अग्नि पुराण · अध्याय 121
:ए इत्य् आग्नेये महापुराणे भुवनकोषो नाम विंशत्यधिकशततमो
ऽध्यायः ॥
% छप्तेर् {121}
:श् अथैकविंशाधिकशततमो ऽध्यायः
ज्योतिःशास्त्रं
अग्निर् उवाच
ज्योतिःशास्त्रं प्रवक्ष्यामि शुभाशुभविवेकदं ।अप्_121.001अब्।
चातुर्लक्षस्य सारं यत् तज् ज्ञात्वा सर्वविद्भवेत्
षडष्टके(3) विवाहो न न च द्विद्वादशे स्त्रियाः ।अप्_121.002अब्।
न त्रिकोणे ह्य् अथ प्रीतिः(4) शेषे च समसप्तके
:न्
1 ज्ञानविज्ञानजृम्भितमिति ज..
2 शुभाशुभाशयो हरिरिति ख.. , छ.. च
3 षट्काष्टके इति ख.. , ग.. , घ.. , ङ.. , ज.. च
4 न त्रिकोणेषु प्रीतिः स्यादिति ज..
:प् 30
द्विद्वादशे त्रिकोणे च मैत्रीक्षेत्रपयोर्यदि ।अप्_121.003अब्।
भवेदेकाधिपत्यञ्च ताराप्रीतिरथापि वा
तथापि कार्यः संयोगो न तु षट्काष्टके पुनः ।अप्_121.004अब्।
जीवे भृगौ चास्तमिते म्रियते च पुमान् स्त्रिया
गुरुक्षेत्रगते सूर्ये सूर्यक्षेत्रगते गुरौ ।अप्_121.005अब्।
विवाहं न प्रशंसन्ति कन्यावैधव्यकृद्भवेत्
अतिचारे त्रिपक्षं स्याद्वक्रे मासचतुष्टयं ।अप्_121.006अब्।
व्रतोद्वाहौ न कुर्वीत गुरोर्वक्रातिचारयोः
चैत्रे पौषे न रिक्तासु हरौ सुप्ते कुजे रवौ ।अप्_121.007अब्।
चन्द्रक्षये चाशुभं स्यात् सन्ध्याकालः शुभावहः
रोहिणी चोत्तरा मूलं स्वाती हस्तो ऽथ रेवती ।अप्_121.008अब्।
तुले न मिथुने शस्तो विवाहः परिकीर्तितः
विवाहे कर्णबेधे च व्रते पुंसवने तथा ।अप्_121.009अब्।
प्राशने चाद्यचूडायां बिद्धर्क्षञ्च विवर्जयेत्(1)
श्रवणे मूलपुष्ये च सूर्यमङ्गलजीवके ।अप्_121.010अब्।
कुम्भे सिंहे च मिथुने कर्म पुंसवनं स्मृतं
हस्ते मूले मृगे पौष्णे बुधे शुक्रे च निष्कृतिः ।अप्_121.011अब्।
अर्केन्दुजीवभृगुजे मूले ताम्बूलभक्षणं
अन्नस्य प्राशनं शुक्रे जीवे मृगे च मौनके(2) ।अप्_121.012अब्।
हस्तादिपञ्चके पुष्पे कृत्तिकादित्रये तथा
:न्
1 विद्धमृक्षं विवर्जयेत् इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
2 जीवे मकरमीनके इति झ..
:प् 31
अश्विन्यामथ रेवत्यां नवान्नफलभक्षणं ।अप्_121.013अब्।
पुष्पा हस्ता तथा ज्येष्ठा रोहिणी श्रवणाश्विनौ
स्वातिसौम्ये च भैषज्यं कुर्यादन्यत्र वर्जयेत् ।अप्_121.014अब्।
पूर्वात्रयं(1) मघा याम्यं पावनं(2) श्रवणत्रयं
भौमादित्यशनेर्वारे स्नातव्यं रोगमुक्तितः ।अप्_121.015अब्।
पार्थिवे चाष्टह्रींकारं मध्ये नाम च दिक्षु च
ह्रीं पुटं पार्थिवे दिक्षु ह्रीं विदिक्षु लिखेद्वसून् ।अप्_121.016अब्।
गोरोचनाकुङ्कुमेन भूर्जे वस्त्रे गले धृतं
शत्रवो वशमायान्ति मन्त्रेणानेन निश्चितं ।अप्_121.017अब्।
श्रीं ह्रीं सम्पुटं नाम श्रीं ह्रीं पत्राष्टकेक्रमात्
गोरोचनाकुङ्कुमेन भुर्जे ऽथ सुभगावृते ।अप्_121.018अब्।
गोमध्यवागमः पत्रे हरिद्राया रसेन च
शिलापट्टे ऽरीन् स्तम्भयति भूमावधोमुखीकृटं ।अप्_121.019अब्।
ओं हूं सः(3) सम्पुटन्नाम ओं हूं सः(4) पत्राष्टकेक्रमात्
गोरोचनाकुङ्कुमेन भूर्जे मृत्युनिवारणं ।अप्_121.020अब्।
एकपञ्चनवप्रीत्यै(5) द्विषत्द्वादशयोगकाः
त्रिसप्तैकादशे लाभो वेदाष्टद्वादशे रिपुः ।अप्_121.021अब्।
तनुर्धनञ्च सहजः सुहृत् सुतो रिपुस् तथा
जाया निधनधर्मौ च कर्मायव्ययकं क्रमात् ।अप्_121.022अब्।
:न्
1 पूर्वात्रिकमिति ज..
2 पावकमिति ङ..
3 ओं ह्रं स इति छ..
4 ओं जूं स इति ख.. । ओं ह्रं स इति छ..
5 एकपञ्चनवशान्त्यै इति ज..
:प् 32
स्फुटं मेसादिलग्नेषु नवताराबलं वदेत्
जन्म सम्पद्विपत् क्षेमं प्रत्यरिः साधकः क्रमात् ।अप्_121.023अब्।
निधनं मित्रप्रममित्रं ताराबलं विदुः
धारे ज्ञगुरुशुक्राणां सूर्याचन्द्रमसोस् तथा ।अप्_121.024अब्।
माघादिमसाषट्के तु क्षीरमाद्यं प्रशस्यते
कर्णबेधो बुधे जीवे पुष्ये श्रवणचित्रयोः ।अप्_121.025अब्।
पञ्चमे ऽब्दे चाध्ययनं षष्ठीं प्रतिपदन्त्यजेत्
रिक्तां पञ्चदशीं भौमं प्रार्च्य वाणीं हरिं श्रियं ।अप्_121.026अब्।
माघादिमासषत्के तु(1) मखलाबन्धनं शुभं
चूडाकरणकाद्यञ्च श्रवणादौ न शस्यते ।अप्_121.027अब्।
अस्तं याते गुरो शुक्रे क्षीणे च शशलाञ्छने
उपनीतस्य विप्रस्य मृत्युं जाड्यं विनिर्दिशेत् ।अप्_121.028अब्।
क्षौरर्क्षे शुभवारे च समावर्तनमिष्यते
शुभक्षेत्रे विलग्नेषु शुभयुक्तेक्षितेषु च ।अप्_121.029अब्।
अश्विनीमघाचित्रासु स्वातीयाम्योत्तरासु च
पुनर्वसौ तथा पुष्ये धनुर्वेदः प्रशस्यते ।अप्_121.030अब्।
भरण्यार्द्रा मघाश्लेषा वह्निभगर्क्षयोस् तथा
जिजीविषुर् न कुर्वीत वस्त्रप्रावरणं नरः ।अप्_121.031अब्।
गुरौ शुक्रे बुधे वस्त्रं विवाहादौ न भादिकं
रेवत्यश्विधनिष्ठासु हस्तादिषु च पञ्चसु ।अप्_121.032अब्।
शङ्खविद्रुमरत्नानां परिधानं प्रशस्यते
:न्
1 माघादिमासषट्केषु इति झ .
:प् 33
याम्यसर्पधनिष्ठासु(1) त्रिषु पूर्वेषु वारुणे(2) ।अप्_121.033अब्।
क्रीतं हानिकरं द्रव्यं विक्रीतं लाभकृद्भवेत्
अश्विनीस्वातिचित्रासु रेवत्यां वारुणे हरौ ।अप्_121.034अब्।
क्रीतं लाभकरं द्रवयं विक्रीतं हानिकृद्भवेत्
भरणी त्रीणि पूर्वाणि आर्द्राश्लेषा मघानिलाः ।अप्_121.035अब्।
वह्निज्येष्टाविशाखासु स्वामिनो नोपतिष्ठते
द्रव्यं दत्तं प्रयुक्तं वा यत्र निक्षिप्यते धनं ।अप्_121.036अब्।
उत्तरे श्रवणे शाक्रे कुर्याद्राजाभिषेचनं
चैत्रं ज्येष्ठं तथा भाद्रमाश्विनं पौषमेव च ।अप्_121.037अब्।
माघं चैव परित्यज्य शेषमासे गृहं शुभं
अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवं ।अप्_121.038अब्।
स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते
आदित्यभौमवर्जन्तु वापीप्रासादके तथा ।अप्_121.039अब्।
सिंहराशिगते जीवे गुर्वादित्ये मलिम्लुचे
बाले वृद्धे ऽस्तगे शुक्रे गृहकर्म विवर्जयेत् ।अप्_121.040अब्।
अग्निदाहो भयं रोगो राजपीडा धनक्षतिः
सङ्ग्रहे तृणकाष्ठानां कृते श्रवणपञ्चके ।अप्_121.041अब्।
गृहप्रवेशनं कुर्याद्धनिष्ठोत्तरवारुणे
नौकाया घटने द्वित्रिपञ्चसप्तत्रयोदशी ।अप्_121.042अब्।
नृपदर्शी धनिष्ठासु हस्तापौष्णाश्विनीषु च
पूर्वात्रयन्धनिष्ठार्द्रा वह्निः सौम्यविशाखयोः ।अप्_121.043अब्।
:न्
1 याम्यसर्पविशाखासु इति घ.. , ज.. च
2 पूर्वेषु चानले इति ग.. , घ.. , ङ.. च
:प् 34
अश्लेषा चाश्विनी चैव यात्रासिद्धिस्तु सम्पदा(1)
त्रिषूत्तरेषु रोहिण्यां सिनीबाली चतुर्दशी ।अप्_121.044अब्।
श्रवणा चैव हस्ता च चित्रा च वैष्णवी तथा
गोष्ठयात्रां न कुर्वीत प्रवेशं नैव कारयेत् ।अप्_121.045अब्।
अनिलोत्तररोहिण्यां मृगमूलपुनर्वसौ
पुष्यश्रवणहस्तेषु कृषिकर्म समाचरेत्(2) ।अप्_121.046अब्।
पुनर्वसूत्तरास्वातीभगमूलेन्द्रवारुणे(3)
गुरोः शुक्रस्य वारे वा वारे च(4) सोमभास्वतोः ।अप्_121.047अब्।
वृषलग्ने च कर्तव्यङ्कन्यायां मिथुने तथा
द्विपञ्च(5) दशमी सप्त तृतीया च त्रयोदशी ।अप्_121.048अब्।
रेवतीरोहिणीन्द्राग्निहस्तमैत्रोत्तरेषु(6) च
मन्दारवर्जं वीजानि वापयेत् सम्पदर्थ्यपि(7) ।अप्_121.049अब्।
रेवतीहस्तमूलेषु श्रवणे भगमैत्रयोः
पितृदैवे तथा सौम्ये धान्यच्छेदं मृगोदये ।अप्_121.050अब्।
हस्तचित्रादितिस्वातौ रेवत्यां श्रवणत्रये
स्थिरे लग्ने(8) गुरोर्वारे अथ(9) भार्गवसौम्ययोः ।अप्_121.051अब्।
याम्यादितिमघाज्येष्ठासूतरेषु प्रवेशयेत्
:न्
1 यात्रासिद्धिषु सम्पद इति ग.. , ज.. च
2 समारभेदिति घ.. , ङ.. च
3 भगमूले च वारुणे इति ख.. , छ.. च
4 वारे वा इति ज..
5 त्रिपञ्चेति ज..
6 हस्तमैत्रोत्तरासु इति ज..
7 वापयेत् संयतो ऽपि चेति ख.. , छ.. , ज.. च
8 चरे लग्ने इति झ..
9 गुरोर्वारेथवा इति घ.. , ज.. च
:प् 35
ओं धनदाय(1) सर्वधनेशाय देहि मे धनं स्वाहा(2) । ओं नवे
वर्षे इलादेवि लोकसंवर्धनि कामरूपिणि देहि मे धनं स्वाहा
॥
पत्रस्थं लिखितं धान्यराशिस्थं धान्यवर्धनं ।अप्_121.052अब्।
त्रिपूर्वासु विशाखायां धनिष्ठावारुणे ऽपि च
एतेषु षट्सु विज्ञेयं धान्यनिष्क्रमणं बुधैः ।अप्_121.053अब्।
देवतारामवाप्यादिप्रतिष्ठोदङ्मुखे रवौ
मिथुनस्थे रवौ दर्शाद्यादि स्याद् द्वादशी तिथिः ।अप्_121.054अब्।
सदा तत्रैव कर्तव्यं शयनं चक्रपाणिनः
सिंहतौलिङ्गते(3) चार्के दर्शाद्यद्वादशीद्वयं ।अप्_121.055अब्।
आदाविन्द्रसमुप्त्यानं प्रबोधश् च हरेः क्रमात्
तथा कन्यागते भानौ(4) दुर्गोप्त्याने तथाष्टमी ।अप्_121.056अब्।
त्रिपादेषु च ऋक्षेषु यदा भद्रा तिथिर्भवेत्
भौमादित्यशनैश्चारि विज्ञेयं तत् त्रिपुष्करं ।अप्_121.057अब्।
सर्वकर्मण्युपादेया विशुद्धिश् चन्द्रतरयोः(5)
जन्माश्रितस्त्रिषष्ठश् च सप्तमो दशमस् तथा ।अप्_121.058अब्।
एकादशः शशी येषान्तेषामेव शुभं वदेत्
शुक्लपक्षे द्वीतीयश् च पञ्चमो नवमः शुभः ।अप्_121.059अब्।
मित्रातिमित्रसाधकसपत्क्षेमादितारकाः
:न्
1 ओं श्रीं धनदायेति ज..
2 ``नवे वर्षे गुरोर्वारे अथ भार्गवसौम्ययोःऽऽ एष पाठोत्र छ..
पुस्तकेधिको ऽस्ति
3 सिंहतौलिगते इति ख..
4 कन्याराशिगते भानौ इति घ..
5 विशुद्धिश् चन्द्रसूर्ययोरिति ज..
:प् 36
जन्मना मृत्युमाप्नोति विपदा धनसङ्क्षयं ।अप्_121.060अब्।
प्रत्यरौ मरणं विद्यान्निधने याति पञ्चतां
कृष्णाष्टमीदिनादूर्ध्वं
यावच्छुक्लाष्टमीदिनं(1) ।अप्_121.061अब्।
तावत् कालं शशी क्षीणः पूर्णस्तत्रोपरि स्मृतः
वृषे च मिथुने भानौ जीवे चन्द्रेन्द्रदैवते(2) ।अप्_121.062अब्।
पौर्णमासी गुरोर्वारे महाज्यौष्ठी प्रकीर्तिता
ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस् तथा ।अप्_121.063अब्।
पूर्णिमा ज्येष्ठमासस्य महाज्यौष्ठी प्रकीर्तिता
स्वात्यन्तरे यन्त्रनिष्ठे शक्रस्योत्थापयेद् ध्वजं ।अप्_121.064अब्।
हर्यृक्षपादे(3) चाश्विन्यां सप्ताहान्ते विसर्जयेत्
सर्वं हेमसमन्दानं सर्वे ब्रह्मसमा द्विजाः ।अप्_121.065अब्।
सर्वं गङ्गासमन्तोयं राहुग्रस्ते दिवाकरे
ध्वाङ्क्षी महोदरी घोरा मन्दा मन्दाकिनी द्विजाः(4) ।अप्_121.066अब्।
राक्षसी च क्रमेणार्कात्सङ्क्रान्तिर्नामभिः स्मृता
बालवे कौलवे नागे तैतिले करणे यदि ।अप्_121.067अब्।
उत्तिष्ठन् सङ्क्रमत्यर्क्रस्तदा लोकः(5) सुखी भवेत्
गरे ववे वणिग्विष्टौ किन्तुघ्ने शकुनौ व्रजेत् ।अप्_121.068अब्।
राज्ञो दोषेण लोको ऽयम्पीड्यते सम्पदा समं
चतुष्पाद्विष्टिवाणिज्ये शयितः सङ्क्रमेद्रविः ।अप्_121.069अब्।
:न्
1 कृष्णाष्टमीदलादूर्ध्वं यावच्छुक्लाष्टमीदलमिति
ड..
2 जीवे चन्द्रेन्द्रदैवतमिति ज..
3 इन्द्राद्यपाद इति ख.. , ग.. च । हर्याद्यपादे इति ड..
4 मन्दाकिनी तथेति ख.. , घ.. , छ.. च । मन्दाकिनीति चेति झ..
5 तथा लोक इति ख..
:प् 37
दुर्भिक्षं राजसङ्ग्रामो दम्पत्योः संशयो भवेत्
आधाने जन्मनक्षत्रे व्याधौ क्लेशादिकं भवेत् ।अप्_121.070अब्।
कृत्तिकायान्नवदिनन्त्रिरात्रं रोहिणीषु च
मृगशिरःपञ्चरात्रं आर्द्रासु(1) प्राणनाशनं ।अप्_121.071अब्।
पुनर्वसौ च पुष्ये च सप्तरात्रं विधीयते
नवरात्रं तथाश्लेषा श्मशानान्तं मघासु च ।अप्_121.072अब्।
द्वौ मासौ पूर्वफाल्गुन्यामुत्तरासु त्रिपञ्चकम्(2)
हस्ते तु दृश्यते चित्रा अर्धमासन्तु पीडनम् ।अप्_121.073अब्।
मासद्वयन्तथा स्वातिर्विशाखा विंशतिर्दिनं
मैत्रे चैव दशाहानि ज्येष्ठास्वेवार्धमासकम् ।अप्_121.074अब्।
मूले न जायते मोक्षः पूर्वाषाढा त्रिपञ्चकम्(3)
उत्तरा दिनविंशत्या द्वौ मासौ श्रवणेन च ।अप्_121.075अब्।
धनिष्ठा चार्धमासञ्च वारुणे च दशाहकम्
न च भाद्रपदे मोक्ष उत्तरासु त्रिपञ्चकम् ।अप्_121.076अब्।
रेवती दशरात्रञ्च अहोरात्रन्तथाश्विनी
भरण्यां प्राणहानिः स्याद् गायत्रीहोमतः शुभं ।अप्_121.077अब्।
पञ्चधान्यतिलाज्याद्यैर् धेनुदानन्द्विजे शमं
दशा सूर्यस्य षष्ठाब्दा इन्दोः पञ्चदशैव तु ।अप्_121.078अब्।
अष्टौ वर्षाणि भौमस्य दशसप्तदशा बुधे
:न्
1 आर्द्रायामिति ग.. , ज.. च
2 उत्तरासु त्रिरात्रकमिति झ..
3 पूर्वाषाढादिनपञ्चकमिति क.. । हस्तेतु दृश्यन्ते इत्य् आदिः,
पूर्वाषाढात्रिपञ्चकमित्यन्तः पाठः ड.. , छ.. ,
पुस्तकद्वये नास्ति
:प् 38
दशाब्दानि दशा पङ्गोरूनविंशद्गुरोर्दृशा ।अप्_121.076अब्।
राहोर्द्वादशवर्षाणि भार्गवस्यैकविंशतिः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0