अग्नि पुराण · अध्याय 158
:ए इत्य् आग्नेये महापुराणे शावाशौचं नाम
सप्तपञ्चाशदाधिकशततमो ऽध्यायः ॥
% छप्तेर् {158}
:श् अथाष्टपञ्चाशदधिकशततमो ऽध्यायः
स्रावाद्यशौचं
पुष्कर उवाच
स्रावाशौचं प्रवक्ष्यामि मन्वादिमुनिसम्मतं ।अप्_158.001अब्।
:न्
1 सिद्धार्थकैस्तिलैर् विप्रान् यजद्वासो ऽपरं दधदिति घ.. , ङ.. , ञ.. च ।
सिद्धार्थस्तिलैर् विद्वान् स्नायाद्वासो ऽपरं दधदिति ग.. , ट.. च
:प् 134
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे त्र्यहेण या
चातुर्मासिकपातान्ते दशाहं पञ्चमासतः ।अप्_158.002अब्।
राजन्ये च चतूरात्रं वैश्ये पञ्चाहमेव च
अष्टाहेन तु शूद्रस्य द्वादशाहादतः परं ।अप्_158.003अब्।
स्त्रीणां विशुद्धिरुदिता(1) स्नानमात्रेण वै पितुः
न स्नानं हि सपिण्डे स्यात्त्रिरात्रं सप्तमाष्टयोः ।अप्_158.004अब्।
सद्यः शौचं सपिण्डानामादन्तजननात्तथा
आचूडादेकरात्रं स्यादाव्रताच्च त्रिरात्रकं ।अप्_158.005अब्।
दशरात्रं भवेदस्मान्मातापित्रोस्त्रिरात्रकं
अजातदन्ते तु मृते कृतचूडे ऽर्भके तथा ।अप्_158.006अब्।
प्रेते न्यूने त्रिभिर्वर्षैर् मृते शुद्धिस्तु नैशिल्की
द्व्यहेण क्षत्रिये शुद्धिस्त्रिभिर्वैश्ये मृते तथा ।अप्_158.007अब्।
शुद्धिः शूद्रे पञ्चभिः स्यात् प्राग्विवाहद् द्विषट्त्वहः(2)
यत्र त्रिरात्रं विप्राणामशौचं सम्प्रदृश्यते ।अप्_158.008अब्।
तत्र शूद्रे द्वादशाहः षण्णव क्षत्रवैशय्योः
द्व्यब्दे नैवाग्निसंस्कारो मृते तन्निखनेद् भुवि ।अप्_158.009अब्।
न चोदकक्रिया तस्य नाम्नि चापि कृते सति
जातदन्तस्य वा कार्या स्यादुपनयनाद्दश ।अप्_158.010अब्।
एकाहाच्छुद्ध्यते विप्रो यो ऽग्निवेदसमन्वितः
हीने हीनतरे चैव त्र्यहश् चतुरहस् तथा ।अप्_158.011अब्।
पञ्चाहेनाग्निहीनस्तु दशाहाद्ब्राह्मणव्रुवः
:न्
1 विशुद्धिः कथितेति घ.. , ङ.. , ञ.. च
2 द्विषट्ककमिति ट..
:प् 135
क्षत्रियो नवसप्ताहच्छुद्ध्येद्विप्रो गुणैर् युतः ।अप्_158.012अब्।
दशाहात् सगुणो वैश्यो विंशाहाच्छूद्र एव च
दशाहाच्छुद्ध्यते विप्रो द्वादशाहेन भूमिपः ।अप्_158.013अब्।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति
गुणोत्कर्षे दशाहाप्तौ त्र्यहमेकाहकं त्र्यहे ।अप्_158.014अब्।
एकाहाप्तौ सद्यः शौचं सर्वत्रैवं समूहयेत्
दासान्तेवासिभृतकाः शिष्याश् चैवात्र वासिनः ।अप्_158.015अब्।
स्वामितुल्यमशौचं स्यान्मृते पृथक् पृथग्भवेत्
मरणादेव कर्तव्यं संयोगो यस्य नाग्निभिः ।अप्_158.016अब्।
दाहादूर्ध्वमशौचं स्याद्यस्य वैतानिको विधिः
सर्वेषामेव वर्णानान्त्रिभागात् स्पर्शनम्भवेत् ।अप्_158.017अब्।
त्रिचतुःपञ्चदशभिः स्पृश्यवर्णाः क्रमेण तु
चतुर्थे पञ्चमे चैव सप्तमे नवमे तथा ।अप्_158.018अब्।
अस्थिसञ्चयनं कार्यं वर्णानामनुपूर्वशः
अहस्त्वदत्तकन्यासु प्रदत्तासु त्र्यहं भवेत् ।अप्_158.019अब्।
पक्षिणी संस्कृतास्वेव स्वस्रादिषु विधीयते
पितृगोत्रं कुमारीणां व्यूढानां भर्तृगोत्रता ।अप्_158.020अब्।
जलप्रदानं पित्रे च उद्वाहे चोभयत्र तु
दशाहोपरि पित्रोश् च दुहितुर्मरणे त्र्यहं ।अप्_158.021अब्।
सद्यः शौचं सपिण्डानां पूर्वं चूडाकृतेर्द्विज
एकाहतो ह्य् आविविहादूर्ध्वं हस्तोदकात् त्र्यहं ।अप्_158.022अब्।
पक्षिणी भ्रातृपुत्रस्य सपिण्डानां च सद्यतः
दशाहाच्छुद्ध्यते विप्रो जन्महानौ स्वयोनिषु ।अप्_158.023अब्।
:प् 136
षद्भिस्त्रिभिरहैकेन क्षत्रविट्शूद्रयोनिषु
एतज्ज्ञेयं सपिण्डानां वक्ष्ये चानौरसादिषु ।अप्_158.024अब्।
अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च
परपूर्वासु च स्त्रीषु त्रिरात्राच्छुद्धिरिष्यते ।अप्_158.025अब्।
वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठतां
आत्मनस्त्यागिनाञ्चैव निवर्तेतोदकक्रिया ।अप्_158.026अब्।
मात्रैकया द्विपितरौ भ्रतरावन्यगामिनौ
एकाहः सूतके तत्र मृतके तु द्व्यहो भवेत्(1) ।अप्_158.027अब्।
सपिण्डानामशौचं हि समानोदकतां वदे
बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते ।अप्_158.028अब्।
सवासा जलमाप्लुत्य सद्य एव विशुद्ध्यति
दशाहेन सपिण्डास्तु शुद्ध्यन्ति प्रेतसूतके ।अप्_158.029अब्।
त्रिरात्रेण सुकुल्यास्तु स्नानात्(2) शुद्ध्यन्ति गोत्रिणः
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।अप्_158.030अब्।
समानोदकभावस्तु निवर्तेताचतुर्दशात्
जन्मनामस्मृते वैतत् तत्परं गोत्रमुच्यते ।अप्_158.031अब्।
विगतन्तु विदेशस्थं शृणुयाद्यो ह्य् अनिर्दशं
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ।अप्_158.032अब्।
अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत्
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति ।अप्_158.033अब्।
:न्
1 मृतके तु त्र्यहो भवेदिति घ.. , ङ.. , ञ.. च । मतके तु तथा भवेदिति
झ..
2 स्नाता इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
:प् 137
मातुले पक्षिणो रात्रिः शिष्यत्विग्बान्धवेषु च
मृटे जामातरि प्रेते दैहित्रे भगिनीसुते(1) ।अप्_158.034अब्।
श्यालके तत्सुते चैव स्नानमात्रं विधीयते
मातामह्यां तथाचार्ये मृते मातामहे त्र्यहं ।अप्_158.035अब्।
दुर्भिक्षे राष्ट्रसम्पाते आगतायां तथापदि
उपसर्गमृतानाञ्च दाहे ब्रह्मविदान्तथा ।अप्_158.036अब्।
सत्रिव्रति(2) ब्रह्मत्तारिसङ्ग्रामे देशविप्लवे
दाने यज्ञे विवाहे च सद्यः शौचं विधीयते ।अप्_158.037अब्।
विप्रगोनृपहन्तॄणामनुक्तं चात्मघातिनां
असाध्यव्याधियुक्तस्य स्वाध्याये चाक्षमस्य च ।अप्_158.038अब्।
प्रायश्चित्तमनुज्ञातमग्नितोयप्रवेशनं
अपमानात्तथा(3) क्रोधात् स्नेहात्परिभवाद्भयात् ।अप्_158.039अब्।
उद्बध्य म्रियते नारी पुरुषो वा कथञ्चन
आत्मघाती चैकलक्षं वसेत्स नरके शुचौ ।अप्_158.040अब्।
वृद्धः श्रौतस्मृतेर्लुप्तः परित्यजति यस्त्वसून्
त्रिरात्रं तत्र शाशौचं द्वितीये चास्थिसञ्चयं ।अप्_158.041अब्।
तृतीये तूदकं कार्यं चतुर्थे श्राद्धमाचरेत्
विद्युदग्निहतानाञ्च त्र्यहं शुद्धिः सपिण्डिके(4) ।अप्_158.042अब्।
पाषण्डाश्रिता भर्तृघ्न्यो नाशौचोदकगाः स्त्रियः
पितृमात्रादिपाते तु आर्द्रवासा ह्य् उपोषितः ।अप्_158.043अब्।
:न्
1 प्रेते, भगिनीसुत इत्य् अपि इति ट..
2 यतिव्रतीति ज..
3 अपमानादथेति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
4 विद्युदादिहतानाञ्च त्र्यहाच्छुद्धिर्विधीयते इति ट..
:प् 138
अतीतेब्दे प्रकुर्वीत प्रेतकार्यं यथाविधि
यः कश्चित्तु हरेत् प्रेतमसपिण्डं कथञ्चन ।अप्_158.044अब्।
स्नात्वा स्चेलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुद्ध्यति
यद्यन्नमत्ति तेषान्तु दशाहेनैव शुद्ध्यति ।अप्_158.045अब्।
अनदन्नन्नमह्न्येव न वै तस्मिन् गृहे वसेत्
अनाथं व्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।अप्_158.046अब्।
पदे पदे यज्ञफलं शुद्धिः स्यात् स्नानमात्रतः
प्रेतीभूतं द्विजः शूद्रमनुगच्छंस्त्र्यहाच्छुचिः ।अप्_158.047अब्।
मृतस्य बान्धवैः सार्धं कृत्वा च परिदेवनं
वर्जयेत्तदहोरात्रं दानश्राद्धादि कामतः(1) ।अप्_158.048अब्।
शूद्रायाः प्रसवो गेहे शूद्रस्य मरणं तथा
भाण्डानि तु परित्यज्य त्र्यहाद्भूलेपतः शुचिः ।अप्_158.049अब्।
न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत्
नयेत् प्रेतं स्नापितञ्च पूजितं कुसुमैर् दहेत् ।अप्_158.050अब्।
नग्नदेहं दहेन् नैव किञ्चिद्देहं परित्यजेत्
गोत्रजस्तु गृहीत्वा तु चितां चारोपयेत्तदा ।अप्_158.051अब्।
आहिताग्निर्यथान्यायं दग्धव्यस्तिभिरग्निभिः
अनाहिताग्निरेकेन लौकिकेनापरस् तथा ।अप्_158.052अब्।
अस्मात् त्वमभिजातो ऽसि त्वदयं जायतां पुनः
असौ स्वर्गाय लोकाय सुखाग्निं प्रददेत्सुतः ।अप्_158.053अब्।
सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण बान्धवाः
:न्
1 दानश्राद्धादिकर्म चेति झ..
:प् 139
एवं मातामहाचार्यप्रेतानाञ्चोदकक्रिया ।अप्_158.054अब्।
काम्योदकं सखिप्रेतस्वस्रीयश्वश्रुरर्त्विजां
अपो नः शोशुचिदयं दशाहञ्च सुतो ऽर्पयेत् ।अप्_158.055अब्।
ब्राह्मणे दशपिण्डाः स्युः क्षत्रिये द्वादश स्मृताः
वैश्ये पञ्चदश प्रोक्ताः शूद्रे त्रिंशत् प्रकीर्तिता ।अप्_158.056अब्।
पुत्रो वा पुत्रिकान्यो वा पिण्डं दद्याच्च पुत्रवत्
विदिश्य निम्बपत्राणि नियतो द्वारि वेश्मनः ।अप्_158.057अब्।
आचम्य चाग्निमुदकं गोमयं गौरसर्षपान्
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ।अप्_158.058अब्।
अक्षरलवणान्नः स्युर् निर्मांसा भूमिशायिनः
क्रीतलब्धाशनाः स्नाता आदिकर्ता दशाहकृत् ।अप्_158.059अब्।
अभावे ब्रह्मचारी तु कुर्यात्पिण्डोदकादिकं
यथेदं शावमाशौचं सपिण्डेषु विधीयते ।अप्_158.060अब्।
जननेप्येवं स्यान्निपुणां शुद्धिमिच्छतां
सर्वेषां शावमाशौचं मातापित्रोश् च सूतकं ।अप्_158.061अब्।
सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः
पुत्रजन्मदिने श्राद्धं कर्तव्यमिति निश्चितं ।अप्_158.062अब्।
तदहस्तत्प्रदानार्थं गोहिरण्यादिवाससां
मरणं मरणेनैव सूतकं सूतकेन तु ।अप्_158.063अब्।
उभयोरपि यत् पूर्वं तेनाशौचेन शुद्ध्यति
सूतके मृतकं चेत्स्यान् मृतके त्वथ सूतकं ।अप्_158.064अब्।
तत्राधिकृत्य मृतकं शौचं कुर्यान्न सूतकं
समानं लघ्वशौचन्तु प्रथमेन समापयेत् ।अप्_158.065अब्।
:प् 140
असमानं द्वितीयेन धर्मराजवचो यथा
शावान्तः शाव आयाते(1) पूर्वाशौचेन शुद्ध्यति ।अप्_158.066अब्।
गुरुणा लघु बाध्येत लघुना नैव तद्गुरु
मृतके सूतके वापि रात्रिमध्ये ऽन्यदापतेत् ।अप्_158.067अब्।
तच्छेषेणैव सुद्ध्येरन् रात्रिशेषे द्व्यहाधिकात्
प्रभाते यद्यशौचं स्याच्छुद्धेरंश् च त्रिभिर्दिनैः ।अप्_158.068अब्।
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते
दानादि निनिवर्तेत कुलस्यान्नं न भुज्यते ।अप्_158.069अब्।
अज्ञाते पातकं नाद्ये भोक्तुरेकमहो ऽन्यथा(2)
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0