भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 117

117.001

:ए इत्य् आग्नेये महापुराणे गयामाहात्म्ये गयायात्रा नाम
षोडशाधिकशततमो ऽध्यायः ॥
% छप्तेर् {117}
:श् अथ सप्तदशाधिकशततमो ऽध्यायः
श्राद्धकल्पः
अग्निर् उवाच
कात्यायनी मुनीनाह यथा श्राद्धं तथा वदे ।अप्_117.001अब्।
गयादौ श्राद्धं कुर्वीत सङ्क्रान्त्यादौ विशेषतः

117.002

काले वापरपक्षे च चतुर्थ्या ऊर्ध्वमेव व ।अप्_117.002अब्।
सम्याद्य च पदर्क्षे च(1) पूर्वेद्युश् च निमन्त्रयेत्

117.003

यतीन् गृहस्थसाधून् वा स्नातकाञ्छ्रोत्रियान् द्विजान् ।अप्_117.003अब्।
अनवद्यान् कर्मनिष्ठान् शिष्टानाचारसंयुतान्(2)

117.004

:न्
1 सम्पाद्य परमर्क्षे चेति छ..
2 आचारसंस्कृतानिति ग.. , ज.. च
:प् 14
वर्जयेच्छित्रिकुष्ठ्यादीन्न गृह्णीयान्निमन्त्रितान् ।अप्_117.004अब्।
स्नाताञ्छुचींस् तथा दान्तान् प्राङ्मुखान् देवकर्मणि

117.005

उपवेशयेत्त्रीन् पित्र्यादीनेकैकमुभयत्र वा ।अप्_117.005अब्।
एवं मातामहादेश् च शाकैर् अपि च कारयेत्

117.006

तदह्नि ब्रह्मचारी स्यादकोपो ऽत्वरितो मृदुः(1) ।अप्_117.006अब्।
सत्यो ऽप्रमत्तो ऽनध्वन्यो अस्वाध्यायश् च(2) वाग्यतः

117.007

सर्वांश् च पङ्क्तिमूर्धन्यान् पृच्छेत् प्रश्ने तथासने ।अप्_117.007अब्।
दर्भानास्तीर्य द्विगुणान् पित्रे देवादिकञ्चरेत्

117.008

विश्वान्देवानावाहयिष्ये पृच्छेदावाहयेति च ।अप्_117.008अब्।
विश्वेदेवास आवाह्य विकीर्याथ यवान् जपेत्

117.009

विश्वे देवाः शृणुतेमं पितॄनावाहयिष्ये च ।अप्_117.009अब्।
पृच्छेदावाहयेत्युक्ते उशन्तस्त्वा समाह्वयेत्

117.010

तिलान् विकीर्याथ जपेदायान्त्वित्यादि पित्रके ।अप्_117.010अब्।
सपित्रित्रे निषिञ्चेद्वा शन्नो देवीरभि तृचा

117.011

यवो ऽसीति यवान् दत्वा पित्रे सर्वत्र वै तिलान् ।अप्_117.011अब्।
तिलो ऽसि सोमदेवत्यो गोसवो देवनिर्मितः ।अप्_117.011च्द्।
प्रत्नमद्भिः पृक्तः स्वधया पितॄन् लोकान् प्रीणाहि नः
स्वधा । इति
श्रीश् च तेति ददेत्पुष्पं पात्रे हैमे ऽथ राजते

117.012

औदुम्वरे वा खड्गे वा पर्णपात्रे प्रदक्षिणम् ।अप्_117.012अब्।
देवानामपसव्यं तु पितॄणां सव्यमाचरेत्

117.013

:न्
1 अत्वरितो ऽत्यृजुरिति ङ..
2 सत्ये प्रपन्नो ऽनध्वन्यो ह्य् अस्वाध्यायश्चेति ख.. , घ.. च
:प् 15
एकैकस्य एकैकेन सपवित्रकरेषु च ।अप्_117.013अब्।
या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा
उतपार्थिवीर्याः
हिरण्यवर्णा यज्ञियास्ता न आपः शिवाः संश्योनाः
सुहवा भवन्तु ॥
विश्वे देवा एष वो ऽर्घः स्वाहा च पितरेष ते

117.014

अवधैवं पितामहदेः संस्रवात् प्रथमे चरेत्(1) ।अप्_117.014अब्।
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः

117.015

अत्र गन्धपुष्पधूपदीपाच्छादनदानकं ।अप्_117.015अब्।
घृताक्तमन्नमुद्धृत्य पृच्छत्यग्नौ करिष्ये च

117.016

कुरुष्वेत्यभ्यनुज्ञातो जुहुयात्साग्निको ऽनले ।अप्_117.016अब्।
अनग्निकः पितृहस्ते(2) सपवित्रे तु मन्त्रतः

117.017

अग्नये कव्यवाहनाय स्वाहेति(3) प्रथमाहुतिः ।अप्_117.017अब्।
सोमाय पितृमते ऽथ यमायाङ्गिरसे परे

117.018

हुतशेषं चान्नपात्रे दत्वा पात्रं समालभेत् ।अप्_117.018अब्।
पृथिवी ते पात्रन्द्यौः पिधानं ब्राह्मणस्य मुखे अमृते
अमृतं जुहोमि स्वाहेति
जप्त्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठन्निवेशयेत्

117.019

अपहतेति च तिलान् विकीर्यान्नं प्रदाययेत् ।अप्_117.019अब्।
जुषध्वमिति चोक्त्वाथ गायत्र्यादि ततो जपेत्

117.020

:न्
1 एकैकस्येत्यादिः, प्रथमे चरेदित्यन्तः पाठो झ.. पुस्तके नास्ति
2 अनग्निको जले चैवेति ङ..
3 स्वधेति क..
:प् 16
देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च ।अप्_117.020अब्।
नमः स्वधायै स्वाहयै नित्यमेव नमो नमः(1)

117.021

तृप्तान् ज्ञात्वान्नं विकिरेदपो दद्यात् सकृत् सकृत् ।अप्_117.021अब्।
गायत्रीं पूर्ववज्जप्त्वा मधु मध्विति वै जपेत्

117.022

तृप्ताः स्थ इति सम्पृच्छेत्तृप्ताः स्म इति वै वदेत् ।अप्_117.022अब्।
शेषमन्नमनुज्ञाप्य सर्वमन्नमथैकतः

117.023

उद्धृत्योच्छिष्टपार्श्वे तु कृत्वा चैवावनेजनं ।अप्_117.023अब्।
दद्यात्कुशेषु त्रीन् पिण्डानाचान्तेषु परे जगुः

117.024

आचान्तेषूदकं पुष्पाण्यक्षतानि प्रदापयेत् ।अप्_117.024अब्।
अक्षय्योदकमेवाथ आशिषः प्रार्थयेन्नरः(2)

117.025

अघोराः पितरः सन्तु गोत्रन्नो वर्धतां सदा ।अप्_117.025अब्।
दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिरेव च

117.026

श्रद्धा च नो माव्यगमद्बहुदेयं च नो ऽस्त्विति ।अप्_117.026अब्।
अन्नञ्च नो बहु भवेदतिथींश् च लभेमहि

117.027

याचितारश् च नः सन्तु मा च याचिस्म कञ्चन ।अप्_117.027अब्।
स्वधावाचनीयान् कुशानास्तीर्य सपवित्रकान्(3)

117.028

स्वधां वाचयिष्ये पृच्छेदनुज्ञातश् च वाच्यतां ।अप्_117.028अब्।
पितृभ्यः पितामहेभ्यः प्रपितामहमुख्यके

117.029

स्वधोच्यतामस्तु स्वधा उच्यमानस्तथैव च ।अप्_117.029अब्।
अपो निषिञ्चेदुत्तानं पात्रं कृत्वाथ दक्षिणां

117.030

:न्
1 स्वाहायै नित्यमेव भवन्त्विति इति ख.. , छ.. च
2 प्रार्थयेत्तत इति घ.. , ज.. , झ.. च
3 अघोराः पितर इत्य् आदिः, आस्तीर्य सपवित्रकानित्यन्तः पाठः
ख.. , छ.. पुस्तकद्वये नास्ति
:प् 17
यथाशक्ति प्रदद्याच्च दैवे पैत्रे ऽथ वाचयेत् ।अप्_117.030अब्।
विश्वे देवाः प्रीयन्ताञ्च वाजे विसर्जयेत्

117.031

आमावाजस्येत्यनुव्रज्य कृत्वा विप्रान् प्रदक्षिणं ।अप्_117.031अब्।
गृहे विशेदमावास्यां मासि मासि चरेत्तथा

117.032

एकोद्दिष्टं प्रवक्ष्यामि श्राद्धं पूर्ववदाचरेत् ।अप्_117.032अब्।
एकं पवित्रमेकार्धं एकं पिण्डम्प्रदापयेत्

117.033

नावाहनाग्नौकरणं विश्वे देवा न चात्र हि ।अप्_117.033अब्।
तृप्तिप्रश्ने स्वदितमिति वदेत्सुखदितं द्विजः

117.034

उपतिष्ठतामित्यक्षय्ये विसर्गे चाभिरम्यतां ।अप्_117.034अब्।
अभिरताः स्म इत्य् अपरे शेषं पूर्ववदाचरेत्

117.035

सपिण्ठीकरणं वक्ष्ये अब्दान्ते मध्यतो ऽपि वा ।अप्_117.035अब्।
पितॄणां त्रीणि पात्राणि एकम्प्रेतस्य पात्रकं

117.036

सपवित्राणि चत्वारि तिलपुष्पयुतानि च ।अप्_117.036अब्।
गन्धोदकेन युक्तानि(1) पूरयित्वाभिषिञ्चति

117.037

प्रेतपात्रं पितृपात्रे ये समना इति द्वयात् ।अप्_117.037अब्।
पूर्ववत् पिण्डदानादि प्रेतानां पितृता भवेत्

117.038

अथाभ्युदयिकं श्राद्धं वक्ष्ये सर्वं तु पूर्ववत् ।अप्_117.038अब्।
जपेत् पितृमन्त्रवर्जं पूर्वाह्णे तत् प्रदक्षिणं

117.039

उपचारा ऋजुकुशास्तिलार्थैश् च यवैर् इह(2) ।अप्_117.039अब्।
तृप्तिप्रश्नस्तु सम्पन्नं सुसम्पन्नं वदेद्द्विजः

117.040

:न्
1 गन्धोदकेन सिक्तानि इति ज..
2 अथाभ्युदयिकमित्यादिः, यवैर् इह इत्य् अन्तः पाठो झ.. पुस्तके
नास्ति
:प् 18
दध्यक्षतवदराद्याः(1) पिण्डा नान्दीमुखान् पितॄन् ।अप्_117.040अब्।
आवाहयिष्ये पृच्छेच्च प्रीयन्तामिति चाक्षये

117.041

नान्दीमुखाश् च पितरो वाचयिष्ये ऽथ पृच्छति ।अप्_117.041अब्।
नान्दीमुखान् पितृगणान् प्रीयन्तामित्यथो वदेत्

117.042

नान्दीमुखाश् च पितरस्तत्पिता प्रपितामहः ।अप्_117.042अब्।
मातामहः प्रमातामहो वृद्धप्रमातृकामहः

117.043

स्वधाकारन्न युञ्जीत युग्मान् विप्रांश् च भोजयेत् ।अप्_117.043अब्।
तृप्तिं वक्ष्ये पितॄणां च ग्राम्यैर् ओषधिभिस् तथा

117.044

मासन्तृप्तिस् तथारण्यैः(2) कन्दमूलफलादिभिः ।अप्_117.044अब्।
मत्स्यैर् मासद्वयं मार्गैस्त्रयं वै शाकुनेन च

117.045

चतुरो रौरवेणाथ(3) पञ्च षट् छागलेन तु(4) ।अप्_117.045अब्।
कूर्मेण सप्त चाष्टौ च वाराहेण नवैव तु

117.046

मेषमांसेन दश च माहिषैः पार्षतैः शिवैः ।अप्_117.046अब्।
संवत्सरन्तु गव्येन पयसा पायसेन वा

117.047

वार्धीनसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ।अप्_117.047अब्।
खड्गमांसं कालशाकं लोहितच्छागलो(5) मधु

117.048

महाशल्काश् च वर्षासु मघाश्राद्धमथाक्षयं(6) ।अप्_117.048अब्।
मन्त्राध्याय्यग्निहोत्री च शाखाध्यायी षडङ्गवित्

117.049

तृणाचिकेतः त्रिमधुर्धर्मद्रोणस्य(7) पाठकः ।अप्_117.049अब्।
त्रिषुपर्णज्येष्ठसामज्ञानी स्युः पङ्क्तिपावनाः

117.050

:न्
1 दध्यक्षतवदर्याद्या इति ग.. , छ.. च
2 तथा वन्यैर् इति ख.. , ङ.. च
3 वत्सरं रौरवेणाथेति घ..
4 पञ्चकं छागस्तेन तु इति ङ..
5 लोहितच्छागक इति ग.. , घ.. , ङ.. च
6 मघाश्राद्धमिहाक्षयमिति झ..
7 जलद्रोणस्येति झ..
:प् 19
कम्यानां कल्पमाख्यास्ये(1) प्रतिपत्सु धनं बहु ।अप्_117.050अब्।
स्त्रियः परा द्वितीयायाञ्चतुर्थ्यां धर्मकामदः

117.051

पञ्चम्यां पुत्रकामस्तु षष्ठ्याञ्च श्रैष्ठ्यभागपि(2) ।अप्_117.051अब्।
कृषिभागी च सप्तम्यामष्टम्यामर्थलाभकः

117.052

नवम्याञ्च एकशफा(3) दशम्याङ्गोगणो भवेत् ।अप्_117.052अब्।
एकदश्यां परीवारो द्वादश्यान्धनधान्यकं

117.053

ज्ञातिश्रेष्ठ्यं त्रयोदश्यां चतुर्दश्याञ्च शस्त्रतः(4) ।अप्_117.053अब्।
मृतानां श्राद्धं सर्वाप्तममावास्यां समीरितं(5)

117.054

सप्त व्याधा दशारण्ये(6) मृगाः कालञ्जरे गिरौ ।अप्_117.054अब्।
चक्रवाकाः शरद्वीपे हंसाः सरसि मान्से

117.055

ते ऽपि जाताः(7) कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।अप्_117.055अब्।
प्रस्थिता दूरमध्वानं यूयन्तेभ्यो ऽवसीदत

117.056

श्राद्धादौ पठिते श्राद्धं पूर्णं स्याद्ब्रह्मलोकदं ।अप्_117.056अब्।
श्राद्धं कुर्याच्च पुत्रादिः(8) पितुर्जीवति तत्पितुः

117.057

तत्पितुस्तत्पितुः कुर्याज्जीवति प्रपितामहे ।अप्_117.057अब्।
पितुः पितामस्हस्याथ परस्य प्रपितामात्(9)

117.058

:न्
1 कालमाख्यास्ये इति झ.. च
2 श्रेष्ठभाग्यपि इति ख.. , ग.. , ङ.. , छ.. च । ज्येष्ठभागपि इति
घ..
3 नवम्यां वै शफपतिरिति ज..
4 चतुर्दश्याञ्च शास्त्रत इति ख.. , घ.. च
5 मृतानां श्राद्धं सर्वाप्तिरमावास्या समीरिता इति क..
6 दशार्णेषु इति ख.. , ग.. , ङ.. , छ.. च
7 ते ऽभिजाता इति ख.. , घ.. च
8 कुर्यात् सुपुत्रो ऽपि इति छ..
9 तत्पितुरित्यादिः, प्रपितामहादित्यन्तः पाठो झ.. पुस्तके नास्ति
:प् 20
एवं मात्रादिकस्यापि तथा मातामहादिके ।अप्_117.058अब्।
श्राद्धकल्पं पठेद्यस्तु स लभेत् श्राद्धकृत्फलं(1)

117.059

तीर्थे युगादौ मन्वादौ श्राद्धं दत्तमथाक्षयं ।अप्_117.059अब्।
अश्वयुच्छुक्लनवमी द्वादशी कर्तिके तथा

117.060

तृतीया चैव माघस्य तथा भाद्रपदस्य च ।अप्_117.060अब्।
फाल्गुनस्याप्यमावास्या पौषयैकादशी तथा

117.061

आषाढस्यापि दशमी माघमासस्य सप्तमी ।अप्_117.061अब्।
श्रावणे चाष्टमी कृष्णा तथाषाढे च पूर्णिमा

117.062

कर्तिकी फाल्गुनी तद्वज् ज्यैष्ठे पञ्चदशी सिता ।अप्_117.062अब्।
स्वायम्भुवाद्या मनवस्तेषामाद्याः किलाक्षयाः

117.063

गया प्रयागो गङ्गा च कुरुक्षेत्रं च नर्मदा ।अप्_117.063अब्।
श्रीपर्वतः प्रभासश् च शालग्रामो वराणसी(2)

117.064

गोदावरी तेषु श्राद्धं स्त्रीपुरुषोत्तमादिषु

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc