अग्नि पुराण · अध्याय 118
:ए इत्य् आग्नेये महापुराणे श्राद्धकल्पो नाम सप्तदशाधिकशततमो
ऽध्यायः ॥
% छप्तेर् {118}
:श् अथाष्टादशाधिकशततमो ऽध्यायः
भारतवर्षं
अग्निर् उवाच
उत्तरं यत् समुद्रस्य हिमाद्रेश् चैव दक्षिणं ।अप्_118.001अब्।
वर्षं तद् भारतं नाम नवसाहस्रविस्तृतं
कर्मभूमिरियं स्वर्गमपवर्गं च गच्छतां ।अप्_118.002अब्।
:न्
1 यस्तु लभेच्छ्राद्धकृतं फलमिति ख.. , छ.. , ज.. च
2 वाराणसी इति ख.. , ङ.. , छ.. , ज.. च
:प् 21
महेन्द्रो मलयः सह्यः शुक्तिमान् हेमपर्वतः(1)
विन्ध्यश् च पारिपात्रश् च सप्तात्र कुलपर्वताः ।अप्_118.003अब्।
इन्द्रद्वीपः कसेरुश् च ताम्रवर्णो गभस्तिमान्
नागद्वीपस् तथा सौम्यो गान्धर्वस्त्वथ वारुणः ।अप्_118.004अब्।
अयं तु नवमस्तेषु द्वीपः सागरसंवृतः
योजनानां सहस्राणि द्वीपोयं दक्षिणोत्तरात् ।अप्_118.005अब्।
नव भेदा भारतस्य(2) मध्यभेदे ऽथ पूर्वतः
किराता यवनाश्चापि ब्राह्मणाद्याश् च मध्यतः ।अप्_118.006अब्।
वेदस्मृतिमुखा नद्यः पारिपात्रोद्भवास् तथा
विन्ध्याच्च नर्मदाद्याः स्युः सह्यात्तापी पयोष्णिका ।अप्_118.007अब्।
गोदावरीभीमरथीकृष्णवेणादिकास् तथा
मलयात् कृतमालाद्यास्त्रिसामाद्या महेन्द्रजाः ।अप्_118.008अब्।
कुमाराद्याः शुक्तिमतो(3) हिमाद्रेश् चन्द्रभागका
पश्चिमे कुरुपाञ्चालमध्यदेशादयःस्थिताः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0