अग्नि पुराण · अध्याय 108
कृतत्रेतादिसर्गेण सर्गः स्वायम्भुवः स्मृतः ।अप्_107.019अब्।
:ए इत्य् आग्नेये महापुराणे स्वायम्भुवः सर्गो नाम
सप्ताधिकशततमो ऽध्यायः ॥
% छप्तेर् {108}
:श् अथाष्टाधिकशततमो ऽध्यायः
भुवनकोषः
अग्निर् उवाच
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो महान् ।अप्_108.001अब्।
कुशः क्रौञ्चस् तथा शाकः पुष्करश्चेति सप्तमः
:न्
1 योगप्रस्तारे इति ग.. , ज.. , झ.. च
2 इन्द्रद्युम्नोभ्यजायतेति ख.. , छ.. च
3 प्रतीहारादित्यादिः, प्रस्तारतः सुत इत्य् अन्तः पाठो झ.. पुस्तके
नास्ति
4 दुष्टादुष्टश् च विरजा इति ख..
:प् 367
एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ।अप्_108.002अब्।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समं(1)
जम्बूद्वीपो द्वीपमध्ये(2) तन्मध्ये मेरुरुच्छ्रितः(3) ।अप्_108.003अब्।
चतुरशीतिसाहस्रो भूयिष्ठः(4) षोडशाद्विराट्
द्वात्रिंशन्मूर्ध्नि विस्तरात् षोडशाधः(5) सहस्रवान् ।अप्_108.004अब्।
भूयस्तस्यास्य(6) शैलो ऽसौ कर्णिकाकारसंस्थितः
हिमवान् हेमकूटश् च निषधश्चास्य दक्षिणे ।अप्_108.005अब्।
नीलः श्वेतश् च शृङ्गो च उत्तरे वर्षपर्वताः
लक्षप्रमाणौ द्वौ मध्ये दशहीनास् तथापरे ।अप्_108.006अब्।
सहस्रद्वितयोछ्रायास्तावद्विस्तारिणश् च ते
भारतं प्रथमं वर्षन्ततः किम्पुरुषं स्मृतं ।अप्_108.007अब्।
हरिवर्सन्तथैवान्यन्मेरोर्दक्षिणतो द्विज
रम्यकं चोत्तरे वर्षं तथैवान्यद्धिरण्मयं(7) ।अप्_108.008अब्।
उत्तराः कुरवश् चैव यथा वै भारतं तथा
नवसाहस्रमेकैकमेतेषां मुनिसत्तम ।अप्_108.009अब्।
इलावृतञ्च तन्मध्ये सौवर्णा मेरुरुछ्रितः
मेरोश् चतुर्दिशन्तत्र नवसाहस्रविस्तृतं(8) ।अप्_108.010अब्।
:न्
1 दधिदुग्धजलान्तका इति ख.. , छ.. च
2 जम्बूद्वीपस्तस्य मध्ये इति ज..
3 मेरुरुत्थित इति झ..
4 भूमिष्ठ इति घ.. , ज.. च । भुविस्थ इति ङ..
5 षोडशांश इति झ..
6 भूपाद्मस्यास्य इति ख.. , ग.. , छ.. च
7 तथैवात्र हिरण्मयमिति ग.. । तथैवाथ हिरण्मयमिति ज..
8 इलावृतश्चेत्यादिः, नवसाहस्रविस्तृतमित्यन्तः पाठो छ..
पुस्तके नास्ति
:प् 368
इलावृतं महाभाग चत्वारश्चात्र पर्वताः
विष्कम्भा रचिता मेरोर्योजनायुतविस्तृताः(1) ।अप्_108.011अब्।
पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः(2) ।अप्_108.012अब्।
कदम्बस्तेषु जम्बुश् च पिप्पलो बट एव च
एकादशशतायामाः पादपा गिरिकेतवः ।अप्_108.013अब्।
जम्बूद्वीपेति सञ्ज्ञा स्यात् फलं जम्बा गजोपमं
जम्बूनदीरसेनास्यास्त्विदं जाम्बूनदं(3) परं ।अप्_108.014अब्।
सुपार्श्वः पूर्वतो मेरोः केतुमालस्तु पश्चिमे
वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनः ।अप्_108.015अब्।
वैभ्राजं पश्चिमे सौम्ये नन्दनञ्च सरांस्यथ
अरुणोदं महाभद्रं संशितोदं(5) समानसं ।अप्_108.016अब्।
शिताभश् चक्रमुञ्जाद्याः पूर्वतः केशराचलाः(5)
दक्षिणेन्द्रेस्त्रिकूटाद्याः शिशिवासमुखा जले(6) ।अप्_108.017अब्।
शङ्खकूटादयः सौम्ये मेरौ च ब्रह्मणः पुरी
चतुर्दशसहस्राणि योजनानाञ्च दिक्षु च ।अप्_108.018अब्।
इन्द्रादिलोकपालानां समन्तात् ब्रह्मणः पुरः
विष्णुपादात् प्लावयित्वा चन्द्रं स्वर्गात् पतन्त्यपि ।अप्_108.019अब्।
पूर्वेण शीता भद्राश्वाच्छैलाच्छैलाद्गतार्णवं
तथैवालकनन्दापि दक्षिणेनैव भारतं(7) ।अप्_108.020अब्।
:न्
1 योजनायुतमुच्छ्रिता इति घ..
2 सुपार्श्वश्चोत्तरे स्थित इति घ..
3 रसनास्माद्धेमजाम्बुनदमिति ख.. , ग.. , घ.. , ङ.. , छ.. च
4 असितोदमिति ज..
5 पूर्वतः शिशिराचला इति ख.. , ग.. , घ.. , ज.. च
6 शशिवाममुखा जले इति ख.. , घ.. , ङ.. , छ.. च
7 दक्षिणेन च भारतमिति ख.. । दक्षिणेनैति भारतमिति ग..
:प् 369
प्रयाति सागरं कृत्वा सप्तभेदाथ पश्चिमं
अब्धिञ्च चक्षुःसौम्याब्धिं भद्रोत्तरकुरूनपि(1) ।अप्_108.021अब्।
आनीलनिषधायामौ(2) माल्यवद्गन्धमादनौ
तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ।अप्_108.022अब्।
भारताः केतुमालाश् च भद्राश्वाः कुरवस् तथा
पत्राणि लोकपद्मस्य मर्यादाशैलवाह्यतः ।अप्_108.023अब्।
जठरो देवकूटश् च मर्यादापर्वतावुभौ(3)
तौ दक्षिणोत्तरायामावानीलनिषधायतौ ।अप्_108.024अब्।
गन्धमादनकैलासौ पूर्ववचायतावुभौ(4)
अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ ।अप्_108.025अब्।
निषधः पारिपात्रश् च मर्यादापर्वतावुभौ
मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ ।अप्_108.026अब्।
त्रिशृङ्गो रुधिरश् चैव उत्तरौ वर्षपर्वतौ
पूर्वपञ्चायतावेतावर्णवान्तर्व्यवस्थितौ ।अप्_108.027अब्।
जाठराद्याश् च मर्यादाशैला मेरोश् चतुर्दिशं
केशरादिषु या द्रोण्यस्तासु सन्ति पुराणि हि ।अप्_108.028अब्।
लक्ष्मीविष्ण्वग्निसूर्यादिदेवानां मुनिसत्तम
भौमानां स्वर्गधर्माणां न पापास्तत्र यान्ति च(5) ।अप्_108.029अब्।
:न्
1 भद्रोद्भवकुरूनपि इति ख..
2 अलीननिषधायामा इति ख.. , छ.. च
3 रम्यकमित्यादिः, मर्यादापर्वतावुभावित्यन्न्तः पाठो झ..
पुस्तके नास्ति
4 पूर्वपश्चायतावुभौ इति घ.. , ङ.. , ज.. च
5 भुमाः स्वर्गा धर्मिणान्ते न पापास्तत्र यान्ति च इति छ.. , ङ.. च ।
मौमानां स्वर्गधर्माणां तनया ह्य् अत्र यान्ति चेति ग.. , घ.. च ।
भोगिनां स्वर्गधर्माणां तनयास्तत्र यान्ति चेति ज..
:प् 370
भद्राश्वे ऽस्ति हयग्रीवो वराहः केतुमालके
भारते कूर्मरूपी च मत्स्यरूपः कुरुष्वपि ।अप्_108.030अब्।
विश्वरूपेण सर्वत्र पूज्यते भगवान् हरिः
किम्पुरुषाद्यष्टसु क्षुद्भीतिशोकादिकं न च ।अप्_108.031अब्।
चत्तुर्विंशतिसाहस्रं प्रजा जीवन्त्यनामयाः
कृतादिकल्पना नास्ति भौमान्यम्भांसि नाम्बुदाः ।अप्_108.032अब्।
सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः
नद्यश् च शतशस्तेभ्यस्तीर्थभूताः प्रजज्ञिरे ।अप्_108.033अब्।
भारते यानि नीर्थानि तानि तीर्थानि वच्मि ते
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0