भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 123

123.001

:ए इत्य् आग्नेये महापुराणे कालगणनं नाम
द्वाविंशत्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {123}
:श् अथ त्रयोविंशत्यधिकशततमो ऽध्यायः
युद्धजयार्णवीयनानायोगाः
वक्ष्ये जयशुभाद्यर्थं सारं युद्धजयार्णवे ।अप्_123.001अब्।
अ+इ+उ+ए+ओ स्वराः स्युः क्रमान्नन्दादिका तिथिः

123.002

कादिहान्ता भौमरवी ज्ञसोमौ गुरुभार्गवौ ।अप्_123.002अब्।
शनिर्दक्षिणनाड्यान्तु भौमार्कशनयः परे

123.003

खार्णवः खससैर् गुण्यो रुद्रैर् भागं समाहरेत् ।अप्_123.003अब्।
रसाहतन्तु तत् कृत्वा पूर्वभागेन भाजयेत्

123.004

वह्निभिश्चाहतं कृत्वा(1) रूपन्तत्रैव निक्षिपेत् ।अप्_123.004अब्।
स्पन्दनं नाड्याः फलानि सप्राणस्पन्दनं पुनः

123.005

अनेनैव तु मानेन उदयन्ति दिने दिने ।अप्_123.005अब्।
स्फुरणैस्रिभिरुच्छ्वास उच्छ्वासैस्तु पलं स्मृतम्

123.006

:न्
1 वह्निभिश् च हृतं कृत्वा इति घ..
:प् 42
षष्टिभिश् च पलैर् लिप्ता लिप्ताषष्टिस्त्वहर्निशं ।अप्_123.006अब्।
पञ्चमार्धोदये बालकुमारयुववृद्धकाः

123.007

मृत्युर्येनोदयस्तेन चास्तमेकादशांशकैः ।अप्_123.007अब्।
कुलागमे भवेद्भङ्गः समृत्युः पञ्चमो ऽपिवा

123.008

स्वरोदयञ्चक्रं
शनिचक्रे चार्धमासङ्ग्रहाणामुदयः क्रमात् ।अप्_123.008अब्।
विभागैः पञ्चदशभिः शनिभागस्तु मृत्युदः

123.009

शनिचक्रं
दशकोतिसहस्राणि अर्वुदान्यर्वुदं हरेत्(1) ।अप्_123.009अब्।
त्रयोदशे च लक्षाणि प्रमाणं कूर्मरूपिणः

123.010

मघादौ कृत्तिकाद्यन्तस्तद्देशान्तः शनिस्थितौ ।अप्_123.010अब्।
कूर्मचक्रं
राहुचक्रे च सप्तोर्धमधः सप्त च संलिखेत्(2)

123.011

वाय्वग्न्योश् चैव नैरृत्ये पूर्णिमाग्नेयभागतः ।अप्_123.011अब्।
अभावास्यां वायवे च राहुर्वै तिथिरूपकः

123.012

रकारं दक्षभागे तु हकारं वायवे लिखेत् ।अप्_123.012अब्।
प्रतिपदादौ ककारादीन् सकारं नैरृते पुनः

123.013

राहोएमुखे तु भङ्गः स्यादिति राहुरुदाहृतः ।अप्_123.013अब्।
विष्टिरग्नौ(3) पौर्णमास्यां कराणीन्द्रे तृतीयकं

123.014

घोरा याम्यान्तु सप्तम्यां दशम्यां रौद्रसौम्यगा ।अप्_123.014अब्।
चतुर्दश्यान्तु वायव्ये चतुर्थ्यां वरुणाश्रये

123.015

:न्
1 अर्वुदान्यर्वुदं क्रमादिति झ..
2 सप्तरसांल्लिखेदिति झ..
3 विष्तिर्वह्नौ इति ग..
:प् 43
शुक्लाष्टभ्यां दक्षिणे च एकादश्यां भृशन्त्यजेत् ।अप्_123.015अब्।
रौद्रश् चैव तथा श्वेतो मैत्रः सारभटस् तथा

123.016

सावित्री विरोचनश् च जयदेवो ऽभिजित्तथा(1) ।अप्_123.016अब्।
रावणो विजयश् चैव नन्दी वरुण एव च

123.017

यमसौम्यौ भवश्चान्ते दशपञ्चमुहूर्तकाः ।अप्_123.017अब्।
रौद्रे रौद्राणि कुर्वीत श्वेते स्नानादिकं चरेत्

123.018

मैत्रे कन्याविवाहादि शुभं सारभटे चरेत् ।अप्_123.018अब्।
सावित्रे स्थापनाद्यं वा विरोचने नृपक्रिया

123.019

जयदेवे जयं कुर्याद् रावणे रणकर्म च(2) ।अप्_123.019अब्।
विजये कृषिवाणिज्यं पटबन्धं च नन्दिनि

123.020

वरुणे च तडागादि नाशकर्म यमे चरेत् ।अप्_123.020अब्।
सौम्ये सौम्यादि कुर्वीत भवेल्लग्नमहर्दिवा

123.021

योगा नाम्ना विरुद्धाः स्युर्योगा नाम्नैव शोभनाः ।अप्_123.021अब्।
राहुरिन्द्रात्समीरञ्च वायोर्दक्षं यमाच्छिवम्(3)

123.022

शिवादाप्यञ्जलादग्निरग्नेः सौम्यन्ततस्त्रयम् ।अप्_123.022अब्।
ततश् च सङ्क्रमं हन्ति चतस्रो घटिकाभ्रमन्

123.023

राहुचक्रं
चण्डीन्द्राणी वाराही च मुशली गिरिकर्णिका ।अप्_123.023अब्।
बला चातिबला क्षीरी मल्लिकाजातियूथिकाः

123.024

यथालाभं धारयेत्ताः श्वेतार्कश् च शतावरी ।अप्_123.024अब्।
गुडूची वागुरी दिव्या ओषध्यो धारिता जये

123.025

:न्
1 स्पन्दनमित्यादिः, जयदेवोभिजित्तथेत्यन्तः पाठः घ.. पुस्तके
नास्ति
2 जीवकर्म चेति ख..
3 वायोर्याम्यं ततः शिवमिति घ..
:प् 44
ओं नमो भैरवाय(1) खड्गपरशुहस्ताय ओं ह्रूं(2)
विघ्नविनाशाय ओं ह्रूं(3) फट्
अनेनैव तु मन्त्रेण शिखाबन्धादिकृज्जये ।अप्_123.025अब्।
तिलकञ्चाञ्जनञ्चैव धूपलेपनमेव च

123.026

स्नानपानानि तैलानि योगधूलिमतः शृणु ।अप्_123.026अब्।
शुभगा मनःशिला तालं लाक्षारससमन्वितं

123.027

तरुणीक्षीरसंयुक्तो ललाटे तिलको वशे ।अप्_123.027अब्।
विष्णुक्रान्ता च सर्पाक्षी सहदेवञ्च(4) रोचना

123.028

अजादुग्धेन संपिष्टं तिलकोवश्यकारकः ।अप्_123.028अब्।
प्रियङ्गुकुङ्कुमं कुष्ठं मोहनी तगरं घृतं

123.029

तिलको वश्यकृत्तच्च रोचना रक्तचन्दनं ।अप्_123.029अब्।
निशा मनःशिला तालं प्रियङ्गुसर्षपास् तथा

123.030

मोहनी हरिता क्रान्ता सहदेवी शिखा तथा ।अप्_123.030अब्।
मातुलङ्गरसैः पिष्टं ललाटे तिलको वशे

123.031

सेन्द्राः सुरा वशं यान्ति किं पुनः क्षुद्रमानुषाः ।अप्_123.031अब्।
मञ्जिष्ठा चन्दनं रक्तं कट्कन्दा विलासिनी

123.032

पुनर्नवासमायुक्तो लेपो ऽयं भास्करो वशे ।अप्_123.032अब्।
चन्दनं नागपुष्पञ्च मञ्जिष्ठा तगरं वचा(5)

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc