अग्नि पुराण · अध्याय 115
:ए इत्य् आग्नेये महापुराणे गयामाहात्म्यं नाम
चतुर्दशाधिकशततमो ऽध्यायः
:न्
1 अन्यानथेति झ.. । क्षपानुक्त्वा इति छ..
2 गन्धादिवर्जिता इति घ..
3 तीर्थोपजीवका यूयमाचन्द्रार्कमिति ख.. , ग.. , घ.. , ङ.. च
4 कुलशतं महदिति ज..
5 स्वर्गलोकं चेति घ.. , ज.. , झ.. च
6 वह्नथेमिति ख.. , छ.. च । बहुलमिति झ..
:प् 384
अग्निपुराणम्
महर्षिश्रीमद्वेदव्यासेन प्रणीतम्
श्रीलश्री वङ्गदेशीयासियातिक्-समाजानुज्ञया
श्रीराजेन्द्रलालमित्रेण परिशोधितम्
कलिकाताराजधान्यां गणेशयन्त्रे मुद्रितञ्च
संवत् 1933
:प् 0
अथाग्निपुराणस्य द्वितीयखण्डस्यानुक्रमणिका
अग्निपुराणं
% छप्तेर् {115}
:श् अथ पञ्चदशाधिकशततमो ऽध्यायः
गयायात्राविधिः
अग्निर् उवाच
उद्यतश्चेद्गयां यातुं(1) श्राद्धं कृत्वा विधानतः ।अप्_115.001अब्।
विधाय कार्पटीवेशं ग्रामस्यापि प्रदक्षिणं
कृत्वा प्रतिदिनङ्गच्छेत् संयतश्चाप्रतिग्रही ।अप्_115.002अब्।
गृहाच्चलितमात्रस्य गयया गमनं प्रति
स्वर्गारोहणसोपानं पितॄणान्तु पदे पदे ।अप्_115.003अब्।
ब्रह्मज्ञानेन किं कार्यं गोगृहे मरणेन किं
किं कुरुक्षेत्रवासेन यदा(2) पुत्रो गयां व्रजेत् ।अप्_115.004अब्।
गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत्
पद्भ्यामपि जलं स्पृष्ट्वा अस्मभ्यं किन्न दास्यति ।अप्_115.005अब्।
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा
वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा ।अप्_115.006अब्।
काङ्क्षन्ति पितरः पुत्रं नरकाद्भयभीरवः
गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ।अप्_115.007अब्।
मुण्डनञ्चोपवासश् च सर्वतीर्थेष्वयं विधिः
न कालादिर्गयातीर्थे दद्यात् पिण्डांश् च नित्यशः ।अप्_115.008अब्।
पक्षत्रयनिवासी च पुनात्यासप्ततमं कुलं
:न्
1 गन्तुमिति ख.. , ग.. , घ.. , छ.. , ज.. च
2 यदि इति घ.. , ग.. , झ.. च
:प् 1
अष्टकासु च वृद्धौच(1) गयायां मृतवासरे ।अप्_115.009अब्।
अत्र मातुः पृथक् श्राद्धमन्यत्र पतिना सह
पित्रादिनवदैत्यं तथा द्वादशदैवतं ।अप्_115.010अब्।
प्रथमे दिवसे स्नायात्तीर्थे ह्य् उत्तरमानसे
उत्तरे मानसे पुण्ये आयुरारोग्यवृद्धये ।अप्_115.011अब्।
सर्वाघौघविधानाय(2) स्नानं कुर्याद् विमुक्तये(3)
सन्तर्प्य देवपित्रादीन् श्राद्धकृत् पिण्डदो भवेत् ।अप्_115.012अब्।
दिव्यान्तरीक्षभौमस्थान्(4) देवान् सन्तर्पयाम्यहं
दिव्यान्तरीक्षभौमादि पितृमात्रादि तर्पयेत् ।अप्_115.013अब्।
पिता पितामहश् चैव तथैव प्रपितामहः
माता पितामही चैव(5) तथैव प्रपितामही ।अप्_115.014अब्।
मातामहः प्रमातामहो वृद्धप्रमातामहः(6)
तेभ्यो.न्येभ्य(7) इमान् पिण्डानुद्धाराय ददाम्यहं ।अप्_115.015अब्।
ओं नमः सूर्यदेवाय सोमभौमज्ञरूपिणे(8)
जीवशुक्रशनैश्चारिराहुकेतुस्वरूपिणे ।अप्_115.016अब्।
उत्तरे मानसे स्नाता(9) उद्धरेत्सकलं कुलं
सूर्यं नत्वा(10) व्रजेन्मौनी नरो दक्षिणमानसं(11) ।अप्_115.017अब्।
:न्
1 अन्वष्टकासु वृद्धौ चेति घ.. , ङ.. च
2 सर्वाघौघविनाशायेति ख.. , घ.. , छ.. च
3 स्नानं सर्वविमुक्तये इति छ..
4 दिव्यान्तरीक्षगान् भौमानिति ग..
5 माता मातामही चैवेति क.. , ख.. , ग.. , छ.. , ज.. च
6 वृद्धप्रमातृकामह इति क.. , ग.. , छ.. , ज.. च
7 तेभ्यस्तेभ्य इति घ.. , ज.. च
8 सोमभौमस्वरूपिणे इति घ..
9 स्नात्वेति क..
10 सूर्यं दृष्ट्वा इति ङ..
11 ततो दक्षिणमानसमिति ग.. , घ.. , ज.. , झ.. च
:प् 2
दक्षिणे मानसे स्नानं करोमि पितृतृप्तये(1)
गयायामागतः स्वर्गं यान्तु मे पितरो ऽखिलाः ।अप्_115.018अब्।
श्राद्धं पिण्डन्ततः कृत्वा सूर्यं नत्वा वदेदिदं
ओं नमो भानवे भर्त्रे(2) भवाय भव मे विभो ।अप्_115.019अब्।
भुक्तिमुक्तिप्रदः सर्वपितॄणां भवभावितः
कव्यवालानलः सोमो यमश् चैवार्यमा तथा ।अप्_115.020अब्।
अग्निष्वात्ता वर्हिषद आज्यपाः पितृदेवताः
आगच्छन्तु महाभागा युष्माभी रक्षितास्त्विह ।अप्_115.021अब्।
मदीयाः पितरो ये च मातृमातामहादयः
तेषां पिण्डप्रदाताहमागतो ऽस्मि गयामिमां ।अप्_115.022अब्।
उदीच्यां मुण्डपृष्ठस्य देवर्षिगणपूजितं(3)
नाम्ना कनखलं तीर्थं त्रिषु लोकेषु विश्रुतं ।अप्_115.023अब्।
सिद्धानां प्रीतिजननैः पापानाञ्च भयङ्करैः
लेलिहानैर् महानागै रक्ष्यते चैव नित्यशः ।अप्_115.024अब्।
तत्र स्नात्वा दिवं(4) यान्ति क्रीडन्ते भुवि मानवाः
फल्गुतीर्थं ततो गच्छेन्महानद्यां स्थितं परं ।अप्_115.025अब्।
नागाज्जनार्दनात् कूपाद्वटाच्चोत्तरमानसात्
एतद् गयाशिरः(5) प्रोक्तं फल्गुतीर्थं तदुच्यते ।अप्_115.026अब्।
मुण्डपृष्ठनागाद्याश् च सारात् सारमथान्तरं
:न्
1 करोमि पितृदैवते इति ज..
2 भानवे तस्मै इति ङ..
3 देवर्षिगणसेवितमिति घ.. , ज.. च । देवतागणसेवितमिति झ..
4 तत्र स्नाता दिवमिति ज..
5 फल्गुं गयाशिर इति ख.. , ङ.. , छ.. च
:प् 3
यस्मिन् फलति श्रीर्गौर्वा कामधेनुर्जलं मही ।अप्_115.027अब्।
दृष्टिरम्यादिकं यस्मात् फल्गुतीर्थं न फल्गुवत्
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरं ।अप्_115.028अब्।
एतेन किं न पर्याप्तं नृणां सुकृटकारिणां
पृथिव्यां यानि तीर्थानि आसमुद्रात्सरांसि च ।अप्_115.029अब्।
फल्गुतीर्थं गमिष्यन्ति वारमेकं दिने दिने
फल्गुतीर्थे तीर्थराजे करोति स्नानमादृतः ।अप्_115.030अब्।
पितॄणां ब्रह्मलोकाप्त्यै आत्मनो भुक्तिमुक्तये
स्नात्वा श्राद्धी पिण्डदो ऽथ नमेद्देवं पितामहं ।अप्_115.031अब्।
कलौ माहेश्वरा लोका अत्र देवी(1) गदाधरः
पितामहो लिङ्गरूपी तन्नमामि महेश्वरं ।अप्_115.032अब्।
गदाधरं बलं काममनिरुद्धं नरायणं(2)
ब्रह्मविष्णुनृसिंहाख्यं वराहादिं नमाम्यहं ।अप्_115.033अब्।
ततो गदाधरं दृष्ट्वा कुलानां शतमुद्धरेत्
धर्मारण्यं द्वितीये ऽह्नि मतङ्गस्याश्रमे वरे ।अप्_115.034अब्।
मतङ्गवाप्यां संस्नाय श्राद्धकृत् पिण्डदो(3) भवेत्
मतङ्गेशं सुद्धेशं(4) नत्वा चेदमुदीरयेत् ।अप्_115.035अब्।
प्रमाणं देवताः सन्तु लोकपालाश् च साक्षिणः
मयागत्य मतङ्गे ऽस्मिन् पितॄणां निष्कृतिः कृता ।अप्_115.036अब्।
स्नानतर्पणश्राद्धादिर्ब्रह्मतीर्थे ऽथ(5) कूपके
:न्
1 अतो देव इति ख.. , ग.. , घ.. , छ.. च
2 नारायणमिति ख.. , ग.. , ङ.. च
3 श्राद्धदः पिण्डद इति ख..
4 मतङ्गेशञ्च सिद्धेशमिति ज..
5 ब्रह्मतीर्थेत्रेति ख..
:प् 4
तत्कूर्पयूपयोर्मध्ये श्राद्धं कुलशतोद्धृतौ ।अप्_115.037अब्।
महाबोधतुरुं नत्वा धर्मवान् स्वर्गलोकभाक्
तृतीये ब्रह्मसरसि(1) स्नानं कुर्याद्यतव्रतः(2) ।अप्_115.038अब्।
स्नानं ब्रह्मसरस्तीर्थे(3) करोमि ब्रह्मभूतये
पितॄणां ब्रह्मलोकाय ब्रह्मर्षिगणसेविते ।अप्_115.039अब्।
तर्पणं श्राद्धकृत् पिण्डं प्रदद्यात्तु प्रसेचनं(4) ।अप्_115.039च्द्।
कुर्याच्च वाजपेयार्थी ब्रह्मयूपप्रदक्षिणं
एको मुनिः कुम्भकुशाग्रहस्त आम्रस्य मूले सलिलन्ददाति ।अप्_115.040अब्।
आम्नाय सिक्ताः पितरश् च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा
ब्रह्माणञ्च नमस्कृत्य कुलानां शतमुद्धरेत् ।अप्_115.041अब्।
फल्गुतीर्थे चतुर्थे ऽह्नि स्नात्वा देवादितर्पणं
कृत्वा श्राद्धं सपिण्डञ्च गयाशिरसि कारयेत् ।अप्_115.042अब्।
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः
तत्र पिण्डप्रदानेन कुलानां शतमुधरेत् ।अप्_115.043अब्।
मुण्डपृष्ठे पदं न्न्यास्तं महादेवेन धीमता
मुण्डपृष्ठे शिरः साक्षाद् गयाशिर उदाहृतं ।अप्_115.044अब्।
:न्
1 ब्रह्मसदसि इति ख.. , घ.. , ङ.. , ज.. च
2 मयागत्येत्यादिः, स्नानं कुर्याद्यतव्रत इत्य् अन्तः पाठश्छ..
पुस्तके नास्ति
3 ब्रह्मसदस्तीर्थे इति घ.. । ब्रह्मशिरस्तीर्थे इति ख..
4 तर्पणश्राद्धकृत् पिण्डप्रदश्चापि प्रसेचनमिति ख.. , छ.. च ।
तर्पणश्राद्धकृत् पिण्डप्रदश्चाम्रप्रसेचनमिति ग.. , घ.. , ङ.. ,
ज.. च
:प् 5
साक्षाद् गयाशिरस्तत्र फल्गुतीर्थाश्रमं(1) कृतं
अमृतं तत्र वहति पितॄणान्दत्तमक्षयं ।अप्_115.045अब्।
स्नात्वा दशाश्वमेधे तु दृष्ट्वा देवं पितामहं
रुद्रपादं नरः स्पृष्ट्वा नेह भूयो ऽभिजायते ।अप्_115.046अब्।
शमीपत्रप्रमाणेन पिण्डं दत्वा गयाशिरे(2)
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ।अप्_115.047अब्।
पायसेनाथ पिष्टेन शक्तुना चरुणा तथा
पिण्डदानं तण्डुलैश् च गोधूमैस्तिलमिश्रितैः ।अप्_115.048अब्।
पिण्डं दत्वा रुद्रपदे कुलानां शतमुद्धरेत्
तथा विष्णुपदे श्राद्धपिण्डदो ह्य् ऋणमुक्तिकृत्(3) ।अप्_115.049अब्।
पित्रादीनां शतकुलं स्वात्मानं(4) तारयेन्नरः
तथा ब्रह्मपदे श्राद्धी(5) ब्रह्मलोकं नयेत्पितॄन् ।अप्_115.050अब्।
दक्षिणाग्निपदे तद्वद्गार्हपत्यपदे तथा
पदे वाहवनीयस्य श्राद्धी यज्ञफलं लभेत् ।अप्_115.051अब्।
आवसथ्यस्य चन्द्रस्य(6) सूर्यस्य च गणस्य च
अगस्त्यकार्त्तिकेयस्य श्राद्धी तारयते कुलं ।अप्_115.052अब्।
आदित्यस्य रथं नत्वा(7) कर्णादित्यं नमीन्नरः
:न्
1 फल्गुतीर्थाश्रयमिति ग.. , घ.. , ज.. , झ.. च
2 पिण्डं दद्याद्गयाशिरे इति ज..
3 पिण्डदः कुलमुक्तिकृदिति ग.. , ज.. च । पिण्डदो ह्य् अतिमुक्तिकृदिति
घ..
4 स्वात्मनेति ज..
5 ब्रह्मपदे श्राद्धमिति झ..
6 वरुणस्याथ चेन्द्रस्येति ङ.. । आवसथ्यस्य चेन्द्रस्येति छ.. । आवसथ्यस्य
सेन्द्रस्येति ज..
7 रथं दृष्ट्वेति ख.. , छ.. च
:प् 6
कनकेशपदं नत्वा गयाकेदारकं नमेत् ।अप्_115.053अब्।
सर्वपापविनिर्मुक्तः पितॄन् ब्रह्मपुरं नयेत्
विशालो ऽपि गयाशीर्षे पिण्डदो ऽभूच्च पुत्रवान् ।अप्_115.054अब्।
विशालायां विशालो ऽभूद्राजपुत्रो ऽब्रवीद् द्विजान्
कथं पुत्रादयः स्युर्मे द्विजा ऊचुर्विशालकं ।अप्_115.055अब्।
गयायां पिण्डदानेन तव सर्वं भविष्यति
विशालो ऽपि गयाशीर्षे पितृपिण्डान्ददौ ततः(1) ।अप्_115.056अब्।
दृष्ट्वाकाशे सितं रक्तं पुरुषांस्तांश् चपृष्टवान्
के युयन्तेषु चैवैकः सितः प्रोचे विशालकं ।अप्_115.057अब्।
अहं सितस्ते जनक इन्द्रलोकं गतः शुभान्
मम रक्तः पिता पुत्र कृष्णश् चैव पितामहः ।अप्_115.058अब्।
अब्रवीत् नरकं प्राप्ता त्वया मुक्तीकृता वयं
पिण्डदानाद् ब्रह्मलोकं ब्रजाम इति ते गताः ।अप्_115.059अब्।
विशालः प्राप्तपुतादी राज्यं कृत्वा हरिं ययौ
प्रेतराजः स्वमुक्त्यै च वणिजञ्चेदमब्रवीत् ।अप्_115.060अब्।
प्रेतैः सर्वैः सहार्तः सन् सुकृतं भुज्यते फलं
श्रवणद्वादशीयोगे कुम्भः सान्नश् च सोदकः(2) ।अप्_115.061अब्।
दत्तः पुरा स मध्याह्ने जीवनायोपतिष्ठते
धनं गृहीत्वा मे गच्छ गयायां पिण्डदो भव ।अप्_115.062अब्।
वणिग्धनं गृहीत्वा तु गयायां पिण्डदो ऽभवत्
:न्
1 ददौ गत इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
2 सार्थश् च सोदक इति छ..
:प् 7
प्रेतराजः सह प्रेतैर् मुक्तो नीतो हरेः पुरं ।अप्_115.063अब्।
गयाशीर्षे पिण्डदानादात्मानं स्वपितॄंस् तथा(1)
पितृवंशे सुता ये च मातृवंशे तथैव च ।अप्_115.064अब्।
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः(2) ।अप्_115.065अब्।
क्रियालोपगता ये च जात्यन्धाः पुङ्गवस् तथा
विरूपा आमगर्भा ये ज्ञाताज्ञाताः कुले मम ।अप्_115.066अब्।
तेषां पिण्डो मया दत्तो ह्य् अक्षय्यमुपतिष्ठतां
ये केचित् प्रेतरूपेण तिष्ठन्ति पितरो मम ।अप्_115.067अब्।
ते सर्वे तृप्तिमायान्तु पिण्डदानेन(3) सर्वदा
पिण्डो देयस्तु सर्वेभ्यः सर्वैर् वै कुलतारकैः ।अप्_115.068अब्।
आत्मनस्तु तथा देयो ह्य् अक्षयं लोकमिच्छता
पञ्चमे ऽह्नि गदालोले स्नायान्मन्त्रेण बुद्धिमान् ।अप्_115.069अब्।
गदाप्रक्षालने तीर्थे गदालोले ऽतिपावने
स्नानं करामि संसारगदशान्त्यै जनार्दन ।अप्_115.070अब्।
नमो ऽक्षयवटायैव अक्षयस्वर्गदायिने
पित्रादीनामक्षयाय सर्वपापक्षयाय च ।अप्_115.071अब्।
श्राद्धं वटतले(4) कुर्याद् ब्राह्मणानाञ्च भोजनं
एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ।अप्_115.072अब्।
किम्पुनर्बहुभिर्भुक्तैः पितॄणां दत्तमक्षयं
:न्
1 प्रेतराजेत्यादिः, स्वपितॄंस्तथेत्यन्तः पाठो झ.. पुस्तके
नास्ति
2 शुभकर्मविवर्जिता इति झ..
3 पिण्डेनानेनेति ङ..
4 वटतटे इति ज..
:प् 8
गयायामन्नदाता यः पितरस्तेन पुत्रिणः ।अप्_115.073अब्।
वटं वटेश्वरं नत्वा पूजयेत् प्रपितामहं
अक्षयांल्लभते लोकान् कुलानां शतमुद्धरेत् ।अप्_115.074अब्।
क्रमतो ऽक्रमतो वापि गयायत्रा महाफला
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0