भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 109

109.001

% छप्तेर् {109}
:श् अथ नवाधिकशततमो ऽध्यायः
तीर्थमाहात्म्यं
अग्निर् उवाच
माहात्म्यं सर्वतीर्थानां वक्ष्ये यद्भक्तिमुक्तिदं ।अप्_109.001अब्।
यस्य हस्तौ च पादौ च मनश् चैव सुसंयतं(1)

109.002

विद्या तपश् च कीर्तिश् च स तीर्थफलमश्नुते ।अप्_109.002अब्।
:न्
1 स्वसंयतमिति घ..
:प् 371
प्रतिग्राहादुपावृत्तो लघ्वाहारो जितेन्द्रियः

109.003

निष्पपस्तीर्थयात्री तु सर्वयज्ञफलं लभेत् ।अप्_109.003अब्।
अनुपोष्य त्रिरात्रीणि तीर्थान्यनभिगम्य च

109.004

अदत्वा काञ्चनं गाश् च दरिद्रो नाम जायते ।अप्_109.004अब्।
तीर्थाभिओगमने(1) तत् स्याद्यद्यज्ञेनाप्यते फलं

109.005

पुष्करं परमं तीर्थं सान्निध्यं हि त्रिसन्ध्यकं ।अप्_109.005अब्।
दशकोटिसहस्राणि तीर्थानां विप्र पुष्करे

109.006

ब्रह्मा सह सुरैर् आस्ते मुनयः सर्वमिच्छवः ।अप्_109.006अब्।
देवाः प्राप्ताः सिद्धिमत्र स्नाताः पितृसुरार्चकाः(2)

109.007

अश्वमेधफलं प्राप्य(3) ब्रह्मलोकं प्रयान्ति ते ।अप्_109.007अब्।
कार्त्तिक्यामन्नदानाच्च निर्मलो ब्रह्मलोकभाक्(4)

109.008

पुष्करे दुष्करं गन्तुं(5) पुष्करे दुष्करं तपः ।अप्_109.008अब्।
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करं(6)

109.009

तत्र वासाज्जपच्छ्राद्धात् कुलानां शतमुद्धरेत् ।अप्_109.009अब्।
जम्बुमार्गं च तत्रैव तीर्थन्तण्डुलिकाश्रमं

109.010

कर्णाश्रमं(7) कोटितीर्थं नर्मदा चार्वुदं परं ।अप्_109.010अब्।
तीर्थञ्चर्मण्वती सिन्धुः सोमनाथः प्रभासकं

109.011

सरस्वत्यब्धिसङ्गश् च(8) सागरन्तीर्थमुत्तमं ।अप्_109.011अब्।
:न्
1 तीर्थादिगमने इति घ..
2 पितृसुरार्चिता इति ख..
3 अश्वमेधफलश्चास्येति ख.. , ग.. , छ.. च । अश्वमेधफलं चाप्येति
घ..
4 ब्रह्मलोककमिति ख.. , ग.. , ङ.. , छ.. च
5 दुष्करं गन्तुमिति ख..
6 वस्तुं तत्र सुदुष्करमिति ज..
7 कण्वाश्रममिति घ..
8 सरस्वत्यब्धिसञ्ज्ञयेति ग.. , घ.. , ज.. च
:प् 372
पिण्डारकं द्वारका च गोमती सर्वसिद्धिदा

109.012

भूमितीर्थं ब्रह्मतुङ्गं(1) तीर्थं पञ्चनदं परं ।अप्_109.012अब्।
भीमतीर्थं(2) गिरीन्द्रञ्च देविका पापनाशिनी

109.013

तीर्थं विनशनं पुण्यं नागोद्भेदमघार्दनं ।अप्_109.013अब्।
तीर्थं कुमारकोटिश् च सर्वदानीरितानि च

109.014

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहं ।अप्_109.014अब्।
य एवं सततं ब्रूयात्सो ऽमलः प्राप्नुयाद्दिवं

109.015

तत्र विष्ण्वादयो देवास्तत्र वासाद्धरिं व्रजेत्(3) ।अप्_109.015अब्।
सरस्वत्यां सन्निहित्यां स्नानकृद्ब्रह्मलोकभाक्(4)

109.016

पांशवोपि कुरुक्षेत्रे नयन्ति परमां गतिं ।अप्_109.016अब्।
धर्मतीर्थं सुवर्णाख्यं गङ्गाद्वारमनुत्तमं

109.017

तीर्थं कणखलं पुण्यं भद्रकर्णह्रदन्तथा(5) ।अप्_109.017अब्।
गङ्गासस्वतीसङ्गं ब्रह्मावर्तमघार्दनं

109.018

भृगुतुङ्गञ्च कुब्जाम्रं गङ्गोद्भेदमघान्तकं(6) ।अप्_109.018अब्।
वाराणसी वरन्तीर्थमविमुक्तमनुत्तमं

109.019

कपालमोचनं तीर्थन्तीर्थराजं प्रयागकं ।अप्_109.019अब्।
गोमतीगङ्गयोः सङ्गं गङ्गा सर्वत्र नाकदा

109.020

तीर्थं राजगृहं पुण्यं शालग्राममघान्तकं ।अप्_109.020अब्।
:न्
1 ऋषितीर्थं ब्रह्मतुङ्गमिति घ.. । भूमितीर्थं
ब्रह्मसञ्ज्ञमिति छ..
2 भीमातीर्थमिति घ..
3 वामाद्दिवं ब्रजेदिति ज..
4 ब्रह्मलोकग इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
5 तत्र कर्णह्रदं तथेति ख.. । भद्रकं तु ह्रदं तथेति ग.. , ङ..
च
6 गङ्गोद्भेदमवन्तिकमिति ज..
:प् 373
वटेशं वामन्न्तीर्थं कालिकासङ्गमुत्तमं(1)

109.021

लौहित्यं करतोयाख्यं शोणञ्चाथर्षभं परं ।अप्_109.021अब्।
श्रीपर्वतं कोल्वगिरिं(2) सह्याद्रिर्मलयो गिरिः

109.022

गोदावरी तुङ्गभद्रा कावेरो वरदा नदी ।अप्_109.022अब्।
तापी पयोष्णी रेवा च दण्डकारण्यमुत्तमं

109.023

कालञ्जरं मुञ्जवटन्तीर्थं सूर्पारकं परं ।अप्_109.023अब्।
मन्दाकिनी चित्रकूटं शृङ्गवेरपुरं परं(3)

109.024

अवन्ती परमं तीर्थमयोध्या पापनाशनी ।अप्_109.024अब्।
नैमिषं परमं तीर्थं भुक्तिमुक्तिप्रदायकं(4)

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc