अग्नि पुराण · अध्याय 159
:ए इत्य् आग्नेये महापुराणे स्रावाद्यशौचं नाम
अष्टपञ्चाशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {159}
:श् अथैकोनषष्ट्यधिकशततमो ऽध्यायः
असंस्कृतादिशौचं
पुष्कर उवाच
संस्कृतस्यासंस्कृतस्य स्वर्गो मोक्षो हरिम्मृतेः ।अप्_159.001अब्।
अस्थ्नाङ्गङ्गाम्भसि क्षेपात् प्रेतस्याभ्युदयो भवेत्
:न्
1 आपात इति ख.. , छ.. च
2 अननेप्येवमेवं स्यादित्यादिः, भोक्तुरेकमहोन्यथेत्यन्तः
पाठः घ.. , झ.. , ञ.. पुस्तकत्रयेषु नास्ति
:प् 141
गङ्गातोये नरस्यास्थि यावत्तावद्दिवि स्थतिः ।अप्_159.002अब्।
आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया
तेषामपि तथा गाङ्गे तोये ऽस्थ्नां पतनं हितं ।अप्_159.003अब्।
तेषां दत्तं जलं चान्नं गगने तत् प्रलीयते
अनुग्रहेण महता प्रेतस्य पतितस्य च ।अप्_159.004अब्।
नारायणबलिः कार्यस्तेनानुग्रहमश्नुते
अक्षयः पुण्डरीकाक्षस्तत्र दत्तं न नश्यति ।अप्_159.005अब्।
पतनात्रायते यस्मात् तस्मात् पात्रं जनार्दनः
पततां भुक्तिमुक्त्यादिप्रद एको हरिर्ध्रुवं ।अप्_159.006अब्।
दृष्ट्वा लोकान् म्रियमाणान् सहायं धर्ममाचरेत्
मृतो ऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतं ।अप्_159.007अब्।
जायावर्जं हि सर्वस्य याम्यः पन्था विभिद्यते(1)
धर्म एको(2) व्रजत्येनं यत्र क्वचन गामिनं ।अप्_159.008अब्।
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकं
न हि प्रतीक्षते मृत्युः कृतः वास्य न वा कृतं ।अप्_159.009अब्।
क्षेत्रापणगृहासक्तमन्यत्रगतमानसं
वृकीवीरणमासाद्य मृत्युरादाय गच्छति ।अप्_159.010अब्।
न कालस्य प्रियः कश्चिद् द्वेष्यश्चास्य न विद्यते
आयुष्ये कर्मणि क्षीणे प्रसह्य हरिते जनं ।अप्_159.011अब्।
नाप्राप्तकालो म्रियते बिद्धः शरशतैर् अपि
कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ।अप्_159.012अब्।
:न्
1 पन्था विभज्यते इति ग..
2 धर्म एवेति ज..
:प् 142
औषधानि(1) न मन्त्राद्यास्त्रायन्ते मृत्युनान्वितं
वत्सवत् प्राकृतं कर्म कर्तारं विन्दति ध्रुवं ।अप्_159.013अब्।
अव्यक्तादि व्यक्तमध्यमव्यक्तनिधनं जगत्
कौमारादि यथा देहे तथा देहान्तरागमः ।अप्_159.014अब्।
नवमन्यद्यथा वस्त्रं गृह्णात्येवं शरीरिकं
देही नित्यमबध्यो ऽयं यतः शोकं ततस्त्यजेत् ॥15
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0