भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 157

157.001

पुष्पाणाञ्च फलानाञ्च प्रोक्षणाज्जलतो ऽखिलं ।अप्_156.016अब्।
:ए इत्य् आग्नेये महापुराणे द्रव्यशुद्धिर्नाम
षट्पञ्चाशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {157}
:श् अथ सप्तपञ्चाशदधिकशततमो ऽध्यायः
शावाशौचादिः
पुष्कर उवाच
प्रेतशुद्धिं प्रवक्ष्यामि सूतिकाशुध्हिमेव च ।अप्_157.001अब्।
दशाहं शावमाशौचं सपिण्देषु विधीयते

157.002

जनने च तथा शुद्धिर्ब्राह्मणानां भृगूत्तम ।अप्_157.002अब्।
द्वादशाहेन राजन्यः पक्षाद्वैश्यो ऽथ मासतः

157.003

शूद्रो ऽनुलोमतो दासे स्वामितुल्यन्त्वशौचकं ।अप्_157.003अब्।
षट्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु

157.004

ब्राह्मणः शुद्धिमाप्नोति क्षत्रियस्तु तथैव च ।अप्_157.004अब्।
विट्शूद्रयोनेः शुद्धिः स्यात् क्रमात् परशुरामक

157.005

षड्रात्रेण त्रिरात्रेण षड्भिः शूद्रे तथा विशः ।अप्_157.005अब्।
:प् 130
आदन्तजननात् सद्य आचूडान्नैशिकी श्रुतिः(1)

157.006

त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परं ।अप्_157.006अब्।
ऊनत्रैवार्षिके शूद्रे पञ्चाहाच्छुद्धिरिष्यते

157.007

द्वादशाहेने शुद्धिः स्यादतीते वत्सरत्रये ।अप्_157.007अब्।
गतैः संवत्सरैः षड्भिः शुद्धिर्मासेन कीर्तिता

157.008

स्त्रीणामकृतचूडानां विशुद्धिर् नैशिकी स्मृता ।अप्_157.008अब्।
तथा च कृतचुडानां त्र्यहाच्छुद्ध्यन्ति बान्धवाः

157.009

विवाहितासु नाशौचं पितृपक्षे विधीयते ।अप्_157.009अब्।
पितुर्गृहे प्रसूतानां विशुद्धिर् नैशिकी स्मृता

157.010

सूतिका दशरात्रेण शुद्धिमाप्नोति नान्यथा ।अप्_157.010अब्।
विवाहिता हि चेत् कन्या म्रियते पितृवेश्मनि

157.011

तस्यास्त्रिरात्राच्छुद्ध्यन्ति बान्धवा नात्र संशयः ।अप्_157.011अब्।
समानं लब्धशौचन्तु प्रथमेन समापयेत्

157.012

असमानं द्वितीयेन धर्मराजवचो यथा ।अप्_157.012अब्।
देशान्तरस्थः श्रुत्वा तु कुल्याणां मरणोद्भवौ

157.013

यच्छेषं दशरात्रस्य तावदेवशुचिर्भवेत् ।अप्_157.013अब्।
अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत्

157.014

तथा संवत्सरे ऽतीते स्नात एव विशुद्ध्यति ।अप्_157.014अब्।
मातामहे तथातीते आचार्ये च तथा मृते

157.015

रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोधनं ।अप्_157.015अब्।
सपिण्दे ब्राह्मणे वर्णाः सर्व एवाविशेषतः

157.016

:न्
1 आचडान्नैशिकी तथेति ट..
:प् 131
दशरात्रेण शुद्ध्यन्ति द्वादशाहेन भूमिपः ।अप्_157.016अब्।
वैश्याः पञ्चदशाहेन शूद्रा मासेन भार्गव

157.017

उच्छिष्टसन्निधावेकं तथा पिण्डं निवेदयेत् ।अप्_157.017अब्।
कीर्तयेच्च तथा तस्य नमगोत्रे समाहितः

157.018

भुक्तवत्सु द्विजेन्द्रेषु पूजितेषु धनेन च(1) ।अप्_157.018अब्।
विसृष्टाक्षततोयेषु गोत्रनामानुकीर्तनैः

157.019

चतुरङ्गुलविस्तारं तत्खातन्तावदन्तरं ।अप्_157.019अब्।
वितस्तिदीर्घं कर्तव्यं विकर्षूणां तथा त्रयं

157.020

विकर्षूणां समीपे च ज्वालयेज् ज्वलनत्रयं ।अप्_157.020अब्।
सोमाय वह्नये राम यमाय च समासतः

157.021

जुहुयादाहुतीः सम्यक् सर्वत्रैव चतुस्त्रयः ।अप्_157.021अब्।
पिण्डनिर्वपणं कुर्यात् प्राग्वदेव पृथक् पृथक्

157.022

अन्नेन दध्ना मधुना तथा मांसेन पूरयेत् ।अप्_157.022अब्।
मध्ये चेदधिमासः स्यात् कुर्यादभ्यधिकन्तु तत्

157.023

अथवा द्वादशाहेन सर्वमेतत् समापयेत् ।अप्_157.023अब्।
संवत्सरस्य मध्ये च यदि स्यादधिमासकः

157.024

तदा द्वादशके श्राद्धे कार्यं तदधिकं भवेत् ।अप्_157.024अब्।
संवत्सरे समाप्ते तु श्राद्धं श्राद्धवदाचरेत्

157.025

प्रेताय तत ऊर्धवं च तस्यैव पुरुषत्रये ।अप्_157.025अब्।
पिण्डान् विनिर्वपेत्तद्वच्चतुरस्तु समाहितः

157.026

सम्पूज्य दत्वा पृथिवी समाना इति चाप्यथ ।अप्_157.026अब्।
:न्
1 धनेषु चेति क.. , ख.. , घ.. , ङ.. , छ.. , ज.. , ञ.. च
:प् 132
योजयेत् प्रेतपिण्डं तु पिण्डेष्वन्येषु भार्गव

157.027

प्रेतपात्रं च पात्रेषु तथैव विनियोजयेत् ।अप्_157.027अब्।
पृथक् पृथक् प्रकर्तव्यं कर्मैतत् कर्मपात्रके

157.028

मन्त्रवर्जमिदं कर्म शूद्रस्य तु विधीयते ।अप्_157.028अब्।
सपिण्डीकरणं स्त्रीणां कार्यमेवं तदा भवेत्(1)

157.029

श्राद्धं कुर्याच्च प्रत्यब्दं प्रेते कुम्भान्नमब्दकं ।अप्_157.029अब्।
गङ्गायाः सिकता धारा यथा वर्षति वासवे

157.030

शक्या गणयितुं लोके नत्वतीताः पितामहाः ।अप्_157.030अब्।
काले सततगे स्थैर्यं नास्ति तस्मात् क्रियां चरेत्

157.031

देवत्वे यातनास्थाने प्रेतः श्राद्धं कृतं लभेत् ।अप्_157.031अब्।
नोपकुर्यान्नरः शोचन् प्रेतस्यात्मन एव वा

157.032

भृग्वग्निपाशकाम्भोभिर्मृतानामात्मघातिनां ।अप्_157.032अब्।
पतितानां च नाशौचं विद्युच्छस्त्रहताश् च ये

157.033

यतिब्रतिब्रह्मचारिनृपकारुकदीक्षिताः ।अप्_157.033अब्।
राजाज्ञाकारिणो(2) ये च स्नायाद्वै प्रेतगाम्यपि

157.034

मैथुने कटधूमे च सद्यः स्नानं विधीयते ।अप्_157.034अब्।
द्विजं न निर्हरेत्(3) प्रेतं शूद्रेण तु कथञ्चन

157.035

न च शूद्रं द्विजेनापि तयोर्दोषो हि जायते(4) ।अप्_157.035अब्।
अनाथविप्रप्रेतस्य वहनात् स्वरगलोकभाक्

157.036

:न्
1 कार्यमेव तथा भवेदिति छ.. , ङ.. , ञ.. च । कार्यमेतत्तथा भवेदिति
झ..
2 राजाज्ञाकारका इति ट..
3 न निर्दहेदिति ख..
4 तयोर्दोषो ऽभिजायते इति ङ..
:प् 133
सङ्ग्रामे जयमाप्नोति प्रेते ऽनाथे च काष्ठदः ।अप्_157.036अब्।
सङ्कल्प्य बान्धवं प्रेतमपसव्येन तां चितिं

157.037

परिक्रम्य ततः स्नानं कुर्युः सर्वे सवाससः ।अप्_157.037अब्।
प्रेताय च तथा दद्युस्त्रींस्त्रींश् चैवोदकाञ्जलीन्

157.038

द्वार्यश्मनि पदं दत्वा प्रविशेयुस् तथा गृहं ।अप्_157.038अब्।
अक्षतान्निक्षिपेद्वह्नौ निम्बपत्रं विदश्य च

157.039

पृथक् शयीरन् भूमौ च क्रीतलब्धाशनो भवेत् ।अप्_157.039अब्।
एकः पिण्दो दशाहे तु श्मश्रुकर्मकरः शुचिः

157.040

सिद्धार्थकैस्तिलैर् विद्वान् मज्जेद्वासोपरं दधत्(1) ।अप्_157.040अब्।
अजातदन्ते तनये शिशौ गर्भस्रुते तथा

157.041

कार्यो नैवाग्निसंस्कारो नैव चास्योदकक्रिया ।अप्_157.041अब्।
चतुर्थे च दिनेकार्यस् तथास्थ्नां चैव सञ्चयः

157.042

अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शो विधीयते ॥42

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc