अग्नि पुराण · अध्याय 11
:ए इत्य् आदिमहापुराणे आग्नेये रामायणे युद्धकाण्डवर्णनं
नाम दशमो ऽध्यायः
% छप्तेर् {11}
:श् अथ एकादशो ऽध्यायः
श्रीरामावतारवर्णनं
नारद उवाच
राज्यस्थं राघवं जग्मुर् अगस्त्याद्याः सुपूजिताः ।अप्_11.001अब्।
धन्यस्त्वं विजयी यस्माद् इन्द्रजिद्विनिपातितः
ब्रह्मात्मजः पुलस्त्योभूत् विश्रवास्तस्य नैकषी ।अप्_11.002अब्।
पुष्पोत्कटाभूत् प्रथमा तत्पुत्रोभूद्धनेश्वरः
नैकष्यां रावणो जज्ञे विंशद्बाहुर्दशाननः ।अप्_11.003अब्।
:न्
1 स्वर्गमार्गेण वै गत इति ख, चिह्नितपुस्तकपाठः
:प् 26
तपसा ब्रह्मदत्तेन वरेण जितदैवतः
कुम्भकर्णः सनिद्रो ऽभूद् धर्मिष्ठो ऽभूद्विभीषणः ।अप्_11.004अब्।
स्वसा शूर्पणखा तेषां रावणान्मेघनादकः
इन्द्रं जित्वेन्द्रजिच्चाभूद् रावणादधिको बली ।अप्_11.005अब्।
हतस्त्वया लक्ष्मणेन देवादेः क्षेममिच्छता
इत्युक्त्वा ते गता विप्रा अगस्त्याद्या नमस्कृताः ।अप्_11.006अब्।
देवप्रार्थितरामोक्तः शत्रुघ्नो लवणार्दनः
अभूत् पूर्मथुरा काचित् रामोक्तो भरतो ऽवधीत् ।अप्_11.007अब्।
कोटित्रयञ्च शैलूष- पुत्राणां निशितैः शरैः
शैलूषं दुष्टगन्धर्वं सिन्धुतीरनिवासिनम् ।अप्_11.008अब्।
तक्षञ्च पुष्करं पुत्रं स्थापयित्वाथ देशयोः
भरतोगात्सशत्रुघ्नो राघवं पूजयन् स्थितः ।अप्_11.009अब्।
रामो दुष्टान्निहत्याजौ शिष्टान् सम्पाल्य मानवः
पुत्रौ कुशलवौ जातौ वाल्मीकेराश्रमे वरौ ।अप्_11.010अब्।
लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात्
राज्येभिषिच्य ब्रह्माहम् अस्मीति ध्यानतत्परः ।अप्_11.011अब्।
दशवर्षसहस्राणि दशवर्षशतानि च
राज्यं कृत्वा क्रतून् कृत्वा स्वर्गं देवार्चितो ययौ ।अप्_11.012अब्।
सपौरः सानुजः सीता- पुत्रो जनपदान्वितः
अग्निर् उवाच
वाल्मीकिर् नारदाच्छ्रुत्वा रामायणमकारयत् ।अप्_11.013अब्।
सविस्तरं यदेतच्च शृणुयात्स दिवं व्रजेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0