अग्नि पुराण · अध्याय 105
:ए इत्य् आग्नेये महापुराणे सामान्यप्रासादलक्षणं नाम
चतुरधिकशततमो ऽध्यायः
% छप्तेर् {105}
:श् अथ पञ्चाधिकशततमो ऽध्यायः
नगरादिवास्तुकथनं
ईश्वर उवाच
नगरग्रामदुर्गाद्या(6) गृहप्रासादवृद्धये ।अप्_105.001अब्।
:न्
1 मिथुनैर् अथ वल्लीभिरिति ख.. , छ.. च
2 द्वारे श्वभ्रबिद्धे इति ख.. , घ.. , ङ.. च
3 मार्गवेधैश् च इति छ..
4 चुल्लीबिद्धे इति ख.. , ङ.. च
5 शिलाबिद्धेन मूढतां इति ग.. , ज.. च
6 नगरग्रामदुर्गादौ इति ख.. , छ.. , ज.. च । नगरग्रामदुर्गाख्यमिति
घ..
:प् 356
एकाशीतिपदैर् वस्तुं पूजयेत् सिद्धये ध्रुवं
प्रागास्या दशधा नाड्यास्तासां नामानि च ब्रुवे ।अप्_105.002अब्।
शान्ता यशोवती कान्ता विशाला प्राणवाहिनी
सती वसुमती नन्दा सुभद्राथ(1) मनोरमा(2) ।अप्_105.003अब्।
उत्तरा द्वादशान्याश् च(3) एकाशीत्यङ्घ्रिकारिका
हरिणी सुप्रभा लक्ष्मीर्विभूतिर्विमला प्रिया ।अप्_105.004अब्।
जया ज्वाला विशोका च स्मृतास्तत्रपादतः(4)
ईशाद्यष्टाष्टकं दिक्षु यजेदीशं धनञ्जयं ।अप्_105.005अब्।
शक्रमर्कं तथा सत्यं(5) भृशं व्योम च पूर्वतः
हव्यवाहञ्च पूर्वाणि वितथं भौममेव च ।अप्_105.006अब्।
कृतान्तमथ गन्धर्वं भृगं मृगञ्च दक्षिणे
पितरं द्वारपालञ्च सुग्रीवं पुष्पदन्तकं ।अप्_105.007अब्।
वरुणं दैत्यशेषौ च यक्ष्माणं पश्चिमे सदा
रोगाहिमुख्यो(6) भल्लाटः सौभाग्यमदितिर्दितिः(7) ।अप्_105.008अब्।
नवान्तः पदगो ब्रह्मा पूज्योर्धे च षडङ्घिगाः(8)
ब्रह्मेशान्तरकोष्ठस्थ(9) मायाख्यान्तु पद्द्वये ।अप्_105.009अब्।
तदधश्चापवत्साख्यं केन्द्रन्तरेषु षट्पदे
:न्
1 सुभद्रा चेति ज..
2 मनोजवा इति ज..
3 उत्तरास्या दशान्याश्चेति ख.. , ग.. , घ.. , ङ.. , ज.. च
4 सूत्रपादत इति ग.. । सूत्रपातत इति छ..
5 शक्रमेकं तथापत्यमिति झ..
6 रोगाहिमोक्षेति ख.. , छ.. च
7 सोमरूप्यदितौ दितिमिति ख..
8 षडङ्गका इति ग..
9 गोष्ठस्थ इति छ..
:प् 357
मरीचिकाग्निमध्ये तु सविता द्विपदस्थितः ।अप्_105.010अब्।
सावित्री तदधो द्व्यंशे विवस्वान् षट्पदे त्वधः
पितृब्रह्मान्तरे विष्णुमिन्दुमिन्द्रं त्वधो जयं ।अप्_105.011अब्।
वरुणब्रह्मणोर्मध्ये मित्राख्यं षट्पदे यजेत्
रोगब्रह्मान्तरे नित्यं द्विपञ्च(1) रुद्रदासकम् ।अप्_105.012अब्।
तदधो द्व्यङ्घ्रिगं यक्ष्म षट्सौम्येषु धराधरं(2)
चरकीं स्कन्दविकटं विदारीं पूतनां क्रमात् ।अप्_105.013अब्।
जम्मं पापं(3) पिलिपिच्छं(4) यजेदीशादिवाह्यतः(5)
एकाशीपदं वेश्म मण्डपश् च शताङ्घ्रिकः(6) ।अप्_105.014अब्।
पूर्ववद्देवताः पूज्या ब्रह्मा तु षोडशांशके(7)
मरीचिश् च विवस्वांश् च मित्रं पृथ्वीधरस् तथा(8) ।अप्_105.015अब्।
दशकोष्ठस्थिता दिक्षु त्वन्ये बेशादिकोणगाः(9)
दैत्यमाता तथेशाग्नी(10) मृगाख्यौ पितरौ तथा ।अप्_105.016अब्।
पापयक्ष्मानिलौ देवाः सर्वे सार्धांशके स्थिताः
यत्पाद्योकः(11) प्रवक्ष्यामि सङ्क्षेपेण क्रमाद् गुह ।अप्_105.017अब्।
:न्
1 द्विस्थञ्चेति ख.. , ग.. , ज.. च
2 षट्सौम्येषु चराचरमिति झ.. , घ.. च
3 कुम्भपालमिति छ..
4 पिल्लिपिञ्जमिति ख.. । पिञ्जिपिञ्छमिति छ..
5 चरकीमित्यादिः, वाह्यत इत्य् अन्तः पाठो झ.. पुस्तके नास्ति
6 शतार्धकमिति झ..
7 ब्रह्मान्तैः षोडशांतकैर् इति ख.. , छ.. च । ब्रह्मान्ताः
षोडशांशके इति ग.. , ज.. च
8 पृथ्वीधरन्तथेति ख..
9 त्वन्येवेशादिके गणा इति ख.. , छ.. च
10 दैत्यमाता भवेशाग्नी इति ख.. । दैत्यमाता हरेशाग्नी इति घ.. ,
ज.. च
11 यज्ञाद्योक इति ङ..
:प् 358
सदिग्विंशत्करैर् दैर्घ्यादष्टाविंशति(1) विस्तरात्
शिशिराश्रयः शिवाख्यश् च(2) रुद्रहीनः सदोभयोः ।अप्_105.018अब्।
रुद्रद्विगुणिता नाहाः पृथुष्णोभिर्विना त्रिभिः
स्याद्ग्रहद्विगुणं दैर्घ्यात्तिथिभिश् चैव(3) विस्तरात्(4) ।अप्_105.019अब्।
सावित्रः सालयः कुड्या(5) अन्येषां पृथक्स्त्रिंशांशतः
कुड्यपृथुपजङ्घोच्चात् कुड्यन्तु त्रिगुणोच्छयं ।अप्_105.020अब्।
कुड्यसूत्रसमा पृथ्वी वीथी भेदादनेकधा
भद्रे तुल्यञ्च वीथीभिर्द्वारवीथी विनाग्रतः ।अप्_105.021अब्।
श्रीजयं पृष्ठतो हीनं भद्रोयं पार्श् चयोर्विना
गर्भपृथुसमा(9) वीथी तदर्धार्धेन वा क्वचित् ।अप्_105.022अब्।
वीथ्यर्धेनोपवीथ्याद्यमेकद्वित्रिपुरान्वितम्
सामान्यानाथ गृहं वक्ष्ये सर्वेषां सर्वकामदं ।अप्_105.023अब्।
एकद्वित्रिचतुःशालमष्टशालं यथाक्रमात्
एकं याम्ये च सौमास्यं द्वे चेत् पश्चात् पुरोमुखम्(7) ।अप्_105.024अब्।
चतुःशालन्तु साम्मुख्यात्तयोरिन्द्रेन्द्रमुक्तयोः
शिवास्यमम्बुपास्यैष इन्द्रास्ये यमसूर्यकं(8) ।अप्_105.025अब्।
:न्
1 साष्टाविंशति इति ख.. , ङ.. च
2 शिवाश्रमः शिवाख्यस्येति ख.. , घ.. , झ.. च ।
शिवाग्रकशिवाख्यस्येति ग.. । शिवाग्रगः शिवाख्यस्येति ङ.. , ज.. च ।
शिवाश्रयः शिवाख्यस्येति छ..
3 दैर्घ्यादृषिभिभिश् चैवेति घ..
4 दैर्घ्यात् साष्टाविंशतिविस्तरादिति छ..
5 सावित्र्यालयः कुला इति ख.. । सावित्र इत्य् आदिः,
त्रिगुणोच्छ्रयमित्यन्तः पाठो झ.. पुस्तके नास्ति
6 गर्भपीठसमा इति ख.. , घ.. , झ.. च
7 सौम्यास्यं द्वे द्वे पश्चात्पुरोमुखमिति ख.. । सौम्याख्यं द्वे च
पश्चादधोमुखमिति झ..
8 सावित्रः सालयः कोटीनां तपसा
:प् 359
प्राक्सौम्यस्थे च दण्दाख्यं प्राग्याम्ये वातसञ्ज्ञकं
आप्येन्दौ गृहवल्याख्यं(1) त्रिशूलं तद्विनर्धिकृत् ।अप्_105.026अब्।
पूर्वशलाविहीनं(2) स्यात् सुक्षेत्रं वृद्धिदायकं
याम्ये हीने भवेच्छूली त्रिशालं वृद्धिकृत् परं(3) ।अप्_105.027अब्।
यक्षघ्नं जलहीनौकः सुतघ्नं बहुशत्रुकृत्
:न्
सत्यलोकतः । अपुनर्मारका यत्र ब्रह्मलोको हि स्मृतः ।
पादाद्यधस्तुर्भूलोको भुवः सूर्याद्ववः स्मृतः । स्वर्लोको
भुवान्तश् च नियुतानि चतुर्दश । एकदण्डं कटाहेन वृतो
ब्रह्माण्डविस्तरः । वारिवह्न्यानलाशैस्ततो भूतादिनावधि ।
वृतं दशगुणैर् अण्डं भूतादिर्महता तथा ।
दशोत्तराण्यशेषाणि शुक्र कस्मान्मामुने । महान्तञ्च
समावृत्य प्रधानं समवस्थितं । अनन्तस्य न तस्यान्तः
संस्थानं न च विद्यते । हेतुभूतमशेषस्य प्रकृतिः सा पुरा
मुने । असङ्ख्यातानि चाण्डानि तत्र जातानि च दृशां ।
दरुण्यग्निर्यथा तैलं तेन तद्वत् पुमानिति । प्रधानेवस्थितो व्यापी
चेतनात्मात्मवेदनः । प्रधानश् च पुमांश् चैव
सर्वभूतात्मभूतात्मभूस् तथा । विष्णुशक्त्या
महत्प्राज्ञवृत्तौ संश्रयधर्मिणौ । तयोः सैव पृथग्भावे
करणं संशयस्य च । महाख्यं स्वतलश्चाख्यं पातालं
चापि सत्तम । कृष्णपीतारुणाः
शुक्रशर्कराशैलकाञ्चनाः । भूमयस्तेषु चान्येषु सन्ति
दैत्यादयः सुखं । पातालानामधश्चान्ते शेषो विष्णोश् च
तामसः । गुणानन्यान् स चानन्तः शिरसा धारयन्महीं ।
भुवोधो नरका लोकं नयते क्षत्रवैष्णवः । वारिणा भाविता
पृथ्वी यावत्तावन्नभो मतं । सिद्धान्तमस्तुयाभ्यैव, इन्द्रास्थे
यमसूर्यकं । मल्लब्धेषु क.. , ख.. , ग.. , घ.. , ङ.. , छ.. , झ..
चिह्नितपुस्तकेषु सावित्रः सालयः इत्य् अतः परं नैष पाठो
वर्तते । तेषु तु मुद्रितपाठ एव वर्तते पुनः ज.. चिह्नितपुस्तके
सावित्रः सालय इत्य् अतः परं इन्द्रास्येयमसूर्यकमित्यन्तः
पाठो नास्ति । ज.. चिह्नितपुस्तके य उक्तपाठो दृश्यते तत्र
पूर्वापरसङ्गतिर्नास्ति । प्रकरणान्तरीयपाथोयमत्र
लेखकभ्रमात् समागत इति भाति
1 गृहशल्याख्यमिति ख..
2 पूर्वशाखाविहीनमिति ङ..
3 याम्ये हीने भवेच्चुल्ली त्रिशास्त्रं दितितत्परमिति झ.. । याम्ये हीने
भवेच्छत्री त्रिशालं वित्तहृत्परमिति ग..
:प् 360
इन्द्रादिक्रमतो वच्मि(1) ध्वजाद्यष्टौ गृहाण्यहं ।अप्_105.028अब्।
प्रक्षालानुस्रगावासमग्नौ(2) तस्य महानसं
याम्ये रसक्रिया शय्या धनुःशस्त्राणि रक्षसि ।अप्_105.029अब्।
धनमुक्त्यम्वुपेशाख्ये(3) सम्यगन्धौ च(4) मारुते
सौम्ये(5) धनपशू कुर्यादीशे दीक्षावरालयं(6) ।अप्_105.030अब्।
स्वामिहस्तमितं वेश्म विस्तारायामपिण्डिकं
त्रिगुणं हस्तसंयुक्तं कृत्वाष्टांशैहृतं तथा(7) ।अप्_105.031अब्।
तच्छेषोयं स्थितस्तेन वायसान्तं ध्वजादिकं
त्रयः पक्षाग्निवेदेषु रसर्षिवसुतो भवेत् ।अप्_105.032अब्।
सर्वनाशकरं वेश्म मध्ये चान्ते च संस्थितं
तस्माच्च(8) नवमे भागे शुभकृन्निलयो मतः ।अप्_105.033अब्।
तन्मधे मण्डपः शस्तः समो वा द्विगुणायतः
प्रत्यगाप्ये चेन्दुयमे(9) हट्ट एव गृहावली ।अप्_105.034अब्।
एकैकभवनाख्यानि दिक्ष्वष्टाष्टकसङ्ख्यया(10)
ईशाद्यदितिकान्तानि फलान्येषां यथाक्रमं(11) ।अप्_105.035अब्।
भयं नारी चलत्वं च जयो वृद्धिः प्रतापकः
:न्
1 इन्द्रादिक्रमतो वह्नीति ख.. , छ.. च
2 प्रक्षालनात्मभागारः समग्नौ इति छ.. ।
प्रक्षालानुग्रहावासमग्रौ इति ज..
3 धनभ्क्ताम्बुपशाख्ये इति ख.. , छ.. च
4 शस्यमञ्चौ चेति झ..
5 याम्ये इति झ..
6 दीक्षासुरालयमिति ख.. , ज.. , झ.. च
7 कृत्वाष्टांशैर् हतं तथेति ग.. । कृत्वाष्टाङ्गैर्
हतं तथेति घ.. , ज.. च । कृत्वाष्टांशहतस्तथेति झ..
8 तस्मात्तु इति झ..
9 प्रागीशे चेन्दुयाम्ये वेति ख.. । प्रागाप्ये चेन्दुयाम्ये इति छ.. , झ..
च
10 सर्वनाशकरमित्यादिः, यथाक्रममित्यन्तः पाठो ज.. पुस्तके
नास्ति
:प् 361
धर्मः कलिश् च नैस्व्यञ्च प्राग्द्वारेष्वष्टसु ध्रुवं ।अप्_105.036अब्।
दाहो ऽसुखं सुहृन्नाशो धननाशो मृतिर्धनं(1)
शिल्पित्वं तनयः स्याच्च याम्यद्वारफलाष्टकम् ।अप्_105.037अब्।
आयुःप्राव्राज्यशस्यानि(2) धनशान्त्यर्थसङ्क्षयाः
शोषं भोगं चापत्यञ्च(3) जलद्वारफलानि च ।अप्_105.038अब्।
रोगो मदार्तिमुख्यत्वं चार्थायुः कृशता मतिः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0