अग्नि पुराण · अध्याय 164
:ए इत्य् आग्नेये महापुराणे श्राद्धकल्पो नाम
त्रिषष्ट्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {164}
:श् अथ चतुःषष्ट्यधिकशततमो ऽध्यायः
नवग्रहहोमः
पुष्कर उवाच
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् ।अप्_164.001अब्।
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन् पुनः
:न्
1 मनुष्यादीनिति ख.. , छ.. च
2 आयुः प्रज्ञाधनमिति ज.. । आयुः प्रजां बलमिति घ..
3 प्रीताः पितृपितामहा इति ङ..
:प् 154
सूर्यः सोमो मङ्गलश् च बुधश्चाथ बृहस्पतिः ।अप्_164.002अब्।
शुक्रः शनैश् चरो राहुः केतुश्चेति ग्रहाः स्मृताः
ताम्रकात् स्फटिकाद्रक्तचन्दनात् स्वर्णर्कादुभौ ।अप्_164.003अब्।
रजतादयसः शीशात् ग्रहाः कार्याः क्रमादिमे
सुवर्णैर् वायजेल्लिख्य गन्धमण्डलकेषु वा ।अप्_164.004अब्।
यथावर्णं प्रदेयानि वासांसि कुसुमानि च
गन्धाश् च वलयश् चैव धूपो देयस्तु गुग्गुलुः ।अप्_164.005अब्।
कर्तव्या मन्त्रयन्तश् च चरवः प्रतिदैवतं
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।अप्_164.006अब्।
उद्बुद्ध्यस्वेति च ऋचो यथासङ्ख्यं प्रकीर्तिताः
वृहस्पते अतियदर्यस्तथैवाल्पात् परिश्रुतः ।अप्_164.007अब्।
शन्नो देवीस् तथा काण्डात् केतुं कृन्वन्निमास् तथा
अर्कः पालाशः खदिरो ह्य् अपामार्गोथ(1) पिप्पलः ।अप्_164.008अब्।
उदुम्बरः शमी दुर्वा कुशाश् च समिधः क्रमात्
एकैकस्यात्राष्टशतमष्टाविंशतिरेव वा ।अप्_164.009अब्।
होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः
गुडौदनं पायसं च हविष्यं क्षीरयष्टिकं ।अप्_164.010अब्।
दध्योदनं हविः पूपान् मांसं चित्रान्नमेव च
दद्याद्ग्रहक्रमदेतद्द्विजेभ्यो भोजनं बुधः ।अप्_164.011अब्।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकं
धेनुः शङ्खस् तथानड्वान् हेम वासो हयस् तथा ।अप्_164.012अब्।
:न्
1 खदिरस्त्वपामार्गो ऽथेति ग.. , घ.. , ञ.. च
:प् 155
कृष्णा गौरायसश्छाग एता वै दक्षिणाः क्रमात्
यश् च यस्य यदा दूष्यः(1) स तं यत्नेन पूजयेत् ।अप्_164.013अब्।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजितस्य च
ग्रहाधीना नरेन्द्राणा(2) मुछ्रयाः पतनानि च ।अप्_164.014अब्।
भावभावो च जगतस्तस्मात् पूज्यतमा ग्रहाः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0