अग्नि पुराण · अध्याय 162
:ए इत्य् आग्नेये महापुराणे यतिर्धर्मा
नामैकषष्ट्यधिकशततमो ऽध्यायः ॥
:न्
1 आग्रत्स्वप्नसुसुप्त्यान्तमुक्तमिति ङ.. , छ.. , ञ.. च
2 इत्य् आग्नेये अशौचनिर्णय इत्य् आदिः, सत्यमानन्दमद्वयमित्यन्तः
पाठो ग.. पुस्तके नास्ति
:प् 147
% छप्तेर् {162}
:श् अथ द्विषष्ट्यधिकशततमो ऽध्यायः
धर्मशास्त्रकथनं
पुष्कर उवाच
मनुर्विष्णुर्याज्ञवल्को हारीतो ऽत्रिर्यमो ऽङिगिराः ।अप्_162.001अब्।
वसिष्ठदक्षसंवर्तशातातपपराशराः
आपस्तम्बोशनोव्यासाः कात्ययनबृहस्पती ।अप्_162.002अब्।
गोतमः शङ्खलिखितौ धर्ममेते यथाब्रुवन्
तथा वक्ष्ये समासेन भुक्तिमुक्तिप्रदं शृणु ।अप्_162.003अब्।
प्रवृत्तञ्च निवृत्तञ्च द्विविधङ्कर्म वैदिकं
काम्यं कर्म प्रवृत्तं स्यान्निवृत्तं ज्ञानपूर्वकं ।अप्_162.004अब्।
वेदाभ्यासस्तपो ज्ञानमिन्दियाणाञ्च संयमः
अहिंसा गुरुसेवा च निःश्रेयसकरं परं ।अप्_162.005अब्।
सर्वेषामपि चैतेषामत्मज्ञानं परं स्मृतं
तच्चग्र्यं सर्वविद्यानां प्राप्यते ह्य् अमृतं ततः ।अप्_162.006अब्।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
समम्पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ।अप्_162.007अब्।
आत्मज्ञाने समे च स्याद्वेदाभ्यासे च यत्नवान्
एतद्द्विजन्मसामर्थ्यं(1) ब्राह्मणस्य विशेषतः ।अप्_162.008अब्।
:न्
1 एतद्द्विजन्मसाग्र्यमिति ख.. , ङ.. , झ.. , ञ.. , ट.. च ।
एतद्द्विजन्मसामग्रीति घ.
:प् 148
वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन्
इहैव लोके तिष्ठन् हि ब्रह्मभूयाय कल्प्यते(1) ।अप्_162.009अब्।
स्वाध्यायानामुपाकर्म श्रावण्यां श्रावणेन तु
हस्ते चौषधिवारे च पञ्चम्यां श्रावणस्य वा ।अप्_162.010अब्।
पौषमासस्य रोहिण्यामष्टकायामथापि वा
जलान्ते छन्दसाङ्कुर्यादुत्सर्गं विधिवद्वहिः ।अप्_162.011अब्।
त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु
उपाकर्मणि चोत्सर्गं स्वशाखाश्रोत्रिये तथा(2) ।अप्_162.012अब्।
सन्ध्यागर्जितनिर्घाते भूकम्पोल्कानिपातने
समाप्य वेदं ह्य् अनिशमारण्यकमधीत्य च ।अप्_162.013अब्।
पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके
ऋतुसन्धिषु भुक्त्वा वा श्राद्विकं प्रतिगृह्य च ।अप्_162.014अब्।
पशुमण्डूकनकुलश्वाहिमार्जारशूकरैः(3)
कृतेन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रिये ।अप्_162.015अब्।
श्वक्रोष्टुगर्धभोलूकमासवाणर्तुनिस्वने
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ।अप्_162.016अब्।
अशुभासु च तारासु विद्युत्स्तनितसम्प्लवे
भुत्क्वार्द्रपाणिरम्भोन्तरर्धरात्रे ऽतिमारुते ।अप्_162.017अब्।
पांशुवर्षे दिशान्दाहे सन्ध्यानीहारभीतिषु
धावतः प्राणिबाधे च विशिष्टे गृहमागते ।अप्_162.018अब्।
:न्
1 ब्रह्मचर्याय कल्प्यते इति ङ..
2 स्वशाखाश्रोत्रिये मृते इति घ.. , झ.. , ञ.. , ट च
3 शशमार्जारशूकरैर् इति ङ..
:प् 149
खरोष्ट्रयानहस्त्यश्वनौकावृक्षादिरोहणे
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः
॥19
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0