अग्नि पुराण · अध्याय 156
:ए इत्य् आग्नेये महापुराणे आचाराध्यायो नाम
पञ्चपञ्चाशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {156}
:श् अथ षट्पञ्चाशदधिकशततमो ऽध्यायः
द्रव्यचुद्धिः
पुष्कर उवाच
द्रव्यशुद्धिं प्रवक्ष्यामि पुनःपाकेन मृण्मयं ।अप्_156.001अब्।
शुद्ध्येन् मूत्रपुरीषाद्यैः स्पृष्टाम्रं सुवर्णकं
आवर्तितञ्चान्यथा तु वारिणाम्ल्लेन ताम्रकं ।अप्_156.002अब्।
क्षारेण कांस्यलोहानां मुक्तादेः क्षालनेन तु
अब्जानां(1) चैव भाण्डानां सर्वस्याश्ममयस्य च ।अप्_156.003अब्।
शाकरज्जुमूलफलवैदलानां तथैव च
मार्जनाद्यज्ञपात्राणां पाणिना यज्ञकर्मणि ।अप्_156.004अब्।
उष्णाम्बुना सस्नेहानां शुद्धिः सम्मार्जनाद्गृहे
:न्
1 दुष्टानामिति ट..
:प् 128
शोधनान्म्रक्षणाद्वस्त्रे(1) मृत्तिकाद्भिर्विशोधनं ।अप्_156.005अब्।
बहुवस्त्रे प्रोक्षणाच्च दारवाणाञ्च तक्षणात्
प्रोक्षणात् संहतानान्तु द्रवाणाञ्च तथोत्प्लवात् ।अप्_156.006अब्।
शयनासनयानानां शूर्पस्य शकटस्य च
शुद्धिः सम्प्रोक्षणाज् ज्ञेया पलालेन्धनयोस् तथा ।अप्_156.007अब्।
शुद्धार्थकानाङ्कल्केन शृङ्गदन्तमयस्य च
गोबालैः पलपात्राणामस्थ्नां स्याच्छृङ्गवत्तथा ।अप्_156.008अब्।
निर्यासानां गुडानाञ्च लवणानां च शोषणात्
कुशुम्भकुसुमानाञ्च ऊर्णाकार्पासयोस् तथा ।अप्_156.009अब्।
शुद्धन्नदीगतं तोयं पुण्यन्तद्वत् प्रसारितं
मुखवर्जञ्च गौः शुद्धा शुद्धमश्वाजयोर्मुखं ।अप्_156.010अब्।
नारीणाञ्चैव वत्सानां शकुनीनां शुनो मुखं
मुखैः प्रस्रवणे वृत्ते मृगयायां सदा शुचि ।अप्_156.011अब्।
भुक्त्वा क्षुत्वा तथा सुप्त्वा पीत्वा चाम्भो विगाह्य च
रथ्यामाक्रम्य चाचामेद्वासो विपरिधाय च ।अप्_156.012अब्।
मार्जारश् चङ्क्रमाच्छुद्धश् चतुर्य्थे ऽह्नि रजस्वला
स्नाता स्त्री पञ्चमे योग्या दैवे पित्र्ये च कर्मणि ।अप्_156.013अब्।
पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः
एकां लिङ्गे मृदं दद्यात् करयोस्त्रिद्विमृत्तिकाः ।अप्_156.014अब्।
ब्रह्मचारिवनस्थानां यतीनाञ्च चतुर्गुणं
श्रीफलैर् अंशुपट्टानां क्षौमाणाङ्गौरसर्षपैः ।अप्_156.015अब्।
:न्
1 शोधनाभ्युक्षणाद्वस्त्रे इति घ.. , ङ.. च
:प् 129
शुद्धिः पर्युक्ष्य तोयेन मृगलोम्नां प्रकीर्तिता
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0