अग्नि पुराण · अध्याय 13
:ए इत्य् आदिमहापुराणे आग्नेये हरिवंशवर्णनं नाम द्वादशो
ऽध्यायः
:न्
1 कर्षक इति ख, चिह्नितपुस्तकपाठः
:प् 32
% छप्तेर् {13}
:श् अथ त्रयोदशो ऽध्यायः
कुरुपाण्डवोत्पत्त्यादिकथनं
अग्निर् उवाच
भारतं सम्प्रवक्ष्यामि कृष्णमाहात्म्यलक्षणम् ।अप्_13.001अब्।
भूभारमहरद्विष्णुर् निमित्तीकृत्य पाण्डवान्
विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्रो ऽत्रिरत्रितः ।अप्_13.002अब्।
सोमः सोमाद्बुधस्तस्मादैल आसीत् पुरूरवाः
तस्मादायुस्ततो राजा नहुषो ऽतो ययातिकः ।अप्_13.003अब्।
ततः पुरुस्तस्य वंशे भरतो ऽथ नृपः कुरुः
तद्वंशे शान्तनुस्तस्माद्भीष्मो गङ्गासुतो ऽनुजौ ।अप्_13.004अब्।
चित्राङ्गदो विचित्रश् च सत्यवयाञ्च शान्तनोः
स्वर्गं गते शान्तनौ च भीष्मो भार्याविवर्जितः ।अप्_13.005अब्।
अपालयत् भ्रातृराज्यं बालश्चित्राङ्गदो हतः
चित्राङ्गदेन द्वे कन्ये काशिराजस्य चाम्बिका ।अप्_13.006अब्।
अम्बालिका च भीष्मेण आनीते विजितारिणा
भार्ये विचित्रवीर्यस्य यक्ष्मणा स दिवङ्गतः ।अप्_13.007अब्।
सत्यवत्या ह्य् अनुमतादम्बिकायां नृपोभवत्
धृतराष्ट्रो ऽम्बालिकायां पाण्डुश् च व्यासतः सुतः ।अप्_13.008अब्।
गान्धार्यां धृतराष्ट्राच्च दुर्योधनमुखं शतम्
शतशृङ्गाश्रमपदे भार्यायोगाद् यतो मृतिः ।अप्_13.009अब्।
ऋषिशापात्ततो धर्मात् कुन्त्यां पाण्डोर्युधिष्ठिरः
वाताद्भीमो ऽर्जुनः शक्रान्माद्र्यामश्विकुमारतः ।अप्_13.010अब्।
नकुलः सहदेवश् च पाण्डुर्माद्रीयुतो मृतः
कर्णः कुन्त्यां हि कन्यायां जातो दुर्योधाश्रितः ।अप्_13.011अब्।
कुरुपाण्डवयोर्वैरन्दैवयोगाद्बभूव ह
:प् 33
दुर्योधनो जतुगृहे पाण्डवानदहत् कुधीः ।अप्_13.012अब्।
दग्धागाराद्विनिष्क्रान्ता मातृपृष्टास्तु पाण्डवाः
ततस्तु एकचक्रायां ब्राह्मणस्य निवेशने ।अप्_13.013अब्।
मुनिवेषाः स्थिताः सर्वे निहत्य वकराक्षसम्
ययौः पाञ्चालविषयं द्रौपद्यास्ते स्वयम्वरे ।अप्_13.014अब्।
सम्प्राप्ता बाहुवेधेन(1) द्रौपदी पञ्चपाण्डवैः(2)
अर्धराज्यं ततः प्राप्ता ज्ञाता दुर्योधनादिभिः ।अप्_13.015अब्।
गाण्डीवञ्च धनुर्दिव्यं पावकाद्रथमुत्तमम्
सारथिञ्चार्जुनः सङ्ख्ये कृष्णमक्षय्यशायकान् ।अप्_13.016अब्।
ब्रह्मास्त्रादींस् तथा द्रोणात्सर्वे शस्त्रविशारदाः
कृष्णेन सो ऽर्जुनो वह्निं खाण्डवे समतर्पयत् ।अप्_13.017अब्।
इन्द्रवृष्टिं वारयंश् च शरवर्षेण पाण्डवः
जिता दिशः पाण्डवैश् च राज्यञ्चक्रे युधिष्ठिरः ।अप्_13.018अब्।
बहुस्वर्णं(3) राजसूयं न सेहे तं सुयोधनः
भ्रात्रा दुःशासनेनोक्तः कर्णेन प्राप्तभूतिना ।अप्_13.019अब्।
द्यूतकार्ये शकुनिना द्यूतेन स युधिष्ठिरम्
अजयत्तस्य राज्यञ्च सभास्थो माययाहसत् ।अप्_13.020अब्।
जितो युधिष्ठिरो भ्रातृयुक्तश्चारण्यकं ययौ
वने द्वादशवर्षाणि प्रतिज्ञातानि सो ऽनयत् ।अप्_13.021अब्।
अष्टाशीतिसहस्राणि भोजयन् पूर्ववत् द्विजान्
सधौम्यो द्रौपदीषष्ठस्ततः प्रायाद्विराटकम् ।अप्_13.022अब्।
कङ्को द्विजो ह्य् अविज्ञातो(4) राजा भीमोथ सूपकृत्
:न्
1 बाहुभेदेन इति ग, चिह्नितपुस्तकपाठः
2 द्रौपदीं पञ्च पाण्डवा इति ख, ग, ङ,
चिह्नितपुस्तकत्रयपाठः
3 वसुपूर्णमिति ख, चिह्नितपुस्तकपाठः रत्नपूर्णमिति घ,
चिह्नितपुस्तकपाठः
4 कङ्को द्विजो ह्य् अभूच्छ्रेष्ठ इति ख,चिह्नितपुस्तकपाठः
:प् 34
बृहन्नलार्जुनो भार्या सैरिन्ध्री यमजौ तथा ।अप्_13.023अब्।
अन्यनाम्ना भीमसेनः कीचकञ्चाबधीन्निशि
द्रौपदीं हर्तुकामं तं अर्जुनश्चाजयत् कुरून् ।अप्_13.024अब्।
कुर्वतो गोग्रहादींश् च तैर् ज्ञाताः पाण्डवा अथ
सुभद्रा कृष्णभगिनी अर्जुनात्समजीजनत् ।अप्_13.025अब्।
अभिमन्युन्ददौ तस्मै विराटश्चोत्तरां सुताम्
सप्ताक्षौहिणीश आसीद्धर्मराजो रणाय सः ।अप्_13.026अब्।
कृष्णो दूतोब्रवीद् गत्वा दुर्योधनममर्षणम्
एकादशाक्षौहिणीशं नृपं दुर्योधनं तदा ।अप्_13.027अब्।
युधिष्ठिरायार्धराज्यं देहि ग्रामांश् च पञ्च वा
युध्यस्व वा वचः श्रुत्वा कृष्णमाह सुयोधनः ।अप्_13.028अब्।
भूसूच्यग्रं न दास्यामि योत्स्ये सङ्ग्रहणोद्यतः
विश्वरूपन्दर्शयित्वा अधृष्यं विदुरार्चितः(1) ।अप्_13.029अब्।
प्रागाद्युधिष्ठिरं प्राह योधयैनं सुयोधनम्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0