भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 106

106.001

मानश् च द्वारतः पूर्व(4) ऊतरस्यान्दिशि क्रमात् ।अप्_105.039अब्।
:ए इत्य् आग्नेये महापुराणे गृहादिवास्तुर्नाम पञ्चाधिकशततमो
ऽध्यायः ॥
% छप्तेर् {106}
:श् अथ षडधिकशततमो ऽध्यायः
नगरादिवास्तुः
ईश्वर उवाच
नगरादिकवास्तुश् च वक्ष्ये राज्यादिवृद्धये ।अप्_106.001अब्।
योजनं योजनार्धं वा(5) तदर्थं स्थानमाश्रयेत्

106.002

:न्
1 वनवासी मृतिर्धनमिति घ.. । धर्मः कलिश्चेत्यादिः,
मृतिर्धनमित्यन्तः पाठो झ.. पुस्तके नास्ति
2 आयुः प्रावाह्यशस्यानीति ख.. , छ.. च
3 भोगं च पत्यं चेति ख.. , छ.. च
4 द्वारतः प्रोक्त इति घ..
5 भोजनार्धन्तदर्धं च इति घ.. , ङ.. च
:प् 362
अभ्यर्च्य वास्तु नगरं प्राकाराद्यन्तु कारयेत् ।अप्_106.002अब्।
ईशादित्रिंशत्पदके पूर्वद्वारं च सूर्यके

106.003

गन्धर्वाभ्यां(1) दक्षिणे स्याद्वारुण्ये पश्चिमे तथा ।अप्_106.003अब्।
सौम्यद्वारं सौम्यपदे कार्या हट्टास्तु विस्तराः

106.004

येनेभादि सुखं गच्छेत् कुर्याद् द्वारं तु षट्करं ।अप्_106.004अब्।
छिन्नकर्णं विभिन्नञ्च चन्द्रार्धाभं पुरं न हि

106.005

वज्रसूचीमुखं नेष्टं(2) सकृद् द्वित्रिसमागमं ।अप्_106.005अब्।
चापाभं वज्रनागाभं(3) पुरारम्भे हि शान्तिकृत्

106.006

प्रार्च्य विष्णु हरार्कादीन्नत्वा दद्याद् बलिं बली(4) ।अप्_106.006अब्।
आग्नेये स्वर्णकर्मारान्(5) पुरस्य विनिवेशयेत्

106.007

दक्षिणे नृत्यवृत्तीनां(6) वेश्यास्त्रीणां गृहाणि च ।अप्_106.007अब्।
नटानाञ्चक्रिकादीनां(7) कैवर्तादेश् च नैरृते

106.008

रथानामायुधानाञ्च कृपाणाञ्च वारुणे ।अप्_106.008अब्।
शौण्डिकाः कर्माधिकृता वायव्ये परिकर्मणः(8)

106.009

ब्राह्मणा यतयः सिद्धाः पुण्यवन्तश् च चोत्तरे ।अप्_106.009अब्।
फलाद्यादिविक्रयिण ईशाने च वणिग्जनाः

106.010

पूर्वतश् च बलाध्यक्षा आग्नेये विविधं बलं ।अप्_106.010अब्।
स्त्रीणामादेशिनो दक्षे काण्डारान्नैरृते न्यसेत्

106.011

पश्चिमे च महामात्यान् कोषपालांश् च कारुकान् ।अप्_106.011अब्।
:न्
1 गन्धर्वाद्या इति ग.. , ज.. च
2 सूचीमुखं नष्टमिति झ.. , छ.. च
3 व्यायतं वज्रनासाभमिति घ.. । चापाभं चक्रनाभाभमिति
ङ..
4 स्तुत्वा नत्वा बलिं बली इति ङ..
5 आग्नेये तु कर्मकारानिति ख..
6 दक्षिणे भृत्यधूर्तानामिति छ..
7 नटानां वाह्लिकादीनामिति ख.. , ज.. च
8 परिकर्मण इति छ.. , ज.. च
:प् 363
उत्तरे दण्डनाथांश् च नायकद्विजसङ्कुलान्

106.012

पूर्वतः क्षत्रियान् दक्षे वैश्याञ्छून्द्रांश् च पश्चिमे ।अप्_106.012अब्।
दिक्षु वैद्यान् वाजिनश् च बलानि च चतुर्दिशं

106.013

पूर्वेण चरलिङ्ग्यादीञ्छ्मशानादीनि दक्षिणे ।अप्_106.013अब्।
पश्चिमे गोधनाद्यञ्च कृषिकर्तॄंस्तथोत्तरे

106.014

न्यसेन्म्लेच्छांश् च कोणेषु ग्रामादिषु तथा स्मृतिं(1) ।अप्_106.014अब्।
श्रियं वैश्रवणं द्वारि(2) पूर्वे तौ(3) पश्यतां श्रियं

106.015

देवादीनां पश्चिमतः पूर्वास्यानि गृहाणि हि ।अप्_106.015अब्।
पूर्वतः पश्चिमास्यानि दक्षिणे चोत्तराननान्(4)

106.016

नाकेशविष्ण्वादिधामानि रक्षार्थं नगरस्य च(5) ।अप्_106.016अब्।
निर्दैवतन्तु नगरग्रामदुर्गगृहादिकं

106.017

भुज्यते तत् पिशाचाद्यै रोगाद्यैः परिभूयते ।अप्_106.017अब्।
नगरादि सदैवं हि जयदं भुक्तिमुक्तिदं

106.018

पूर्वायां श्रीगृहं प्रोक्तमाग्नेय्यां वै महानसं ।अप्_106.018अब्।
शनयं दक्षिणस्यान्तु(7) नैरृत्यामायुधाश्रयं

106.019

भोजनं पश्चिमायान्तु वायव्यां धान्यसङ्ग्रहः ।अप्_106.019अब्।
उत्तरे द्रव्यसंस्थानमैशान्यां देवतागृहं(8)

106.020

चतुःशालं त्रिशालं वा द्विशालं चैकशालकं ।अप्_106.020अब्।
चतुःशालगृहाणान्तु शालालिन्दकभेदतः(9)

106.021

:न्
1 तथा स्थितमिति ख.. , घ.. , ङ.. , छ.. च । यथास्थितमिति ज..
2 वैश्रवणं वापि इति ग..
3 पूर्वत इति ख..
4 दक्षिणे चोत्तरेण चेति ख.. , ग.. , घ.. च
5 नगरस्य हीति ख.. , छ.. च
6 रोगाद्यैर् अभिभूयते इति ज..
7 दक्षिणायां त्विति ग.. , घ.. , झ च
8 देवतालयमिति झ..
9 शालालिन्दप्रभेदत इति क..
:प् 364
शतद्वयन्तु जायन्ते पञ्चाशत् पञ्च तेष्वपि ।अप्_106.021अब्।
त्रिशालानि तु चत्वारि द्विशालानि तु पञ्चधा

106.022

एकशालानि चत्वारि एकालिन्दानि वच्मि च ।अप्_106.022अब्।
अष्टाविंशदलिन्दानि गृहाणि नगराणि च(1)

106.023

चतुर्भिः सप्रभिश् चैव पञ्चपञ्चाशदेव तु ।अप्_106.023अब्।
षडलिन्दानि विंशैव अष्टाभिर्विंश एव हि(2)

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc