अग्नि पुराण · अध्याय 107
अष्टालिन्दं भवेदेवं(3) नगरादौ गृहाणि हि ।अप्_106.024अब्।
:ए इत्य् आगेनेये महापुराणे नगरादिवास्तुर्नाम षडधिकशततमो
ऽध्यायः ॥
% छप्तेर् {107}
:श् अथ सप्ताधिकशततमो ऽध्यायः
स्वायम्भुवसर्गः
अग्निर् उवाच(4)
वक्ष्ये भुवनकोषञ्च पृथ्वीद्वीपादिलक्षणं ।अप्_107.001अब्।
अग्निध्रश्चाग्निबाहुश् च वपुष्मान्द्युतिमांस् तथा
मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च(5) ।अप्_107.002अब्।
:न्
1 गृहाणि नगरादिषु इति झ.. । गृहाणि नगराणि तु इति ख..
2 विंश एव चेति ख.. , छ.. च
3 अष्टाभिर्विभजेदेवमिति छ..
4 ईश्वर उवाचेति ख.. , छ.. च
5 सवनः क्षय एव च इति क..
:प् 365
ज्योतिष्मान् दशमस्तेषां सत्यनामा सुतो ऽभवत्
प्रियब्रतसुताः ख्याताः सप्तद्वीपान्ददौ पिता ।अप्_107.003अब्।
जम्बुद्वीपमथाग्नीध्रे प्लक्षं मेधातिथेर्ददौ
वपुष्मते शाल्मलञ्च ज्योतिष्मते कुशाह्वयं ।अप्_107.004अब्।
क्रौञ्चद्वीपं द्युतिमते शाकं भव्याय दत्तवान्
पुष्करं सवनायादादग्नीध्रे ऽदात् सुते शतं(1) ।अप्_107.005अब्।
जम्बूद्वीपं पिता लक्षं नाभेर्दत्तं हिमाह्वयं
हेमकूटं किम्पुरुषे हरिवर्षाय नैषधं ।अप्_107.006अब्।
इलावृते मेरुमध्ये रम्ये नीलाचलश्रितं(2)
हिरण्वते श्वेतवर्षं कुरूंस्तु कुरवे ददौ ।अप्_107.007अब्।
भद्राश्वाय च भद्राश्वं केतुमालाय पश्चिमं
मेरोः प्रियव्रतः पुत्रानभिषिच्य ययौ वनं ।अप्_107.008अब्।
शालग्रामे तपस्तप्त्वा ययौ विष्णोर्लयं नृपः
यानि कुम्पुरुषाद्यानि ह्य् अष्टवर्षाणि सत्तम ।अप्_107.009अब्।
तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्य् अयत्नतः
जरामृत्युभयं नास्ति धर्माधर्मौ युगादिकं ।अप्_107.010अब्।
नाधमं मध्यमन्तुल्या हिमाद्देशात्तु नाभितः(3)
ऋषभो मेरुदेव्याञ्च ऋषभाद् भरतो ऽभवत् ।अप्_107.011अब्।
ऋषभो दत्तश्रीः पुत्रे शालग्रामे हरिङ्गतः
भरताद् भारतं वर्षं भरतात् सुमतिस्त्वभूत्(4) ।अप्_107.012अब्।
भरतो दत्तलक्ष्मीकः शालग्रामे हरिं गतः
:न्
1 सुतेभ्य उ इति ख.. , छ.. च
2 रम्येनीलाचलाश्रियमिति ख.. , ङ.. , झ.. च । रम्यं नीलाचले
स्थितमिति घ..
3 हिमाद्देशान्तनाभित इति छ..
4 सुमतिस्तत इति ग..
:प् 366
स योगी योगप्रस्तावे(1) वक्ष्ये तच्चरितं पुनः ।अप्_107.013अब्।
सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत(2)
परमेष्ठी ततस्तस्मात् प्रतीहारस्तदन्वयः ।अप्_107.014अब्।
प्रतीहारात् प्रतीहर्ता प्रतिहर्तुर्भुवस्ततः
उद्गीतोथ च प्रस्तारो विभुः प्रस्तारतः सुतः(3) ।अप्_107.015अब्।
पृथुश् चैव ततो नक्तो नक्तस्यापि गयः सुतः
नरो गयस्य तनयः तत्पुत्रो ऽभूद्विराट् ततः ।अप्_107.016अब्।
तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत
महान्तस्तत्सुतश्चाभून्मनस्यस्तस्य चात्मजः ।अप्_107.017अब्।
त्वष्टा त्वष्टुश् च विरजा(4)रजस्तस्याप्यभूत् सुतः
सत्यजिद्रजसस्तस्य जज्ञे पुत्रशतं मुने ।अप्_107.018अब्।
विश्वज्योतिःप्रधानास्ते भारतन्तैर् विवर्धितं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0