अग्नि पुराण · अध्याय 119
:ए इत्य् आग्नेये महापुराणे भारतवर्षं
नामाष्टादशाधिकशततमो ऽध्यायः ॥
% छप्तेर् {119}
:श् अथैकोनविंशत्यधिकशततमो ऽध्यायः
महाद्वीपादि
अग्निर् उवाच
लक्षयोजनविस्तारं जम्बूद्वीपं समावृतम् ।अप्_119.001अब्।
:न्
1 शक्तिमानृक्षपर्वत इति घ.. , छ.. च । शुक्तिमानृक्षपर्वत इति
ज..
2 नव भेदा भवन्त्यस्येति झ..
3 शक्तिमत इति ख.. , ग.. , घ.. , झ.. च
:प् 22
लक्ष्ययोजनमनेन क्षीरोदेन समन्ततः
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस् तथा स्थितः(1) ।अप्_119.002अब्।
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरास् तथा
स्याच्छान्तभयः शिशिरः सुखोदय इतः परः ।अप्_119.003अब्।
आनन्दश् च शिवः क्षेमो ध्रुवस्तन्नामवर्षकं
मर्यादाशैलो गोमेधश् चन्द्रो नारददुन्द्भी ।अप्_119.004अब्।
सोमकः सुमनाः शैलो वैभ्राजास्तज्जनाः शुभाः
नद्यः प्रधानाः सप्तात्र प्लक्षाच्छाकान्तिकेषु च ।अप्_119.005अब्।
जीवनं पञ्चसास्रं धर्मो वर्णाश्रमात्मकः(2)
आर्यकाः कुरवश् चैव विविंशा भाविनश् च ते ।अप्_119.006अब्।
विप्राद्यास्तैश् च सोमो ऽर्च्यो द्विलक्षश्चाब्धिलक्षकः
मानेनेक्षुरसोदेन वृतो द्विगुणशाल्मलः ।अप्_119.007अब्।
वपुष्मतः सप्त पुत्राः शाल्मलेशास् तथाभवन्
श्वेतो ऽथ हरितश् चैव जीमूतो लोहितः क्रमात् ।अप्_119.008अब्।
वैद्युतो मानसश् चैव सुप्रभो नाम वर्षकः
द्विगुणो द्विगुणेनैव सुरोदेन समावृतः ।अप्_119.009अब्।
कुमुदश्चानलश् चैव(3) तृतीयस्तु वलाहकः
द्रोणः कंको ऽथ(4) महिषः ककुद्मान् सप्त निम्नगाः ।अप्_119.010अब्।
कपिलाश्चारुणाः पीताः कृष्णाःस्युर्ब्राह्मणादयः
वायुरूपं यजन्ति स्म सुरोदेनायमावृतः(5) ।अप्_119.011अब्।
:न्
1 द्वीपस् तथा स्मृत इति झ..
2 वर्णाश्रमात्मज इति ख.. , घ.. , ज.. च
3 कुमुदश्चोन्नतश् चैवेति ख.. , ग.. , घ.. , ङ.. च
4 कर्को ऽथेति क..
5 सुरोदेन समावृत इति घ..
:प् 23
ज्योतिष्मतः कुशेशाः स्युरुद्गिजो धेनुमान् सुतः
द्वैरथो लंवनो धैर्यः कपिलश् च प्रभाकरः ।अप्_119.012अब्।
विप्राद्या दधिमुख्यास्तु ब्रह्मरूपं यजन्ति ते
विद्रुमो(1) हेमशैलश् च द्युतिमान् पुष्पवांस् तथा ।अप्_119.013अब्।
कुशेशयो हरिः शैलो वर्षार्थं मन्दराचलः
वेष्टितो ऽयं घृतोदेन क्रौञ्चद्वीपेन सो ऽप्यथ ।अप्_119.014अब्।
क्रौञ्चेश्वराः द्युतिमतः पुत्रास्तन्नामवर्षकाः
कुशलो मनोनुगश्चोष्णः प्रधानो ऽथान्धकारकः ।अप्_119.015अब्।
मुनिश् च दुन्दुभिः सप्त सप्त शैलाश् च निम्नगाः(2)
क्रौञ्चश् च वाम्नश् चैव तृतीयश्चान्धकारकः(3) ।अप्_119.016अब्।
देववृत् पुण्डरीकश् च दुन्दुभिर्द्विगुणो मिथः
द्वीपा द्वीपेषु ये शैला यथा द्वीपानि ते तथा ।अप्_119.017अब्।
पुष्कराः पुष्कला धन्यास्तीर्था(4) विप्रादयो हरिम्
यजन्ति क्रौञ्चद्वीपस्तु दधिमण्डोदकावृतः ।अप्_119.018अब्।
संवृतः शाकद्वीपेन हव्याच्छाकेश्वराः सुताः
जलदश् च कुमारश् च सुकुमारो मणीवकः ।अप्_119.019अब्।
कुशोत्तरथो मोदाकी द्रुमस्तन्नामवर्षकाः
उदयाख्यो जलधरो रैवतः श्यामकोद्रकौ ।अप्_119.020अब्।
आम्विकेयस् तथा रम्यः केशरी सप्त निम्नगाः
:न्
1 रुद्राभ इति क.. । विक्रम इति ख.. , छ.. च
2 कुशल इत्य् आदिः, निम्नगा इत्य् अन्तः पाठो झ.. पुस्तके नास्ति
3 तृतीयश्चानुकारक इति घ.. , झ.. च
4 पुष्कलावत्यां तीर्था इति घ..
:प् 24
मगा मगधमनस्या(1) मन्दगाश् च द्विजातयः(2) ।अप्_119.021अब्।
यजन्ति सूर्यरूपं तु(3) शाकः क्षीराब्धिना वृतः
पुष्करेणावृतः सो ऽपि द्वौ पुत्रौ सवनस्य च ।अप्_119.022अब्।
मसावीतो धातकिश् च वर्षे द्वे नामचिह्निते(4)
एको ऽद्रिर्मानसाख्यो ऽत्र मध्यतो वलयाकृतिः ।अप्_119.023अब्।
योजनानां सहस्राणि विस्तारोच्छ्रायतः समः
जीवनं दशसाहस्रं सुरैर् ब्रह्मात्र पूज्यते ।अप्_119.024अब्।
स्वादूदकेनोदधिना वेष्टितो द्वीपमानतः
ऊनातिरिक्तता चापां समुद्रेषु न जायते ।अप्_119.025अब्।
उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः
दशोत्तराणि पञ्चैव(5) अङ्गुलानां शतानि वै ।अप्_119.026अब्।
अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां(6) महामुने
स्वादूदका बहुगुणा(7) भूर्हैमी जन्तुवर्जिता ।अप्_119.027अब्।
लोकालोकस्ततः शैलो योजनायुतविस्तृतः
लोकालोकस्तु तमसावृतो ऽथाण्डकटाहतः ।अप्_119.028अब्।
भूमिः साण्डकटाहेन पञ्चाशत्कोटिविस्तरा(8)
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0