भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 110

110.001

:ए इत्य् आग्नेये महापुराणे तीर्थयात्रा माहात्म्यं नाम
नवाधिकशततमो ऽध्यायः
% छप्तेर् {110}
:श् अथ दशाधिकशततमो ऽध्यायः
गङामाहात्म्यं
अग्निर् उवाच
गङामाहात्म्यमाख्यास्ये सेव्या सा भुक्तिमुक्तिदा ।अप्_110.001अब्।
येषां मध्ये याति गङ्गा ते देशा पावना वराः

110.002

:न्
1 तीर्थं कणखलमित्यादिः, कालिकासङ्गमुत्तममित्यन्तः
पाठो छ.. पुस्तके नास्ति
2 श्रीपर्वतं कोन्द्रगिरिरिति छ.. । श्रीपर्वतं कोलगिरिमिति ज..
3 शृङ्गवेरपुअरं वरमिति घ..
4 अग्निर् उवाच । माहात्म्यं सर्वतीर्थानामित्यादिः, नैमिषं
परमन्तीर्थं भुक्तिमुक्तिप्रदायकं । इत्य् आग्नेये महापुराणे
तीर्थयात्रामाहात्म्यमित्यन्तः पाठो झ.. पुस्तके नास्ति
:प् 374
गतिर्गङ्गा तु(1) भूतानां गतिमन्वेषतां(2)अप्_110.002अब्।
सदा
गङ्गा तारयते(3) चोभौ वंशौ नित्यं हि सेविता

110.003

चान्द्रायणसहस्राच्च गङ्गाम्भःपानमुत्तमं ।अप्_110.003अब्।
गङां मासन्तु संसेव्य सर्वयज्ञफलं लभेत्

110.004

सकलाघहरी देवी स्वर्गलोकप्रदायिनी ।अप्_110.004अब्।
यावदस्थि च गङ्गायां तावत् स्वर्गे स तिष्ठति

110.005

अन्धादयस्तु(4) तां सेव्य देवैर् गच्छन्ति तुल्यतां(5) ।अप्_110.005अब्।
गङ्गातीर्थसमुद्भूतमृद्धारी सो ऽघहार्कवत्(6)

110.006

दर्शनात् स्पर्शनात् पानात्तथा गङ्गेतिकीर्तनात् ।अप्_110.006अब्।
पुनाति पुण्यपुरुषान् शतशीथ सहस्रशः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc