भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 161

161.001

:ए इत्य् आग्नेये महापुराणे वानप्रस्थाश्रमो नाम
षष्ट्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {161}
:श् अथैकषष्ट्यधिकशततमो ऽध्यायः
यतिधर्मः
पुष्कर उवाच
यतिर्धर्मं प्रवक्ष्यामि ज्ञानमोक्षादिदर्शकं ।अप्_161.001अब्।
चतुर्धमायुषो भागं प्राप्य सङ्गात् परिवर्जयेत्(4)

161.002

यदह्नि विरजेद्धीरस्तदह्नि(5) च परिव्रजेत् ।अप्_161.002अब्।
प्रजापत्यां निरूप्येष्टिं सर्वदेवसदक्षिणां

161.003

आत्मन्यग्नीन् समारोप्य प्रव्रजेद्ब्राह्मणो गृहात् ।अप्_161.003अब्।
:न्
1 दृष्ट्वावश्यमिति ङ..
2 तपश्चोग्रं वने चरेदिति ङ..
3 भजेद्दिशमजिम्हग इति ङ..
4 सङ्गान् परित्यजेदिति ङ..
5 विरजेद्वापि तदह्नि इति ङ..
:प् 144
एक एव चरेन्नित्यं ग्रासमन्नाथमाश्रयेत्

161.004

उपेक्षको ऽसिञ्चयिको मुनिर्ज्ञानसमन्वितः ।अप्_161.004अब्।
कपालं वृक्षमूलञ्च(1) कुचेलमसहायाता

161.005

समता चैव सर्वस्मिन्नेतन्मुक्तस्य(2) लक्षणं ।अप्_161.005अब्।
नाभिनन्देन मरणं नाभिनन्देत जीवनं(3)

161.006

कालमेव प्रतीक्षेत निदेशं भृतको यथा ।अप्_161.006अब्।
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिवेत्

161.007

सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ।अप्_161.007अब्।
अलावुदारुपत्राणि मृण्मयं वैष्णवं यतेः

161.008

विधूमे न्यस्तमुषले व्यङ्गारे भुक्तवज्जने ।अप्_161.008अब्।
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश् चरेत्

161.009

मधूकरमसङ्क्लिप्तं प्राक्प्रणीतमयाचितं ।अप्_161.009अब्।
तात्कालिकञ्चोपपन्नं भैक्षं पञ्चविधं स्मृतं

161.010

पाणिपात्री भवेद्वापि पात्रे पात्रात् समाचरेत् ।अप्_161.010अब्।
अवेक्षेत गतिं नॄणां कर्मदोषसमुद्भवां

161.011

शुद्धभावश् चरेद्भर्मं यत्र तत्राश्रमे रतः ।अप्_161.011अब्।
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणं

161.012

फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकं ।अप्_161.012अब्।
न नामग्रहणादेव तस्य वारि प्रसीदति

161.013

:न्
1 वृक्षमूलानि ख.. , घ.. , छ.. , झ.. च । वृक्षमूलादि इति
ट..
2 एतच्छुद्धस्येति ङ..
3 जीवितमिति ख.. , घ.. , ङ.. , छ.. , ज.. च
:प् 145
अजिह्मः पण्डकः पङ्गुरन्धो बधिर एव च ।अप्_161.013अब्।
सद्भिश् च मुच्यते मद्भिरज्ञानात् संसृतो द्विजः

161.014

अह्नि रात्र्याञ्च यान् जन्तून् हिनस्त्यज्ञानतो यतिः ।अप्_161.014अब्।
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत्(1)

161.015

अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनं ।अप्_161.015अब्।
चर्मावनद्धं दुर्गन्धं पूर्णं मूत्रपुरीषयोः

161.016

जराशोकसमाविष्टं रोगायतनमातुरं ।अप्_161.016अब्।
रजस्वलमनित्यञ्च भूतावासमिमन्त्यजेत्

161.017

धृतिः क्षमा दमो ऽस्तेयं(2) शौचमिन्द्रियनिग्रहः ।अप्_161.017अब्।
ह्रीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणं

161.018

चतुर्विधं भैक्षवस्तु कुटीरकवहूदके ।अप्_161.018अब्।
हंसः परमहंसश् च यो यः पश्चात् स उत्तमः

161.019

एकदण्डी त्रिदण्डी वा(3) योगी मुच्यते बन्धनात् ।अप्_161.019अब्।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ

161.020

यमाः पञ्चाथ नियमाः शौचं सन्तोषणन्तपः ।अप्_161.020अब्।
स्वाध्यायेश्वरपूजा च पद्मकाद्यासनं यतेः(4)

161.021

प्राणायामस्तु द्विविधः स गर्भो ऽगर्भ एव च ।अप्_161.021अब्।
जपध्यानयुतो गर्भो विपरीतस्त्वगर्भकः

161.022

प्रत्येकं त्रिविधं सोपि पूरकुम्भकरेचकैः ।अप्_161.022अब्।
पूरणात् पूरको वायोर् निश् चलत्वाच्च कुम्भकः

161.023

:न्
1 समाचरेदिति ख.. , छ.. च
2 दयास्तेयमिति ङ..
3 त्रिदण्डी चेति ङ..
4 पद्मकाद्यासनं महत् इति ट..
:प् 146
रेचनाद्रेचकः प्रोक्तो मात्राभेदेन च त्रिधा ।अप्_161.023अब्।
द्वादशात्तु चतुर्विंशः षट्त्रिंशन्मात्रिको ऽपरः

161.024

तालो लघ्वक्षरो मात्रा प्रणवादि चरेच्छनैः ।अप्_161.024अब्।
प्रत्याहारो जापकानां ध्यानमीश्वरचिन्तनं

161.025

मनोधृतिर्धारणा स्यात् समाधिर्ब्रह्मणि स्थितिः ।अप्_161.025अब्।
अयमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकं

161.026

विज्ञानमानन्दं ब्रह्म तत्त्वमस्य.अहमस्मि तत् ।अप्_161.026अब्।
परम् ब्रह्म ज्योतिरात्मा वासुदेवो विमुक्त ओं

161.027

देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं ।अप्_161.027अब्।
जाग्रत्स्वप्नसुसुप्त्यादिमुक्तं(1) ब्रह्म तुरोयकं

161.028

नित्यशुद्धबुद्धयुक्तसत्यमानन्दमद्वयं(2) ।अप्_161.028अब्।
अहं ब्रह्म परं ज्योतिरक्षरं सर्वगं हरिः

161.029

सो ऽसावादित्यपुरुषः सो ऽसावहमखण्ड ओं ।अप्_161.029अब्।
सर्वारम्भपरित्यागी समदुःखसुखं क्षमी

161.030

भावशुद्धश् च ब्रह्माण्डं भित्त्वा ब्रह्म भवेन्नरः ।अप्_161.030अब्।
आषढ्यां पौर्णमास्याञ्च चातुर्मास्यं व्रतञ्चरेत्

161.031

ततो ज्रजेत् नवम्यादौ ह्य् ऋतुसन्धिषु वापयेत् ।अप्_161.031अब्।
प्रायश्चित्तं यतीनाञ्च ध्यानं वायुयमस् तथा

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc