भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 12

12.001

:ए इत्य् आदिमहापुराणे आग्नेये रामायणे उत्तरकाण्डवर्णनं
नाम एकादशो ऽध्यायः
:प् 27
% छप्तेर् {12}
:श् अथ द्वादशो ऽध्यायः
श्रीहरिवंशवर्णनं
अग्निर् उवाच
हरिवंशम्प्रवक्ष्यामि विष्णुनाभ्यम्बुजादजः(1) ।अप्_12.001अब्।
ब्रह्मणोत्रिस्ततः सोमः सोमाज्जातः पुरूरवाः

12.002

तस्मादायुरभूत्तस्मान् नहुषो ऽतो ययातिकः ।अप्_12.002अब्।
यदुञ्च तुर्वसुन्तस्माद् देवयानी व्यजायत

12.003

द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ।अप्_12.003अब्।
यदोः कुले यादवाश् च वसुदेवस्तदुत्तमः

12.004

भुवो भारावतारार्थं देवक्यां वसुदेवतः ।अप्_12.004अब्।
हिरण्यकशिपोः पुत्राः षड्गर्भा योगनिद्रया

12.005

विष्णुप्रयुक्तया नीता देवकीजठरं पुरा ।अप्_12.005अब्।
अभूच्च सप्तमो गर्भो देवक्या जठराद् बलः

12.006

सङ्क्रामितो ऽभूद्रोहिण्यां रौहिणेयस्ततो हरिः ।अप्_12.006अब्।
कृष्णाष्टम्याञ्च नभसि अर्धरात्रे चतुर्भुजः

12.007

देवक्या वसुदेवेन स्तुतो बालो द्विबाहुकः ।अप्_12.007अब्।
वसुदेवः कंसभयाद् यशोदाशयने ऽनयत्

12.008

यशोदाबालिकां गृह्य देवकीशयने ऽनयत् ।अप्_12.008अब्।
कंसो बालध्वनिं श्रुत्वा ताञ्चिक्षेप शिलातले

12.009

वारितोपि स देवक्या मृत्युर्गर्भोष्टमो मम ।अप्_12.009अब्।
श्रुत्वाशरीरिणीं वाचं मत्तो गर्भास्तु मारिताः

12.010

समर्पितास्तु देवक्या विवाहसमयेरिताः ।अप्_12.010अब्।
सा क्षिप्ता बालिका कंसम् आकाशस्थाब्रवीदिदम्

12.011

किं मया क्षिप्तया कंस जातो यस्त्वां बधिष्यति ।अप्_12.011अब्।
:न्
1 विष्णुनाभ्यब्जादज इति ख, चिह्नितपुस्तकपाठः
:प् 28
सर्वस्वभूतो देवानां भूभारहरणाय सः

12.012

इत्युक्त्वा सा च शुम्भादीन् हत्वेन्द्रेण च संस्तुता ।अप्_12.012अब्।
आर्या दुर्गा वेदगर्भा अम्बिका भद्रकाल्यपि

12.013

भद्रा क्षेम्या क्षेमकरी नैकबाहुर् नमामि ताम् ।अप्_12.013अब्।
त्रिसन्ध्यं यः पठेन्नाम सर्वान् कामानवाप्नुयात्

12.014

कंसो ऽपि पूतनादींश् च प्रेषयद्बालनाशने ।अप्_12.014अब्।
यशोदापतिनन्दाय वसुदेवेन चार्पितौ

12.015

रक्षणाय च कंसादेर् भीतेनैव हि गोकुले ।अप्_12.015अब्।
रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह

12.016

सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः ।अप्_12.016अब्।
कृष्णश्चोलूखले बद्धो दाम्ना व्यग्रयशोदया

12.017

यमलार्जुनमध्ये ऽगाद् भग्नौ च यमलार्जुनौ ।अप्_12.017अब्।
परिवृत्तश् च शकटः पादक्षेपात् स्तनार्थिना

12.018

पूतना स्तनपानेन सा हता हन्तुमुद्यता ।अप्_12.018अब्।
वृन्दावनगतः कृष्णः कालियं यमुनाह्रदात्

12.019

जित्वा निःसार्य चाब्धिस्थञ् चकार बलसंस्तुतः ।अप्_12.019अब्।
क्षेमं तालवनं चक्रे हत्वा धेनुकगर्दभं

12.020

अरिष्टवृषभं हत्वा केशिनं हयरूपिणम् ।अप्_12.020अब्।
शक्रोत्सवं परित्यज्य कारितो गोत्रयज्ञकः

12.021

पर्वतं धारयित्वा च शक्राद्वृष्टिर् निवारिता ।अप्_12.021अब्।
नमस्कृतो महेन्द्रेण गोविन्दो ऽथार्जुनोर्पितः

12.022

इन्द्रोत्सवस्तु तुष्टेन भूयः कृष्णेन कारितः ।अप्_12.022अब्।
रथस्थो मथुराञ्चागात् कंसोक्ताक्रूरसंस्तुतः

12.023

गोपीभिरनुरक्ताभिः क्रीडिताभिर् निरीक्षितः ।अप्_12.023अब्।
:प् 29
रजकं चाप्रयच्छन्तं(1) हत्वा वस्त्राणि चाग्रहीत्

12.024

सह रामेण मालाभृन् मालाकारे वरन्ददौ ।अप्_12.024अब्।
दत्तानुलेपनां कुब्जाम् ऋजुं चक्रे ऽहनद् गजं

12.025

मत्तं कुवलयापीडं द्वारि रङ्गं प्रविश्य च ।अप्_12.025अब्।
कंसादीनां पश्यतां च मञ्चस्थानां नियुद्धकं

12.026

चक्रे चाणूरमल्लेन मुष्टिकेन बलो ऽकरोत् ।अप्_12.026अब्।
चाणूरमुष्टिकौ ताभ्यां हतौ मल्लौ तथापरे

12.027

मथुराधिपतिं कंसं हत्वा तत्पितरं हरिः ।अप्_12.027अब्।
चक्रे यादवराजानम् अस्तिप्राप्ती च कंसगे

12.028

जरासन्धस्य ते पुत्र्यौ जरासन्धस्तदीरितः ।अप्_12.028अब्।
चक्रे स मथुरारोधं यादवैर् युयुधे शरैः

12.029

रामकृष्णौ च मथुरां त्यक्त्वा गोमन्तमागतौ ।अप्_12.029अब्।
जरासन्धं विजित्याजौ पौण्ड्रकं वासुदेवकं

12.030

पुरीं च द्वारकां कृत्वा न्यवसद् यादवैर् वृतः ।अप्_12.030अब्।
भौमं तु नरकं हत्वा तेनानीताश् च कन्यकाः

12.031

देवगन्धर्वयक्षाणां ता उवाच जनार्दनः ।अप्_12.031अब्।
षोदशस्त्रीसहस्राणि रुक्मिण्याद्यास् तथाष्ट च

12.032

सत्यभामासमायुक्तो गरुडे नरकार्दनः ।अप्_12.032अब्।
मणिशैलं सरत्रञ्च इन्द्रं जित्वा हरिर्दिवि

12.033

पारिजातं समानीय सत्यभामागृहे ऽकरोत् ।अप्_12.033अब्।
सान्दीपनेश् च शस्त्रास्त्रं ज्ञात्वा तद्बालकं ददौ

12.034

जित्वा पञ्चजनं दैत्यं यमेन च सुपूजितः ।अप्_12.034अब्।
:न्
1 रजकञ्च प्रजल्पन्तमिति ख, चिह्नितपुस्तकपाठः
:प् 30
अबधीत् कालयवनं मुचुकुन्देन पूजितः

12.035

वसुदेवं देवकीञ्च भक्तविप्रांश् च सोर्च्यत् ।अप्_12.035अब्।
रेवत्यां बलभद्राच्च यज्ञाते निशठोन्मुकौ

12.037

कृष्णात् शाम्बो जाम्बवत्यामन्यास्वन्ये ऽभवन् सुताः ।अप्_12.036अब्।
तं मत्स्यं शम्बरायादान्मायावत्यै च शम्बरः

12.038

मायावती मत्स्यमध्ये दृष्ट्वा स्वं पतिमादरात् ।अप्_12.038अब्।
पपोष सा तं चोवाच रतिस्ते ऽहं पतिर्मम

12.039

कामस्त्वं शम्भुनानङ्गः कृतोहं शम्बरेण च ।अप्_12.039अब्।
हृता न तस्य पत्नी त्वं मायाज्ञः शम्बरं जहि

12.040

तच् छ्रुत्वा शम्बरं हत्वा प्रद्युम्नः सह भार्यया ।अप्_12.040अब्।
मायावत्या ययौ कृष्णं कृष्णो हृष्टो ऽथ रुक्मिणी

12.041

प्रद्युम्नादनिरुद्धोभूदुषापतिरुदारधीः ।अप्_12.041अब्।
बाणो बलिसुतस्तस्य सुतोषा शोणितं पुरं

12.042

तपसा शिवपुत्रो ऽभूत् मायूरध्वजपातितः ।अप्_12.042अब्।
युद्धं प्राप्स्यसि वाण त्वं वाणं तुष्टः शिवोभ्यधात्

12.043

शिवेन क्रीडतीं गौरीं दृष्ट्वोषा सस्पृहा पतौ ।अप्_12.043अब्।
तामाह गौरी भर्ता ते निशि सुप्तेति दर्शनात्

12.044

वैशाखमासद्वादश्यां पुंसो भर्ता भविष्यति ।अप्_12.044अब्।
गौर्युक्ता(1) हर्षिता चोषा गृहे सुप्ता ददर्श तं

12.045

आत्मना सङ्गतं ज्ञात्वा तत्सख्या चित्रलेखया ।अप्_12.045अब्।
लिखिताद्वै चित्रपटादनिरुद्धं समानयत्

12.046

:न्
1 तच् छ्रुत्वा इति ग, चिह्नितपुस्तकपाठः
:प् 31
कृष्णपौत्रं द्वारकातो दुहिता वाणमन्त्रिणः ।अप्_12.046अब्।
कुम्भाण्डस्यानिरुद्धोगाद्रराम ह्य् उषया सह

12.047

वाणध्वजस्य सम्पातै रक्षिभिः स निवेदितः ।अप्_12.047अब्।
अनिरुद्धस्य वाणेन युद्धमासीत्सदारुणम्

12.048

श्रुत्वा तु नारदात् कृष्णः प्रद्युम्नबलभद्रवान् ।अप्_12.048अब्।
गरुडस्थोथ जित्वाग्नीन् ज्वरं माहेश्वरन्तथा

12.049

हरिशङ्करयोर्युद्धं बभूवाथ शराशरि ।अप्_12.049अब्।
नन्दिविनायकस्कन्दमुखास्तार्क्षादिभिर्जिताः

12.050

जृम्भते शङ्करे नष्टे जृम्भणास्त्रेण विष्णुना ।अप्_12.050अब्।
छिन्नं सहस्रं बाहूनां रुद्रेणाभयमर्थितम्

12.051

विष्णुना जीवितो वाणो द्विबाहुः प्राब्रवीच्छिवम् ।अप्_12.051अब्।
त्वया यदभयं दत्तं वाणस्यास्य मया च तत्

12.052

आवयोर् नास्ति भेदो वै भेदी नरकमाप्नुयात् ।अप्_12.052अब्।
शिवाद्यैः पूजितो विष्णुः सोनिरुद्ध उषादियुक्

12.053

द्वारकान्तु गतो रेमे उग्रसेनादियादवैः ।अप्_12.053अब्।
अनिरुद्धात्मजो वज्रो मार्कण्डेयात्तु सर्ववित्

12.054

बलभद्रः प्रलम्बघ्नो यमुनाकर्षणो(1) ऽभवत् ।अप्_12.054अब्।
द्विविदस्य कपेर्भेत्ता कौरवोन्मादनाशनः

12.055

हरी रेमेनेकमूर्तो रुक्मिण्यादिभिरीश्वरः ।अप्_12.055अब्।
पुत्रानुत्पादयामास त्वसंख्यातान् स यादवान् ।अप्_12.055च्द्।
हरिवंशं पठेत् यः स प्राप्तकामो हरिं व्रजेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc