अग्नि पुराण · अध्याय 113
:ए इत्य् आग्नेये महापुराणे वाराणसीमाहात्म्यं नाम
द्वादशाधिकशततमो ऽध्यायः ॥
:न्
1 काशीं तु न हि सन्त्यजेदिति ज..
2 परं गुह्यमविमुक्तं परं ममेति ज..
3 जयेश्वरं परं गुह्यमिति ख..
4 महाबलमिति क..
5 भूमिचण्डेश्वरमिति ग..
6 तथान्यथेति झ..
7 द्वयोर्मध्ये इति ख..
8 यद्वत् स्याद्भुक्तिमुक्तिदमिति ङ..
:प् 378
% छप्तेर् {113}
:श् अथ त्रयोदशाधिकशततमो ऽध्यायः
नर्मदादिमाहात्म्यम्
अग्निर् उवाच
नर्मदादिकमाहात्म्यं वक्ष्येहं नर्मदां परां(1) ।अप्_113.001अब्।
सद्यः पुनाति गाङ्गेयं दर्शनाद्वारि नार्मदं
विस्तराद्योजनशतं योजनद्वयमायता ।अप्_113.002अब्।
षष्टिस्तीर्थसहस्राणि षष्टिकोट्यस् तथापराः
पर्वतस्य समन्तात्तु तिष्ठन्त्यमरकण्टके(2) ।अप्_113.003अब्।
कावेरीसङ्गमं पुण्यं श्रीपर्वतमतः शृणु
गौरी श्रीरूपिणी तेपे तपस्तामब्रवीद्धरिः(3) ।अप्_113.004अब्।
अवाप्स्यसि त्वमध्यात्म्यं नाम्ना श्रीपर्वतस्तव
समन्ताद्योजनशतं महापुण्यं भविष्यति ।अप्_113.005अब्।
अत्र दानन्तपो जप्यं(4) श्राद्धं सर्वमथाक्षयं(5)
:न्
1 नर्मदापरमिति झ..
2 निर्यान्त्यमरकण्टके इति झ..
3 तपस्तामब्रवीद्धर इति ग..
4 अत्र दानं तथा जप्यमिति झ..
5 सर्वमथाक्षरमिति ख.. , छ.. च
:प् 379
मरणं शिवलोकाय सर्वदं तीर्थमुत्तमं ।अप्_113.006अब्।
हरो ऽत्र क्रीडते देव्या हिरण्यकशिपुस् तथा
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0