अग्नि पुराण · अध्याय 163
:ए इत्य् आग्नेये महापुराणे धर्मशास्त्रं नाम
द्विषष्ट्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {163}
:श् अथ त्रिषष्ठ्यधिकशततमो ऽध्यायः
श्राद्धकल्पकथनं
पुष्कर उवाच
श्राद्धकल्पं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शृणु ।अप्_163.001अब्।
निमन्त्र्य विप्रान् पूर्वेद्युः स्वागतेनापराह्णतः
प्राच्योपवेशयेत् पीठे युग्मान्दैवे ऽथ पित्रके ।अप्_163.002अब्।
अयुग्मान् प्राङ्मुखान्दैवे त्रीन् पैत्रे चैकमेव वा
मातामहानामप्येवन्तन्त्रं वा वैश्यदेविकं ।अप्_163.003अब्।
प्राणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि
आवाहयेदनुज्ञातो विश्वे देवास इत्य् ऋचा ।अप्_163.004अब्।
यवैरन्ववकीर्याथ(?) भाजने सपवित्रके
शन्नोदेव्या पयः क्षिप्त्वा यवोसीति यवांस् तथा ।अप्_163.005अब्।
यादिव्या इतिमन्त्रेण हस्ते ह्य् अर्घं विनिक्षिपेत्
दत्वोदकं गन्धमाल्यं धूपदानं प्रदीपकं ।अप्_163.006अब्।
अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणं
:प् 150
द्विगुणांस्तु कुशान् कृत्वा ह्य् उशन्तस्त्वेत्यृचा पितॄन् ।अप्_163.007अब्।
आवाह्य तदनुज्ञातो जपेदायान्तु नस्ततः
यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादि पूर्ववत् ।अप्_163.008अब्।
दत्त्वार्घ्यं संश्रवान् शेषान् पात्रे कृत्वा विधानतः
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ।अप्_163.009अब्।
अग्नौ करिष्य आदाय पृच्छत्यन्नं घृतप्लुतं
कुरुष्वेति ह्य् अनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ।अप्_163.010अब्।
हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः
यथालाभोपपन्नेषु रौप्येषु तु विशेषतः ।अप्_163.011अब्।
दत्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणं
कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् ।अप्_163.012अब्।
सव्याहृतिकां गायत्रीं मधुवाता इति त्यचं
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्ते ऽपि वाग्यताः ।अप्_163.013अब्।
अन्नमिष्टं हविष्यञ्च दद्याज्जप्त्वा पवित्रकं
अन्नमादाय तृप्ताः स्थ शेषं चैवान्नमस्य च ।अप्_163.014अब्।
तदन्नं विकिरेद् भूमौ दद्याच्चापः सकृत् सकृत्
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ।अप्_163.015अब्।
उच्छिष्टसन्निधौ पिण्डान् प्रदद्यात् पितृयज्ञवत्
मातामहानामप्येवं दद्यादाचमनं ततः ।अप्_163.016अब्।
स्वस्ति वाच्यं ततः कुर्यादक्षय्योदकमेव च
दत्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ।अप्_163.017अब्।
वाच्यतामित्यनुज्ञातः स्वपितृभ्यः स्वधोच्यतां(1)
:न्
1 मातामहानामित्यादिः, स्वपितृभ्यः स्वधोच्यतामित्यन्तः
पाठः झ.. पुस्तके नास्ति
:प् 151
कुर्युरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलं ।अप्_163.018अब्।
प्रीयन्तामिति वा दैवं विश्वे देवा जलं ददेत्
दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिरेव च ।अप्_163.019अब्।
श्रद्धा च नो माव्यगमद्बहुदेयं च नो .स्त्विति
इत्युक्त्वा तु प्रिया वाचः प्रणिपत्य विसर्जयेत् ।अप्_163.020अब्।
वाजे वाज इति प्रीतपितृपूर्वं विसर्जनं(1)
यस्मिंस्तु संश्रवाः पूर्वमर्घपात्रे निपातिताः ।अप्_163.021अब्।
पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत्
प्रदक्षिणमनुब्रज्य भक्त्वा तु पितृसेवितं ।अप्_163.022अब्।
ब्रह्मचारी भवेत्तान्तु रजनीं ब्राह्मणैः सह
एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखान् पितॄन् ।अप्_163.023अब्।
यजेत दधिकर्कन्धुमिश्रान् पिण्डान् यवैः क्रिया
एकोद्दिष्टं दैवहीनमेकार्घैकपवित्रकं ।अप्_163.024अब्।
आवाहनाग्नौकरणरहितं ह्य् अपसव्यवत्
उपतिष्ठतामित्यक्षय्यस्थाने पितृविसर्जने ।अप्_163.025अब्।
अभिरम्यतामिति वदेद् ब्रूयुस्ते ऽभिरताः स्म ह
गन्धोदकतिलैर् युक्तं कुर्यात् पात्रचतुष्टयं ।अप्_163.026अब्।
अर्घार्थपितृपात्रेषु प्रेतपात्रं प्रसेचयेत्
ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ।अप्_163.027अब्।
एतत् सपिण्डीकरणमेकोद्दिष्टं स्तिया सह(2)
अर्वाक्सपिण्डीकरणं यस्य संवत्सराद् भवेत् ।अप्_163.028अब्।
:न्
1 पितृपूर्वं विसर्जयेदिति ख.. , छ.. , झ.. च
2 स्त्र्या अपीति ख.. , छ.. च
:प् 152
तस्याप्यन्नं सोदकुम्भं दद्यात् संवत्सरं द्विजे
मृताहनि च कर्तव्यं प्रतिमासन्तु वत्सरं ।अप्_163.029अब्।
प्रतिसंवत्सरं कार्यं श्राद्धं वै मासिकान्नवत्
हविष्यान्नेन वै मासं पायसेन तु वत्सरं ।अप्_163.030अब्।
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः(1)
ऐणरौरववाराहशाशैर् मांसैर् यथाक्रमं ।अप्_163.031अब्।
मासवृद्ध्याभितृप्यन्ति दत्तैर् एव(2) पितामहाः
खड्गामिषं महाशल्कं मधुयुक्तान्नमेव च(3) ।अप्_163.032अब्।
लोहामिषं कालशाकं मांसं वार्धीनसस्य च
यद्ददाति गयास्थञ्च सर्वमानन्त्यमुच्यते(4) ।अप्_163.033अब्।
तथा वर्षात्रयोदश्यां मघासु च न संशयः
कन्यां प्रजां वन्दिनश् च पशून् मुख्यान् सुतानपि ।अप्_163.034अब्।
घृतं कृषिं च वाणिज्यं द्विशफैकशफं तथा
ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके ।अप्_163.035अब्।
ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा
प्रतिपत्प्रभृतिष्वेतान्वर्जयित्वा चतुर्दशीं ।अप्_163.036अब्।
शस्त्रेण तु हता ये वै तेषां तत्र प्रदीयते
स्वर्गं(5) ह्य् अपत्यमोजश् च शौर्यं क्षेत्रं बलं तथा ।अप्_163.037अब्।
पुत्रश्रैष्ठ्यं ससौभाग्यमपत्यं मुख्यतां सुतान्
:न्
1 मात्स्याविहारिणौरभ्रशाकुनच्छागपार्षतैर् इति छ..
2 दत्तैर् इहेति घ.. , ङ.. , ञ.. च
3 मधुमुद्गान्नमेव वेति ङ..
4 सर्वमानन्त्यमश्नुते इति घ.. , ङ.. च
5 स्वर्णमिति ख.. , छ.. च
:प् 153
प्रवृत्तचक्रतां पुत्रान् वाणिज्यं प्रसुतां तथा ।अप्_163.038अब्।
अरोगित्वं यशो वीतशोकतां परमाङ्गतिं
घनं विद्यां भिषकसिद्धिं रूप्यं गाश्चाप्यजाविकं ।अप्_163.039अब्।
अश्वानायुश् च विधिवत् यः श्राद्धं सम्प्रयच्छति
कृत्तिकादिभरण्यन्ते स कामानाप्नुयादिमान् ।अप्_163.040अब्।
वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः
प्रीणयन्ति मनुष्याणां(1) पितॄन् श्राद्धेन तर्पिताः ।अप्_163.041अब्।
आयुः प्रजां धनं(2) विद्यां स्वर्गं मोक्षं सुखानि च
प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः(3) ॥42
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0