भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 155

155.001

:ए इत्य् आग्नेये महापुराणे विवाहो नाम
सतुःपञ्चाशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {155}
:श् अथ पञ्चपञ्चाशदधिकशततमो ऽध्यायः
आचारः
पुष्कर उवाच
ब्राह्मे मुहूर्ते चोत्थाय विष्ण्वादीन् दैवतान् स्मरेत् ।अप्_155.001अब्।
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः

155.002

रातौ च दक्षिणे कुर्यादुभे सन्ध्ये यथा दिवा ।अप्_155.002अब्।
न मार्गादौ जले वीप्यां सतृणायां सदाचरेत्

155.003

:प् 124
शौचं कृत्वा मृदाचम्य भक्षयेद्दन्तधावनं ।अप्_155.003अब्।
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणं

155.004

क्रियास्नानं तथा षष्ठं षोढास्नानं प्रकीर्तितं ।अप्_155.004अब्।
अस्नातस्याफलं कर्म प्रातःस्नानं चरेत्ततः

155.005

भूमिष्ठमुद्धृतात् पुण्यं ततः प्रस्रवणोदकं ।अप्_155.005अब्।
ततो ऽपि सारसं पुण्यं तस्मान्नादेयमुच्यते

155.006

तीर्थतोयं ततः पुण्यं गाङ्गं पुण्यन्तु सर्वतः ।अप्_155.006अब्।
संशोधितमलः पूर्वं निमग्नश् च जलाशये

155.007

उपस्पृश्य ततः कुर्यादम्भसः परिमार्जनं ।अप्_155.007अब्।
हिरण्यवर्णास्तिसृभिः शन्नो देवीति चाप्यथ

155.008

आपोहिष्ठेति तिसृभिरिदमापस्तथैव च ।अप्_155.008अब्।
ततो जलाशये मग्नः कुर्यादन्तर्जलं जपं

155.009

तत्राघमर्षणं सूक्तं द्रुपदां वा तथा जपेत् ।अप्_155.009अब्।
युञ्जते मन इत्य् एवं सूक्तं सूक्तं वाप्यथ पौरुषं

155.010

गायत्रीं तु विशेषेण अघमर्षणसूक्तके ।अप्_155.010अब्।
देवता भाववृत्तस्तु ऋषिश् चैवाघमर्षणः

155.011

छन्दश्चानुष्टुभं तस्य भाववृत्तो हरिः स्मृतः ।अप्_155.011अब्।
आपीडमानः शाटीं तु देवतापितृतर्पणं(1)

155.012

पौरुषेण तु सूक्तेन ददेच्चैवोदकाञ्जलिं ।अप्_155.012अब्।
ततो ऽग्निहवनं(2) कुर्याद्दानं दत्वा(3) तु शक्तितः

155.013

:न्
1 तत्राघमर्षणमित्यादिः देवतापितृतर्पणमित्यन्तः
पाठः झ.. पुस्तके नास्ति
2 ततो ऽग्निहरणमिति ङ.. , छ.. च
3 दीपं दत्वेति झ..
:प् 125
ततः समभिगच्छेत योगाक्षेमार्थमीश्वरं ।अप्_155.013अब्।
आसनं शयनं यानं जायापत्यङ्कमण्डलुः

155.014

आत्मनः शुचिरेतानि परेषां न शुचिर्भवेत् ।अप्_155.014अब्।
भाराक्रान्तस्य गुर्विण्याः पन्था देयो गुरुष्वपि

155.015

न पश्येच्चार्कमुद्यन्तन्नास्तं यान्तं न चाम्भसि ।अप्_155.015अब्।
नेक्षेन्नग्नां स्त्रियं कूपं शूनास्थानमघौघिनं

155.016

कार्पासाथि तया भस्म नाक्रामेद् यच्च कुत्सितं ।अप्_155.016अब्।
अन्तःपुरं वित्तिगृहं परदौत्यं ब्रजेन्न हि(1)

155.017

नारोहेद्विषमान्नावन्न वृक्षं न च पर्वतं ।अप्_155.017अब्।
अर्थायतनशास्त्रेषु तथैव स्यात् कुतूहली

155.018

लोष्टमर्दो तृणच्छेदी नखखादी विनश्यति ।अप्_155.018अब्।
मुखादिवादनं नेहेद् विना दीपं न रात्रिगः(2)

155.019

नाद्वारेण विशेद्वेश्म न च वक्त्रं विरागयेत् ।अप्_155.019अब्।
कथाभङ्गं न कुर्वीत न च वासोविपर्ययं

155.020

भद्रं भद्रमिति ब्रूयान्नानिष्टं कीर्तयेत् क्वचित् ।अप्_155.020अब्।
पालाशमासनं वर्ज्यं देवादिच्छायया(3) व्रजेत्

155.021

न मध्ये पूज्ययोर्यायात् नोच्छिष्टस्तारकादिदृक् ।अप्_155.021अब्।
नद्यान्नान्यां नदीं ब्रूयान्न कण्डूयेद् द्विहस्तकं

155.022

असन्तर्प्य पितॄन् देवान्नदीपारञ्च न व्रजेत् ।अप्_155.022अब्।
मलादिप्रक्षिपेन्नाप्सु(4) न नग्नः स्नानमाचरेत्

155.023

:न्
1 परभृतो भवेन्न हि इति झ..
2 लोष्टमद्दीत्यादिः, न रात्रिग इत्य् अन्तः पाठः, ग.पुस्तके
नास्ति
3 देवाद्रिच्छाययेति ख.. , छ.. , ग.. च
4 मलादिक्षेपयेन्नाप्सु इति ख.. , ट.. च
:प् 126
ततः समभिगच्छेत योगक्षेमार्थमीश्वरं ।अप्_155.023अब्।
स्रजन्नात्मनाप्पनयेत् खरादिकरजस्त्यजेत्

155.024

हीनान्नावहसेत् गच्छेन्नादेशे नियसेच्च तैः ।अप्_155.024अब्।
वैद्यराजनदीहीने म्लेच्छस्त्रीबहुनायके

155.025

रजस्वलादिपतितैर् न भाषेत केशवं स्मरेत् ।अप्_155.025अब्।
नासंवृतमुखः कुर्याद्धासं(1) जृम्भां तथा क्षुतं

155.026

प्रभोरप्यवमनं खद्गोपयेद्वचनं बुधः ।अप्_155.026अब्।
इन्द्रियाणां नानुकूली वेदरोधं न कारयेत्

155.027

नोपेक्षितव्यो व्याधिः स्याद्रिपुरल्पो ऽपि(2) भार्गव ।अप्_155.027अब्।
रथ्यातिगः सदाचामेत्(3) विभृयान्नाग्निवारिणी

155.028

न हुङ्कुर्याच्छिवं पूज्यं पादं पादेन नाक्रमेत् ।अप्_155.028अब्।
प्रत्यक्षं वा परोक्षं वा कस्य चिन्नाप्रियं वदेत्

155.029

वेदशास्त्रनरेन्द्रर्षिदेवनिन्दां विवर्जयेत् ।अप्_155.029अब्।
स्त्रीणामीर्षा(4) न कर्तव्या त्रिश्वासन्तासु वर्जयेत्

155.030

धर्मश्रुतिं देवरतिं(5) कुर्याद्धर्मादि नित्यशः(6) ।अप्_155.030अब्।
सोमस्य पूजां जन्मर्क्षे विप्रदेवादिपूजनं

155.031

:न्
1 कुर्याद्धास्यमिति ख.. ,ट.. च
2 रिपुर्वत्सोपि इति ङ..
3 समाचामेदिति छ..
4 स्त्रीणामिच्छेति क..
5 देवनतिमिति ग.. , घ.. , ङ.. , ञ.. , ट.. च । वेदनतिमिति ख.. ,छ.. च
6 भद्रं भद्रमिति ब्रूयादित्यादिः, कुर्याद्धर्मादि नित्यश इत्य्
अन्तः पाठः झ.. पुस्तके नास्ति
:प् 127
षष्ठीचतुर्दश्यष्टम्यामभ्यङ्गं वर्जयेत्तथा ।अप्_155.031अब्।
दूराद्गृहान् मूत्रविष्ठे नोत्तमैवैरमाचरेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc