भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 160

160.001

:ए इत्य् आद्याग्नेये महापुराणे शौचं
नामैकोनष्ट्यधिकतशततमो ऽध्यायः ॥
% छप्तेर् {160}
:श् अथ षष्ट्यधिकशततमो ऽध्यायः
वानप्रस्थाश्रमः
पुष्कर उवाच
वानप्रस्थयतीनाञ्च(2) धर्मं वक्ष्ये ऽधुना शृणु ।अप्_160.001अब्।
जटित्वमग्निहोत्रित्वं भूशय्याजिनधारणं

160.002

वने वासः पयोमूलनीवारफलवृत्तिता ।अप्_160.002अब्।
प्रतिग्रहनिवृत्तिश् च त्रिःस्नानं ब्रह्मचारिता

160.003

देवातिथीनां पूजा च धर्मो ऽयं वनवासिनः ।अप्_160.003अब्।
:न्
1 औषधादीति क..
2 यतीनान्तु इति ङ..
:प् 143
गृही ह्य् अपत्यापत्यञ्च दृष्ट्वारण्यं(1) समाश्रयेत्

160.004

तृतीयमायुषो भागमेकाकी वा सभार्यकः ।अप्_160.004अब्।
ग्रीष्मे पञ्चतपा नित्यं वर्षास्वभ्राविकाशिकः

160.005

आर्द्रवासाश् च हेमन्ते तपश्चोग्रञ्चरेद्बली(2) ।अप्_160.005अब्।
अपरावृत्तिमास्थाय व्रजेद्दिशमजिह्मगः(3)

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc