भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 154

154.001

वेदस्वीकरणं कृत्वा स्रायाद्वै दत्तदक्षिणः ।अप्_153.017अब्।
17च्द् ।. नैष्ठिको ब्रह्मचारी वा देहान्तं निवसेद्गुरौ ॥अप्_153.0
:ए इत्य् आग्नेये महापुराणे ब्रह्मचर्याश्रमो नाम
त्रिपञ्चाशदधिकशततमो ऽध्यायः ॥
% छप्तेर् {154}
:श् अथ चतुःपञ्चाशदधिकशततमो ऽध्यायः
विवाहः
पुष्कर उवाच
विप्रश् चतस्रो विन्देत भार्यास्तिस्रस्तु भूमिपः ।अप्_154.001अब्।
द्वे च वैश्यो यथाकामं भार्यैकामपि चान्त्यजः

154.002

धर्मकार्याणि सर्वाणि न कार्याण्यसवर्णया ।अप्_154.002अब्।
पाणिर्ग्राह्यः सवर्णासु गृह्णीयात् क्सत्रिया शरं

154.003

वैश्या प्रतीदमादद्याद्दशां वै चान्त्यजा तथा ।अप्_154.003अब्।
सकृत् कन्या प्रदातव्या हरंस्तां चौरदण्डभाक्

154.004

अपत्यविक्रयासक्ते निष्कृतिर् न विधीयते ।अप्_154.004अब्।
कन्यादानं शचीयोगो(1) विवाहो ऽथ चतुर्थिका

154.005

:न्
1 सतीयोग इति ख.. , छ.. च
:प् 122
विवाहमेतत् कथितं नामकर्मचतुष्टयं ।अप्_154.005अब्।
नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ

154.006

पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ।अप्_154.006अब्।
मृते तु देवरे देयात् तदभावे यथेच्छया

154.007

पूर्वात्रितयमाग्नेयं वायव्यं चोत्तरात्रयं ।अप्_154.007अब्।
रोहिणौ चेति चरणे भगणः शस्यते सदा

154.008

नैकगोत्रान्तु वरयेन्नैकार्षेयाञ्च भार्गव ।अप्_154.008अब्।
पितृतः सप्तमादूर्ध्वं मातृतः पञ्चमात्तथा

154.009

आहूय दानं ब्राह्मः स्यात् कुलशीलयुताय तु ।अप्_154.009अब्।
पुरुषांस्तारयेत्तज्जो नित्यं कन्यप्रदानतः

154.010

तथा गोमिथुनादानाद्विवाहस्त्वार्ष उच्यते ।अप्_154.010अब्।
प्रार्थिता दीयते यस्य प्राजापत्यः स धर्मकृत्

154.011

शुल्केन चासुरो मन्दो गान्धर्वो वरणान्मिथः ।अप्_154.011अब्।
राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात्

154.012

वैवाहिके ऽह्नि(1) कुर्वीत कुम्भकारमृदा शुचीं ।अप्_154.012अब्।
जलाशये तु तां पूज्य वाद्याद्यैः(2) स्त्रीं गृहत्रयेत्

154.013

प्रशुप्ते केशवे नैव विवाहः कार्य एव हि ।अप्_154.013अब्।
पोषे चैत्रे कुजदिने रिक्ताविष्टितथो न च

154.014

न शुक्रजीवे ऽस्तमिते न शशाङ्के ग्रहार्दिते ।अप्_154.014अब्।
अर्कार्कभौमयुक्ते भे व्यतीपातहते न हि

154.015

सोम्यं पित्र्यञ्च वायव्यं सावित्रं रोहिणी तथा ।अप्_154.015अब्।
:न्
1 वैवाहिकेब्दे इति घ.. , ङ.. , ञ.. , ट.. च
2 वाद्यौघैर् इति ग.. , घ.. , ञ.. च
:प् 123
उत्तरात्रितयं मूलं मैत्रं पौष्णं विवाहभं

154.016

मानुषाख्यस् तथा लग्नो मानुषाख्यांशकः शुभः ।अप्_154.016अब्।
तृतीये च तथा षष्ठे दशमैकादशे ऽष्टमे

154.017

अर्कार्किचन्दतनयाः प्रशस्ता न कुजो ऽष्टमः ।अप्_154.017अब्।
सप्तान्त्याष्टमवर्गेषु शेषाः शस्ता ग्रहोत्तमाः

154.018

तेषामपि तथा मध्यात् षष्ठः शुक्रो न शस्यते ।अप्_154.018अब्।
वैवाहिके भे कर्तव्या तथैव च चतुर्थिका

154.019

न दातव्या ग्रहास्तत्र चतुराद्यास्तथैकगाः ।अप्_154.019अब्।
पर्ववर्जं स्त्रियं गच्छेत् सत्या दत्ता सदा रतिः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc