अग्नि पुराण · अध्याय 122
:ए इत्य् आग्नेये महापुराणे ज्योतिःशस्त्रसारो नाम
एकविंशत्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {122}
:श् अथ द्वाविंशत्यधिकशततमो ऽध्यायः
कालगणनं
अग्निर् उवाच
कालः समागणो वक्ष्ये गणितं कालबुद्धये ।अप्_122.001अब्।
कालः समागणो ऽर्कघ्नो(1) मासैश् चैत्रादिभिर्युतः
द्विघ्नो द्विस्ट्ःअः सवेदः स्यात् पञ्चाङ्गष्टयुतोगुणः(2) ।अप्_122.002अब्।
त्रिष्ठो मध्यो वसुगुणः पुनर्वेदगुणश् च सः
अष्टरन्ध्राग्निहीनः(3) स्यादधः सैकरसाष्टकैः ।अप्_122.003अब्।
मध्यो हीनः षष्टिहतो(4) लब्धयुक्तस्तथोपरि
न्यूनः सप्तकृतो वारस्तदधस्तिथिनाडयः ।अप्_122.004अब्।
सगुणो द्विगुणश्चोरोद्ध्वं त्रिभिरूनो गुणः पुनः
अधः स्वरामसंयुक्तो रसार्काष्टफलैर् युतः ।अप्_122.005अब्।
अष्टाविंशच्छेषपिण्डस्तिथिनाड्या अधः स्थितः
:न्
1 समागणोर्काब्द इति ख.. , छ.. च
2 पञ्चदशयुतो गण इति ज..
3 अष्टचन्द्राग्निहीन इति ज..
4 षष्टिहत इति ङ..
:प् 39
गुणस्तिसृभिरूनोर्धं द्वाभ्यां च गुणयेत् पुनः ।अप्_122.006अब्।
मध्ये रुद्रगुणः कार्यो ह्य् अधः सैको नवाग्निभिः(1)
लब्धहीनो(2) भवेन्मध्यो द्वाविंशतिविवर्जितः ।अप्_122.007अब्।
षष्टिशेषे ऋणं ज्ञेयं लब्धमूर्ध्वं विनिक्षिपेत्
सप्तविंशतिशेषस्तु ध्रुवो नक्षत्रयोगयोः ।अप्_122.008अब्।
मासि मासि क्षिपेद् वारन्द्वात्रिंशद्घटिकास्तिथौ
द्वे पिण्डे द्वे च नक्षत्रे नाड्य एकादश ह्य् ऋणे ।अप्_122.009अब्।
वारस्थाने तिथिन्दद्यात् सप्तभिर्भार्गवमाहरेत्
शेषवाराश् च सूर्याद्या घटिकासु च पातयेत् ।अप्_122.010अब्।
पिण्डिकेषु तिथिन्दद्याद्धरेच्चैव चतुर्दश
ऋणं धनं धनमृणं क्रमाज् ज्ञेयं चतुर्दशे ।अप्_122.011अब्।
प्रथमे त्रयोदशे पञ्च द्वितीयद्वादशे दश
पञ्चदशस्तृतीये च तथाचैकादशे स्मृतां ।अप्_122.012अब्।
चतुर्थे दशमे चैव भवेदेकोनविंशतिः
पञ्चमे नवमे चैव द्वाविंशतिरुदाहृताः ।अप्_122.013अब्।
षष्ठाष्टमे त्वखण्डाः स्युश् चतुर्विंशतिरेव च
सप्तमे पञ्चविंशः स्यात् खण्डशः पिण्डिकाद् भवेत्(3) ।अप्_122.014अब्।
कर्कटादौ हरेद्राशिमृतुवेदत्रयैः क्रमात्
तुलादौ प्रातिलोम्येन त्रयो वेदरसाः क्रमात् ।अप्_122.015अब्।
:न्
1 सैकेन सप्तकैर् इति ख.. , ग.. च
2 ऋतुहीन इति ङ..
3 खण्डकः पिण्डकाद्भवेदिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज..
च
:प् 40
मकरादौ दीयते च रसवेदत्रयः क्रमात् ।अप्_122.015अब्।
मेषादौ प्रातिलोम्येन त्रयो वेदरसाः क्रमात्(1) ।अप्_122.016अब्।
खेषवः खयुगा मैत्रं मेषादौ विकला धनम्
कर्कटे प्रातिलोम्यं स्यादृणमेतत् तुलादिके ।अप्_122.017अब्।
चतुर्गुणा तिथिर्ज्ञेया विकलाश्चेह सर्वदा
हन्याल्लिप्तागतागामिपिण्डसङ्ख्याफलन्तरैः ।अप्_122.018अब्।
षष्ट्याप्तं प्रथमोच्चार्ये हानौ देयन्धने धनम्
द्वितीयोच्चरिते वर्गे वैपरीत्यमिति स्थितिः ।अप्_122.019अब्।
तिथिर्द्विगुणिता कार्या षड्भागपरिवर्जिता
रविकर्मविपरीता तिथिनाडीसमायुता ।अप्_122.020अब्।
ऋणे शुद्धे तु नाड्यः स्युरृणं शुध्येत नो यदा
सषष्टिकं प्रदेयन्तत् षष्ट्याधिक्ये च तत्त्यजेत्(2) ।अप्_122.021अब्।
नक्षत्रं तिथिमिश्रं स्याच्चतुर्भिर्गुणिता तिथिः
तिथिस्त्रिभागसंयुक्ता ऋणेन च तथान्विता ।अप्_122.022अब्।
तिथिरत्र चिता कार्या तद्वेदाद्योगशोधनं
रविचन्द्रौ समौ कृत्वा योगो भवति निश् चलः ।अप्_122.023अब्।
एकोना तिथिर्द्विगुणा सप्तभिन्ना कृतिर्द्विधा(3)
तिथिश् च द्विगुणैकोना कृताङ्गैः करणन्निशि ।अप्_122.024अब्।
:न्
1 मकरादौ इत्य् आदिः, वेदरसाः क्रमादित्यन्तः पाठः छ..
पुस्तके नास्ति
2 सन्त्यजेदिति घ..
3 सप्तभिन्ना गतिर्द्विधेति ख.. । सप्तच्छिन्ना कृतिर्द्विधेति घ.. , ज.. च
:प् 41
कृष्णचतुर्दश्यन्ते शकुनिः पर्वणीह चतुष्पदं
प्रथमे तिथ्यर्धतो हि किन्तुघ्नं प्रतिपन्मुखे ॥25
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0