भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 114

114.001

तपस्तप्त्वा बली चाभून्मुनयः सिद्धिमाप्नुवन्(1) ।अप्_113.007अब्।
:ए इत्य् आग्नेये महापुराणे नर्मदाश्रीपर्वतादिमाहात्म्यं नाम
त्रयोदशाधिकशततमो ऽध्यायः ॥
% छप्तेर् {114}
:श् अथ चतुर्दशाधिकशततमो ऽध्यायः
गयामाहात्म्यम्
अग्निर् उवाच
गयामाहात्म्यमाख्यास्ये गयातीर्थोत्तमोत्तमं ।अप्_114.001अब्।
गयासुरस्तपस्तेपे तत्तपस्तापिभिः(2) सुरैः

114.002

उक्तः क्षीराब्धिगो विष्णुः पालयास्मान् गयासुरात् ।अप्_114.002अब्।
तथेत्युक्त्वा हरिर्दैत्यं वरं ब्रूहीति चाब्रवीत्

114.003

दैत्यो ऽब्रवीत्पवित्रो ऽहं भवेयं सर्वतीर्थतः ।अप्_114.003अब्।
तथेत्युक्त्वा गतो विष्णुर्दैत्यं दृष्ट्वा न वा हरिं

114.004

गताः शून्या मही स्वर्गे देवा ब्रह्मादयः सुराः(3) ।अप्_114.004अब्।
:न्
1 सिद्धिमाप्नुयुरिति झ..
2 तत्तपस्तापितैर् इति ग.. , घ.. , झ.. च
3 ब्रह्मादयः पुनः इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज. झ.. च
:प् 380
गता ऊचुर्हरिं देवाः शून्या भूस्त्रिदिवं हरे

114.005

दैत्यस्य दर्शनादेव ब्रह्मणञ्चाब्रवीद्धरिः ।अप्_114.005अब्।
यागार्थं दैत्यदेहं त्वं प्रार्थय त्रिदशैः सह

114.006

तच् छ्रुत्वा ससुरो ब्रह्मा(1) गयासुरमथाब्रवीत् ।अप्_114.006अब्।
अतिथिः प्रार्थयामि त्वान्देहं यागाय पावनं

114.007

गयासुरस्तथेत्युक्त्वापतत्तस्य शिरस्यथ(2) ।अप्_114.007अब्।
यागं चकार चलिते देहि पूर्णाहुतिं(3) विभुः

114.008

पुनर्ब्रह्माब्रवीद्विष्णुं पूर्णकाले ऽसुरो ऽचलत् ।अप्_114.008अब्।
शिष्णुर्धर्ममथाहूय प्राह देवमयीं शिलाम्

114.009

धारयध्वं सुराः सर्वे यस्यामुपरि सन्तु ते ।अप्_114.009अब्।
गदाधरो मदीयाथ मूर्तिः स्थास्यति सामरैः

114.010

धर्मः शिलां देवमयीं(4) तच् छ्रुत्वाधारयत् परां ।अप्_114.010अब्।
या धर्माद्धर्मवत्याञ्च जाता धर्मव्रता सुता

114.011

मरीचिर्ब्रह्मणः पुत्रस्तामुवाह तपोन्वितां(5) ।अप्_114.011अब्।
यथा हरिः श्रिया रेमे गौर्या शम्भुस् तथा तया

114.012

कुशपुष्पाद्यरण्याच्च आनीयातिश्रमान्वितः(6) ।अप्_114.012अब्।
भुक्त्वा धर्मव्रतां प्राह पादसंवाहनं कुरु

114.013

विश्रान्तस्य मुनेः पादौ तथेत्युक्त्वा प्रियाकरोत् ।अप्_114.013अब्।
एतस्मिन्नन्तरे ब्रह्मा मुनौ सुप्ते तथागतः(7)

114.014

धर्मव्रताचिन्तयञ्च किं ब्रह्माणं समर्चये ।अप्_114.014अब्।
पादसंवाहनं कुर्वे ब्रह्मा पूज्यो गुरोर्गुरुः(8)

114.015

:न्
1 तच् छ्रुत्वा सत्वरो ब्रह्मेति ङ..
2 शिरस्तथेति झ..
3 देहे पूर्णाहुतिमिति ख.. , छ.. , ज.. च
4 देहमयीमिति ग.. , छ.. , ज.. च
5 तपश्चितामिति झ..
6 समानीय श्रमान्वित इति ज..
7 सुप्ते समागत इति घ.. , ङ.. , ज.. , झ.. च
8 धर्मव्रतेत्यादिः, गुरोर्गुरुरित्यन्तः पाठः छ.. पुस्तके
नास्ति
:प् 381
विचिन्त्य पूजयामास ब्रह्माणं चार्हणादिभिः ।अप्_114.015अब्।
मरीचिस्तामपश्यत् स(1) शशापोक्तिव्यतिक्रमात्

114.016

शिला भविष्यसि क्रोधाद्धर्मव्रताब्रवीच्च तं(2) ।अप्_114.016अब्।
पादाभ्यङ्गं परित्यज्य त्वद्गुरुः पूजितो मया

114.017

अदोषाहं यतस्त्वं हि शापं प्राप्स्यसि शङ्करात् ।अप्_114.017अब्।
धर्मव्रता पृथक् शापं धारयित्वाग्रिमध्यगात्

114.018

तपश् चचार वर्षाणां सहस्राण्ययुतानि च ।अप्_114.018अब्।
ततो विष्ण्वादयो देवा वरं ब्रूहीति चाब्रुवन्

114.019

धर्मव्रताब्रवीद्देवान् शापन्निर्वर्तयन्तु मे ।अप्_114.019अब्।
देवा ऊचुः
दत्तो मरीचिना शापो भविष्यति न चान्यथा

114.020

शिला पवित्रा देवाङ्घ्रिलक्षिता त्वं(3) भविष्यसि ।अप्_114.020अब्।
देवव्रता देवशिला सर्वदेवादिरूपिणी

114.021

सर्वदेवमयी(4) पुण्या निश् चलायारसुस्य हि ।अप्_114.021अब्।
देवव्रतोवाच
यदि तुष्टास्थ मे सर्वे मयि तिष्ठन्तु सर्वदा

114.022

ब्रह्मा विष्णुश् च रुद्राद्या गौरीलक्ष्मीमुखाः सुराः ।अप्_114.022अब्।
अग्निर् उवाच
देवव्रतावचः श्रुत्वा तथेत्युक्त्वा दिवङ्गताः

114.023

सा धर्मणासुरस्यास्य धृता देवमयी शिला ।अप्_114.023अब्।
सशिलश् चलितो दैत्यः स्थिता रुद्रादयस्ततः

114.024

सदेवश् चलितो दैत्यस्ततो देवैः(5) प्रसादितः ।अप्_114.024अब्।
क्षीराब्धिगो हरिः प्रादात् स्वमूर्तिं श्रीगदाधरं

114.025

गच्छन्तु भोः स्वयं यास्यं(6) मूर्त्या वै देवगम्यया(7) ।अप्_114.025अब्।
:न्
1 मरीचिस्तामपश्यद्वै इति घ..
2 धर्मव्रताब्रवीद्वच इति ज..
3 पवित्रा देवानां वन्दिता त्वमिति घ..
4 सर्वतीर्थमयी इति घ.. , झ.. च
5 तदा देवैर् इति ज..
6 गच्छेत्युक्त्वा स्वयं गच्छेदिति झ.. । गच्छन्तूक्त्वा स्वयं यास्ये इति ख..
, छ.. च
7 मूर्त्या देवैकगम्यया इति घ.. , ङ.. च
:प् 382
स्थितो गदाधरो देवो व्यक्ताव्यक्तोभयात्मकः

114.026

निश् चलार्थं स्वयं देवः स्थित आदिगदाधरः ।अप्_114.026अब्।
गदो नामासुरो दैत्यः(1) स हतो विष्णुना पुरा

114.027

तदस्थिनिर्मिता(2) चाद्या गदा या विश्वकर्मणा ।अप्_114.027अब्।
आद्यया गदया हेतिप्रमुखा राक्षसा हताः

114.028

गदाधरेण विधिवत्(3) तस्मादादिगधाधरः(4) ।अप्_114.028अब्।
देवमय्यां शिलायां च(5) स्थिते चादिगदाधरे

114.029

गयासुरे निश् चलेय ब्रह्मा पूर्णाहुतिं ददौ ।अप्_114.029अब्।
गयासुरो ऽब्रवीद्देवान् किमर्थं वञ्चितो ह्य् अहं(6)

114.030

विष्णोर्वचनमात्रेण किन्नस्यान्निश् चलोह्यहं ।अप्_114.030अब्।
आक्रान्तो यद्यहं देवा दातुमर्हत(7) मे वरं

114.031

देवा ऊचुः
तीर्थस्य करणे यत्(8) त्वमस्माभिर् निश् चलीकृतः ।अप्_114.031अब्।
विष्णोः शम्भोर्ब्रह्मणश् च क्षेत्रं तव भविष्यति

114.032

प्रसिद्धं सर्वतीर्थेभ्यः पित्रादेर्ब्रह्मलोकदं ।अप्_114.032अब्।
इत्युक्त्वा ते स्थिता देवा देव्यस्तीर्थादयः स्थिताः

114.033

यागं कृत्वा ददौ ब्रह्मा ऋत्विग्भ्यो दक्षिणां तदा ।अप्_114.033अब्।
पञ्चक्रोशं गयाक्षेत्रं पञ्चाशत् पञ्च चार्पयेत्

114.034

ग्रामान् स्वर्णगिरीन्(9) कृत्वा नदीर्दुग्धमधुश्रवाः ।अप्_114.034अब्।
सरोवराणि दध्याज्यैर् बहूनन्नादिपर्वतान्(10)

114.035

:न्
1 नामासुरो रौद्र इति घ.. , झ.. च
2 तदङ्गान्निर्मिता इति झ.. । तदर्था निर्मिता इति छ..
3 गदावरेण देवेनेति झ..
4 गदो नामासुर इत्य् आदिः, तस्मादादिगदाधर इत्य् अन्तः पाठो ज..
पुस्तके नास्ति
5 शिलायान्तु इति ज..
6 वाञ्छितो ह्य् अहमिति ख.. , छ.. च
7 दातुमर्हथेति ङ..
8 तीर्थस्य कारणायेति घ.. , झ.. च
9 ग्रामान् पुण्यगिरीनिति ङ..
10 दध्याद्यैर् बहूनन्नादिपर्वतानिति ज..
:प् 383
कामधेनुं कल्पतरुं स्वर्णरूप्यगृहाणि च ।अप्_114.035अब्।
न याचयन्तु विप्रेन्द्रा अल्पानुक्त्वा(1) ददौ प्रभुः

114.036

धर्मयागे प्रलोभात्तु प्रतिगृह्य धनादिकं ।अप्_114.036अब्।
स्थिता यदा गयायान्ते शप्ताते ब्रह्मणा तदा

114.037

विद्याविवर्जिता(2) यूयं तृष्णायुक्ता भविष्यथ ।अप्_114.037अब्।
दुग्धादिवर्जिता नद्यः शैलाः पाषाणरूपिणः

114.038

ब्रह्माणं ब्राह्मणश्चोचुर् नष्टं शापेन शाखिलं ।अप्_114.038अब्।
जीवनाय प्रसादन्नः कुरु विप्रांश् च सो ऽब्रवीत्

114.039

तीर्थोपजीविका यूयं सचन्द्रार्कं(3) भविष्यथ ।अप्_114.039अब्।
ये युष्मान् पूजयिष्यन्ति गयायामागता नराः

114.040

हव्यकव्यैर् धनैः श्रद्धैस्तेषां कुलशतं व्रजेत्(4) ।अप्_114.040अब्।
नरकात् स्वर्गलोकाय(5) स्वर्गलोकात् पराङ्गतिं

114.041

गयोपि चाकरोद्यागं बह्वन्नं(6) बहुदक्षिणं ।अप्_114.041अब्।
गया पुरी तेन नाम्ना पाण्डवा ईजिरे हरिं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc