भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 120

120.001

:ए इत्य् आग्नेये महपुराणे द्वीपादिवर्णनं
नामैकोनविंशत्यधिकशततमो ऽध्यायः ॥
:न्
1 आगाम्यगधमालस्या इति ख.. , छ.. च
2 द्विजादय इति क.. , ख.. , ग.. , छ.. च
3 सूर्यरूपन्ते इति घ.. , ज.. च
4 वर्षे द्वे भागचिह्निते इति झ..
5 पञ्चात्रेति ग.. , ङ.. च
6 समुद्राणामिति ग.. , ङ.. , झ.. च
7 स्वादूदका द्वित्रिगुणेति ख.. , छ.. च । स्वादूदका तु द्विगुणेति घ.. ,
ज.. च । स्वादूदका तु द्विगुणेति ग.. , ङ.. च
8 पञ्चाशत्कोटिविस्तृतेति छ..
:प् 25
% छप्तेर् {120}
:श् अथ विंशत्यधिकशततमो ऽध्यायः
भुवनकोषः
अग्निर् उवाच
विस्तारस्तु स्मृतो भूमेः सहस्राणि च सप्ततिः ।अप्_120.001अब्।
उच्छ्रायो दशसाहस्रं पातालञ्चैकमेककं

120.002

अतलं वितलञ्चैव नितलञ्च गभस्तिमत् ।अप्_120.002अब्।
महाख्यं सुतलञ्चाग्र्यं पातालञ्चापि सप्तमं

120.003

कृष्णपीतारुणाः शुक्लशर्कराशैलकाञ्चनाः ।अप्_120.003अब्।
भूमयस्तेषु रम्येषु सन्ति दैत्यादयः सुखं

120.004

पातालानामधश्चास्ते शेषो विष्णुश् च तामसः ।अप्_120.004अब्।
गुणानन्त्यात्स चानन्ततः शिरसा धारयन्महीं

120.005

भुवो ऽधो नरका नैके न पतेत्तत्र वैष्णवः ।अप्_120.005अब्।
रविणा भासिता पृथ्वी यावत्तायन्नभो मतं

120.006

भूमेर्योजनलक्षन्तु विशिष्ठरविमण्डलं ।अप्_120.006अब्।
रवेर् लक्षेण चन्द्रश् च लक्षान्नाक्षत्रमिन्दुतः

120.007

द्विलक्षाद्भाद्बुधश्चास्ते बुधाच्छुक्रो द्विलक्षतः ।अप्_120.007अब्।
द्विलक्षेण कुजः शुक्राद्भौमाद् द्विलक्षतो गुरुः

120.008

गुरोर्द्विलक्षतः सौरित्ल्लक्षात्सप्तर्षयः शनेः ।अप्_120.008अब्।
लक्षाद् ध्रुवो ह्य् ऋषिभ्यस्तु त्रैलोक्यञ्चोच्छ्रयेण च

120.009

ध्रुवात् कोट्या महर्लोको यत्र ते कल्पवासिनः ।अप्_120.009अब्।
:प् 26
जनो द्विकोटितस्तस्माद्यत्रासन्(1) सनकादयः

120.010

जनात्तपश्चाष्तकोट्या वैराजा यत्र देवताः ।अप्_120.010अब्।
षणवत्या तु कोटीनान्तपसः सत्यलोककः

120.011

अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः ।अप्_120.011अब्।
पादगम्यस्तु भूल्लोको भुवः सूर्यान्तरः स्मृतः

120.012

स्वर्गलोको ध्रुवान्तस्तु नियुतानि(2) चतुर्दश ।अप्_120.012अब्।
एतदण्डकटाहेन वृतो ब्रह्माण्डविस्तरः

120.013

वारिवह्न्यनिलाकाशैस्ततो भूतादिना वहिः ।अप्_120.013अब्।
वृतं दशगुणैर् अण्डं भूतादिर्महता तथा

120.014

दशोत्तराणि शेषाणि एकैकस्मान्मामुने ।अप्_120.014अब्।
महान्तञ्च समावृत्य प्रधानं समवस्थितं

120.015

अनन्तस्य न तस्यान्तः सङ्ख्यानं नापि विद्यते(3) ।अप्_120.015अब्।
हेतुभूतमशेषस्य प्रकृतिः सा परा मुने

120.016

असङ्ख्यातानि शाण्डानि तत्र जातानि चेदृशां ।अप्_120.016अब्।
दारुण्यग्निर्यथा तैलं तिले तद्वत् पुमानिति(4)

120.017

प्रधाने च स्थितो(5) व्यापी चेतनात्मात्मवेदनः ।अप्_120.017अब्।
प्रधानञ्च पुमांश् चैव सर्वभूतात्मभृतया(6)

120.018

विष्णुशक्त्या महाप्राज्ञ वृतौ संश्रयधर्मिणौ ।अप्_120.018अब्।
तयोः(7) सैव पृथग्भावे कारणं संश्रयस्य च

120.019

:न्
1 यत्र वै इति ङ..
2 अयुतानि इति ज..
3 सङ्ख्यानं नैव विद्यते इति घ.. , झ.. च । सङ्ख्यानं न च विद्यते इति
ग.
4 पुमानपि इति घ.. , झ.. च
5 प्रधाने ऽवस्थितं इति ख.. , ग.. , ङ.. च
6 सर्वभूतानुभूतया इति ङ..
7 द्वयोरिति झ..
:प् 27
क्षोभकारणभूतश् च सर्गकाले महामुने ।अप्_120.019अब्।
यथा शैत्यं जले वातो विभर्ति कणिकागतं

120.020

जगच्छक्तिस् तथा विष्णोः प्रधानप्रतिपादिकां ।अप्_120.020अब्।
विष्णुशक्तिं समासाद्य देवाद्याः सम्भवन्ति हि

120.021

स च विष्णुः स्वयं ब्रह्म यतः सर्वमिदं जगत् ।अप्_120.021अब्।
योजनानां सहस्राणि भास्करस्य रथो नव

120.023

ईशादण्डस्तथैवास्य द्विगुणो मुनिसत्तम ।अप्_120.022अब्।
सार्धकोटिस् तथा सप्तनियुतान्यधिकानि वै ॥अप्_120.022चे
योजनानान्तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितं ।अप्_120.023अब्।
त्रिनाभिमतिपञ्चारं षण्णेमि द्व्ययनात्मकं

120.024

संवत्सरमयं कृत्स्नं कालचक्रं प्रतिष्ठितं ।अप्_120.024अब्।
चत्वारिंशत्सहस्राणि द्वितीयक्षो विवस्वतः

120.025

पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते ।अप्_120.025अब्।
अक्षप्रमाणमुभयोः प्रमाणन्तदद्युगार्धयोः

120.026

ह्रस्वो ऽक्षस्तद्युगार्धञ्च ध्रुवाधारं रथस्य वै ।अप्_120.026अब्।
हयाश् च सप्त छन्दांसि गायत्र्यादीनि सुव्रत

120.027

उदयास्तमनं ज्ञेयं दर्शनादर्शनं रवेः ।अप्_120.027अब्।
यावन्मात्रप्रदेशे तु वशिष्ठो ऽवस्थितो ध्रुवः

120.028

स्वयमायाति तावत्तु भूमेराभूतसम्प्लवे(1) ।अप्_120.028अब्।
ऊर्धोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः

120.029

एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरं ।अप्_120.029अब्।
निर्धूतदोषपङ्कानां यतीनां स्थानमुत्तमं

120.030

:न्
1 भूमेराहूतसम्प्लवे इति घ.. , ज.. च
:प् 28
ततो गङ्गा प्रभवति स्मरणात् पाशनाशनी(1) ।अप्_120.030अब्।
दिवि रूपं हरेर्ज्ञेयं शिशुमाराकृति प्रभो

120.031

स्थितः पुच्छे ध्रुवस्तत्र भ्रमन् भ्रामयति ग्रहान् ।अप्_120.031अब्।
स रथो ऽधिष्ठिता देवैर् आदित्यैर् ऋषिभिर्वरैः(2)

120.032

गन्धर्वैर् अप्सरोभिश् च ग्रामणीसर्पराक्षसैः(3) ।अप्_120.032अब्।
हिमोष्णवारिवर्षाणां कारणं भगवान् रविः

120.033

ऋग्वेदादिमयो विष्णुः स शुभाशुभकारणं ।अप्_120.033अब्।
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः(4)

120.034

वामदक्षिणतो युक्ता दश तेन चरत्यसौ ।अप्_120.034अब्।
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च

120.035

त्रयस्त्रिंशत्तथा देवाः पिवन्ति क्षणदाकरं(5) ।अप्_120.035अब्।
एकां कलाञ्च पितर एकामारश्मिसंस्थिताः

120.036

वाय्वग्निद्रव्यसम्भूतो रथश् चन्द्रसुतस्य च ।अप्_120.036अब्।
अष्टाभिस्तुरगैर् युक्तो बुधस्तेन चरत्यपि

120.037

शुक्रस्यापि रथो ऽष्टाश्वो भौमस्यापि रथस् तथा ।अप्_120.037अब्।
वृहस्पते रथो ऽष्टाश्वः शनेरष्टाश्वको रथः

120.038

स्वर्भानोश् च रथो ऽष्टाश्वः केतोश्चाष्टाश्वको रथः ।अप्_120.038अब्।
यदद्य वैष्णवः कायस्ततो विप्र वसुन्धरा

120.039

:न्
1 सर्वपापप्रणाशिनीति ज..
2 ऋषभो रवेरिति ग.. , घ.. , ङ.. , ज.. च
3 सरथ इत्य् आदिः, राक्षसैर् इत्यन्तः पाठः झ.. पुस्तके
नास्ति
4 कुन्दाभास्तत्र वाजिन इति क.. , घ.. , ङ.. च
5 क्षणदाचरमिति झ..
:प् 29
पद्माकरा समुद्भूता पर्वताद्यादिसंयुता ।अप्_120.039अब्।
ज्योतिर्भुवननद्यद्रिसमुद्रवनकं हरिः

120.040

यदस्ति नास्ति तद्विष्णुर्विष्णुज्ञानविजृम्भितं(1) ।अप्_120.040अब्।
न विज्ञानमृते किञ्चिज् ज्ञानं विष्णुः परम्पदं

120.041

तत् कुर्याद् येन विष्णुः स्यात् सत्यं ज्ञानमनन्तकं ।अप्_120.041अब्।
पठेद् भुवनकोषं हि यः सो ऽवाप्तसुखात्मभाक्

120.042

ज्योतिःशास्त्रादिविध्याश् च शुभाशुभाधिपो हरिः(2)

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc