानि च रत्नानि कालस्यावयवाश् च ये ।अप्_167.017अब्।
सरितः सागराः शैलास्तीर्थानि जलदा नदाः

167.018

:प् 163
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये(1) ।अप्_167.018अब्।
अलङ्कृतस्ततो दद्याद्धेमगोन्नभुवादिकं

167.019

कपिले सर्वदेवानां पूजनीयासि रोहिणि ।अप्_167.019अब्।
तीर्थदेवमयी यस्मादतःशान्तिं प्रयच्छ मे

167.020

पुण्यस्त्वं शङ्ख पुण्यानां मङ्गलानाञ्च मङ्गलं ।अप्_167.020अब्।
विष्णुना विधृतो नित्यमतः शान्तिं प्रयच्छ मे

167.021

धर्म त्वं वृषरूपेण जगदानन्दकारकः ।अप्_167.021अब्।
अष्टमूर्तेरधिष्टानमतः शान्तिं प्रयच्छ मे

167.022

हिरण्यगर्भगर्भस्थं हेमवीजं विभावसोः ।अप्_167.022अब्।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे

167.023

पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभं ।अप्_167.023अब्।
प्रदानात्तस्य वै विष्णुरतः शान्तिं प्रयच्छ मे

167.024

विष्णुस्त्वं मत्स्यरूपेण यस्मादमृतसम्भवः ।अप्_167.024अब्।
चन्द्रार्कवाहनो नित्यमतः शान्तिं प्रयच्छ मे

167.025

यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसन्निभा ।अप्_167.025अब्।
सर्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे

167.026

यस्मादायसकर्माणि तवाधीनानि सर्वदा ।अप्_167.026अब्।
लाङ्गलाद्यायुधादीनि अतः शान्तिं प्रयच्छ मे

167.027

यस्मात्त्वं स्सर्वयज्ञानामङ्गत्वेन व्यवस्थितः ।अप्_167.027अब्।
योनिर्विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे

167.028

गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।अप्_167.028अब्।
यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च

167.029

:न्
1 धर्मकामार्थसिद्धये इति ख..
:प् 164
यस्मादशून्यं शयनं केशवस्य शिवस्य च ।अप्_167.029अब्।
शय्या ममाप्यशून्यास्तु दत्ता जन्मनि जन्मनि(1)

167.030

यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः ।अप्_167.030अब्।
तथा शान्तिं प्रयच्छन्तु रत्नदानेन मे सुराः

167.031

यथा भूमिप्रदानस्य कलां नार्हन्ति षोडशीं ।अप्_167.031अब्।
दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह

167.032

ग्रहयज्ञो ऽयुतहोमो दक्षिणाभी रणे जितिः ।अप्_167.032अब्।
विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मषु

167.033

सर्वकामाप्तये लक्षकोटिहोमद्वयं मतं ।अप्_167.033अब्।
गृहदेशे मण्डपे ऽथ(2) अयुते हस्तमात्रकं

167.034

मेखलायोनिसंयुक्तं कुण्डञ्चत्वार ऋत्विजः ।अप्_167.034अब्।
स्वयमेको ऽपि वा लक्षे सर्वं दशगुणं हि तत्

167.035

चतुर्हस्तं द्विहस्तं वा तार्क्षञ्चात्राधिकं यजेत् ।अप्_167.035अब्।
सामध्वनिशीरस्त्वं वाहनं पमेष्ठिनः

167.036

विषयापहरो नित्यमतः शान्तिं प्रयच्छ मे ।अप्_167.036अब्।
पूर्ववत् कुण्डमामन्त्र्य लक्षहोमं समाचरेत्

167.037

वसोर्धारां ततो दद्याच्छय्याभूषादिकं ददेत् ।अप्_167.037अब्।
तत्रापि दश चाष्टौ च लक्षहोमे तथर्त्विजः

167.038

पुत्रान्नराज्यविजयभुक्तिमुक्त्यादि(3) चाप्नुयात् ।अप्_167.038अब्।
दक्षिणाभिः फलेनास्माच्छत्रुघ्नः कोटिहोमकः

167.039

:न्
1 तथा जन्मनि जन्मनीति ङ..
2 गृहादौ मण्डपे वाथेति ख.. । गृहादौ मण्डपे चैवमिति
ञ..
3 पुत्रार्थराज्यविजयभुक्तिमुक्त्यादीति ख.. , ङ.. च
:प् 165
चतुर्हस्तं चाष्टहस्तं कुण्डन्द्वादश च द्विजाः ।अप्_167.039अब्।
पञ्चविंशं षोडशं वा पटे द्वारे चतुष्टयं

167.040

कोटिहोमी सर्वकामी विष्णुलोकं स गच्छति ।अप्_167.040अब्।
होमस्तु ग्रहमन्त्रैर् वा गायत्र्या वैष्णवैर् अपि

167.041

जातवेदोमुखैः शैवैः(1) वैदिकैः प्रथितैर् अपि ।अप्_167.041अब्।
तिलैर् यवैर् घृतैर् अश्वमेधफलादिभाक्

167.042

विद्वेषणाभिचारेषु त्रिकोणं कुण्डमिष्यते ।अप्_167.042अब्।
समिधो वामहस्तेन श्येनास्थ्यनलसंयुताः

167.043

रक्तभूषैर् मुक्तकेशैर् ध्यायद्भिरशिवं रिपोः ।अप्_167.043अब्।
दुर्मित्रियास्तस्मै सन्तु यो द्वेष्टि हुं फडिति च

167.044

छिन्द्यात् क्षुरेण प्रतिमां पिष्टरूपं रिपुं हनेत्(2) ।अप्_167.044अब्।
यजेदेकं पीडकं वा यः स कृत्वा दिवं व्रजेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc