अग्नि पुराण · अध्याय 116
:ए इत्य् आग्नेये महापुराणे गयामाहात्म्ये गययात्रा नाम
पञ्चदशाधिकशततमो ऽध्यायः ॥
% छप्तेर् {116}
:श् अथ षोडशाधिकशततमो ऽध्यायः
गयायात्राविधिः
अग्निर् उवाच
गायत्र्यैव महानद्यां स्नातः(1) सन्ध्यां समाचरेत् ।अप्_116.001अब्।
गायत्र्या अग्रतः प्रातः श्राद्धं पिण्डमथाक्षयं
मध्याह्ने चोद्यति(2) स्नात्वा गीतवाद्यैर् ह्युपास्य च ।अप्_116.002अब्।
सावित्रीपुरतः सन्ध्यां पिण्डदानञ्च तत्पदे
अगस्त्यस्य पदे कुर्याद्योनिद्वारं प्रविश्य च ।अप्_116.003अब्।
निर्गतो न पुनर्योनिं प्रविशेन्मुच्यते भवात्(3)
:न्
1 प्रात इति क..
2 मध्याह्ने सरसीति ग..
3 मुच्यते भयादिति छ.. , झ.. च
:प् 9
बलिं काकशिलायाञ्च कुमारञ्च नमेत्ततः(1) ।अप्_116.004अब्।
स्वर्गद्वार्यां सोमकुण्डे वायुतीर्थे ऽथ पिण्डदः
भवेदाकशगङ्गायां कपिलायाञ्च पिण्डदः ।अप्_116.005अब्।
कपिलेशं शिवं नत्वा रुक्मिकुण्डे च पिण्डदः
कोटीतीर्थे च कोटीशं नत्वामोघपदे नरः(2) ।अप्_116.006अब्।
गदालोले वानरके गोप्रचारे च पिण्डदः(3)
नत्वा गावं वैतरण्यामेकविंशकुलोद्धृतिः ।अप्_116.007अब्।
श्राद्धपिण्डप्रदाता(4) स्यात् क्रौञ्चपदे च पिण्डदः(5)
तृतीयायां विशालायां निश्चिरायाञ्च पिण्डदः ।अप्_116.008अब्।
ऋणमोक्षे पापमोक्षे भस्मकुण्डे ऽथ भस्मना
स्नानकृन् मुच्यते पापान्नमेद्देवं जनार्दनम् ।अप्_116.009अब्।
एष पिण्डो मया दत्तस्तव हस्ते जनार्दन
परलोकगते मह्यमक्ष्यय्यमुपतिष्ठतां ।अप्_116.010अब्।
गयायां पितृरूपेण स्वयमेव जनार्दनः
तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते वै ऋणत्रयात् ।अप्_116.011अब्।
मार्कण्डेयेश्वरं नत्वा नमेद्गृध्रेश्वरं नरः(6)
मूलक्षेत्रे महेशस्य धारायां पिण्डदो भवेत् ।अप्_116.012अब्।
:न्
1 नमेन्नर इति ख.. , ग.. , घ.. , ङ.. , छ.. च
2 मासपदे ऽन्नद इति ख.. , घ.. च
3 कपिलेशमित्यादिः, गोप्रचारे च पिण्डद इत्य् अन्तः पाठो ग..
पुस्तके नास्ति
4 श्राद्धे पिण्डप्रदतेति ख..
5 भवेदाकाशगङ्गायामैत्यादिः, क्रौञ्चपादे च पिण्डद इत्य्
अन्तः पाठः छ.. पुस्तके नास्ति
6 नमेद्भूतेश्वरं नर इति घ..
:प् 10
(1)गृध्रकूटे गृध्रवटे धौतपादे च पिण्डदः
पुष्करिण्यां कर्दमाले रामतीर्थे च पिण्डदः ।अप्_116.013अब्।
प्रभासेशन्नमेत् प्रेतशिलायां पिण्डदो भवेत्
दिव्यान्तरीक्षभूमिष्ठाः पितरो बान्धवादयः ।अप्_116.014अब्।
प्रेतादिरूपा मुक्ताः(2) स्युः पिण्डैर् दत्तैर् मयाखिलाः
स्थानत्रये प्रेतशिला गयाशिरसि पावनी ।अप्_116.015अब्।
प्रभासे प्रेतकुण्डे च पिण्डदस्तारयेत् कुलम्
वसिष्ठेशन्नमस्कृत्य तदग्रे पिण्डदो भवेत् ।अप्_116.016अब्।
गयानाभौ सुषुम्णायां महाकोष्ट्याञ्च पिण्डदः
गदाधराग्रतो मुण्डपृष्ठे देव्याश् च सन्निधौ ।अप्_116.017अब्।
मुण्दपृष्ठं नमेदादौ क्षेत्रपालादिसंयुतम्
पूजयित्वा भयं न स्याद्विषरोगादिनाशनम् ।अप्_116.018अब्।
ब्रह्माणञ्च नमस्कृत्य ब्रह्मलोकं नयेत् कुलम्
सुभद्रां बलभद्रञ्च प्रपूज्य पुरुषोत्तमम् ।अप्_116.019अब्।
सर्वकामसमायुक्तः कुलमुद्धृत्य नाकभाक्(3)
हृषीकेशं नमस्कृत्य तदग्रे पिण्डदो भवेत् ।अप्_116.020अब्।
माधवं पूजयित्वा च देवो वैमानिको(4) भवेत्
महालक्ष्मीं प्रार्च्य गौरीं मङ्गलाञ्च सरस्वतीम् ।अप्_116.021अब्।
पितॄनुद्धृत्य स्वर्गस्थो भुक्तभोगो ऽत्र शास्त्रधीः
:न्
1 सर्वकामसमायुक्तः कुलमुद्धृत्य लोकभागिति पाठोत्र झ..
पुस्तके ऽधिको ऽस्ति
2 प्रेतादिरूपमुक्ता इति ख.. , ग.. , घ.. , ङ.. , ज.. च
3 कुलमुद्धृत्य लोकभागिति ग.. , ज.. च । वशिष्ठेशमित्यादिः,
कुलमुद्धृत्य नाकभागित्यन्तः पाठो झ.. पुस्तके नास्ति
4 देवैर् वैमानिक इति छ..
:प् 11
द्वादशादित्यमभ्यर्य वह्निं रेवन्तमिन्द्रकम् ।अप्_116.022अब्।
रोगादिमुक्तः स्वर्गी स्याच्छ्रीकपर्दिविनायकम्
प्रपूज्य कार्त्तिकेयञ्च निर्विघ्नः सिद्धिमाप्नुयात् ।अप्_116.023अब्।
सोमनाथञ्च कालेशङ्केदारं प्रपितामहम्
सिद्धेश्वरञ्च रुद्रेशं रामेशं ब्रह्मकेश्वरम् ।अप्_116.024अब्।
अष्टलिङ्गानि गुह्यानि पूजयित्वा तु(1) सर्वभाक्
नारायणं वराहञ्च नारसिंहं नमेच्छ्रिये ।अप्_116.025अब्।
ब्रह्मविष्णुमहेशाख्यं त्रिपुरघ्नमशेषदम्
सीतां रामञ्च गरुडं वामनं सम्प्रपूज्य च ।अप्_116.026अब्।
सर्वकामानवाप्नोति ब्रह्मलोकं नयेत् पितॄन्
देवैः सार्धं सम्प्रपूज्य देवमादिगदाधरम् ।अप्_116.027अब्।
ऋणत्रयविनिर्मुक्तस्तारयेत् सकलं कुलम्
देवरूपा शिला पुण्या तस्माद्देवमयी शिला ।अप्_116.028अब्।
गयायां नहि तत् स्थानं यत्र तीर्थं न विद्यते
यन्नाम्ना पातयेत् पिण्डं तन्नयेद्ब्रह्म शाश्वतम् ।अप्_116.029अब्।
फल्ग्वीशं फल्गुचण्डीं च प्रणम्याङ्गारकेश्वरम्
मतङ्गस्य पदे श्राद्धी भरताश्रमके भवेत् ।अप्_116.030अब्।
हंसतीर्थे कोटितीर्थे यत्र पाण्डुशिलान्नदः
तत्र स्यादग्निधारायां मधुस्रवसि पिण्डदः ।अप्_116.031अब्।
रुद्रेशं किलिकिलेशं नमेद्वृद्धिविनायकम्(2)
पिण्डदो धेनुकारण्ये पदे धेनोर् नमेच्च गाम् ।अप्_116.032अब्।
:न्
1 पूजयित्वाथेति क.. , घ.. , ङ.. , ज.. च
2 नमेद्बुद्धिविनायकमिति ख.. , ग.. , छ.. च । नमेद्वृद्धविनायकमिति
घ..
:प् 12
सर्वान् पितॄंस्तारयेच्च सरस्वत्याञ्च पिण्डदः
सन्ध्यामुपास्य सायाह्ने नमेद्देवीं सरस्वतीम् ।अप्_116.033अब्।
त्रिसन्ध्याकृद्भवेद्विप्रो वेदवेदाङ्गपारगः
गयां प्रदक्षिणीकृत्य गयाविप्रान् प्रपूज्य च ।अप्_116.034अब्।
अन्नदानादिकं सर्वं कृतन्तत्राक्षयं भवेत्
स्तुत्वा सम्प्रार्थयेदेवमादिदेवं गदाधरम् ।अप्_116.035अब्।
गदाधरं गयावासं पित्रादीनां गतिप्रदम्
धर्मार्थकाममोक्षार्थं योगदं प्रणमाम्यहम् ।अप्_116.036अब्।
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम्
नित्यशुद्धं बुद्धियुक्तं(1) सत्यं ब्रह्म नमाम्यहम् ।अप्_116.037अब्।
आनन्दमद्वयं देवं देवदानववन्दितम्
देवदेवीवृन्दयुक्तं सर्वदा प्रणमाम्यहम् ।अप्_116.038अब्।
कलिकल्मषकालार्तिदमनं(2) वनमालिनम्
पालिताखिललोकेशं(3) कुलोद्धरणमानसम् ।अप्_116.039अब्।
व्यक्ताव्यक्तविभक्तात्माविभक्तात्मानमात्मनि
स्थितं स्थिरतरं(4) सारं वन्दे घोराघमर्दनम्(5) ।अप्_116.040अब्।
आगतो ऽस्मि गयां देव पितृकार्ये गदाधरः
त्वं मे साक्षी भवाद्येह अनृणो ऽहमृणत्रयात् ।अप्_116.041अब्।
:न्
1 नित्यशुद्धबुद्धियुक्तमिति घ.. , छ.. च
2 कालार्तिनाशनमिति घ.. । कालार्तिदलनमिति ग.. , ङ.. , घ.. , ज.. च
3 पालिताखिलदेवेशमिति घ..
4 स्थिततरमिति ग.. , घ.. , ङ.. च
5 वन्देहमरिमर्दनमिति ङ.. । वन्दे संसारमर्दनमिति ज..
:प् 13
साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस् तथा
मया गयां समासाद्य पितॄणां निष्कृतिः कृता ।अप्_116.042अब्।
गयामाहात्म्यपठनाच्छ्राद्धादौ ब्रह्मलोकभाक्
पितॄणामक्षयं श्राद्धमक्षयं ब्रह्मलोकदम् ॥43
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0