भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 104

104.001

तद्द्रव्यं श्रेष्ठद्रव्यं वा तत् सकार्यं
तत्प्रमाणकं
:ए इत्य् आग्नेये महपुराणे जीर्णोद्धारो नाम त्र्यधिकशततमो
ऽध्यायः ॥
% छप्तेर् {104}
:श् अथ चतुरधिकशततमोध्यायः
प्रासादलक्षणं
ईश्वर उवाच
वक्ष्ये प्रासादसामान्यलक्षणं ते शिखध्वज ।अप्_104.001अब्।
चतुर्भागीकृते क्षेत्रे भित्तेर्भागेन विस्तरात्

104.002

अद्रिभागेन(3) गर्भः स्यात् पिण्डिका पादविस्तरात् ।अप्_104.002अब्।
पञ्चभागीकृते क्षेत्रेन्तर्भागे(4) तु पिण्डिका

104.003

सुषिरं भागविस्तीर्णं भित्तयो भागविस्तरात् ।अप्_104.003अब्।
भागौ द्वौ मध्यमे गर्भे ज्येष्ठभागद्वयेन तु(5)

104.004

:न्
1 जीर्णे प्राप्य यथा मग्नमिति ख..
2 तत्प्रमाणत इति घ..
3 अर्धभागेनेति ख.. , घ.. , छ.. , ज.. च
4 पञ्चभागीकृते वापि मध्यभागे इति घ.. , छ.. , ज.. च
5 भागौ द्वौ मध्यमो गर्भो ज्येष्ठो भागद्वयेन तु इति ङ.. , छ.. ,
ज.. च
:प् 352
त्रिभिस्तु कन्यसागर्भः(1) शेषो भित्तिरिति क्वचित् ।अप्_104.004अब्।
षोढाभक्येथवा क्षेत्रे भित्तिर्भागैकविस्तरात्

104.005

गर्भो भागेन विस्तीर्णो भागद्वयेन पिण्डिका ।अप्_104.005अब्।
विस्ताराद् द्विगुणो वापि सपादद्विगुणो ऽपि वा

104.006

अर्धार्धद्विगुणो वापि(2) त्रिगुणः क्वचित्त्रिदुच्छ्रयः ।अप्_104.006अब्।
जगती विस्तरार्धेन त्रिभागेन क्वचिद्भवेत्

104.007

नेमिः पादोनविएस्तीर्णा(3) प्रासादस्य समन्ततः ।अप्_104.007अब्।
परिधिस्त्रयं शको मध्ये रथकांस्तत्र कारयेत्

104.008

चामुण्डं भैरवं तेषु नाट्येशं च निवेशयेत् ।अप्_104.008अब्।
प्रासादार्धेन देवानामष्टौ वा चतुरो ऽपि वा

104.009

प्रदक्षिणां वहिः कुर्यात् प्रासादादिषु(4) वा नवा ।अप्_104.009अब्।
आदित्याः पूर्वतः स्थाप्याः स्कन्दोग्निर्वायुगोचरे(5)

104.010

एवं यमादयो न्यस्याः स्वस्याः स्वस्यां दिशि स्थिताः ।अप्_104.010अब्।
चतुर्धा शिखरं कृत्वा शुकनासा द्विभागिका

104.011

तृतीये वेदिका त्वग्नेः सकण्ठो मलसारकः(6) ।अप्_104.011अब्।
वैराजः पुष्पकश्चान्यः कैलासो(7) मणिकस् तथा

104.012

त्रिविष्ठपञ्च पञ्चैव मेरुमूर्धनि संस्थिताः(8) ।अप्_104.012अब्।
चतुरस्रस्तु तत्राद्यो द्वितीयोपि तदायतः

104.013

:न्
1 त्रिभिस्तु कलसो गर्भ इति ख.. , छ.. च
2 अध्यर्धद्विगुणो वापीति घ.. , ज.. च
3 पादेन विस्तीर्णा इति घ.. , ज.. च
4 प्रासादाद्दिक्षु इति ख.. , घ.. , छ.. , ज.. च । प्रासादे दिक्षु इति
ङ..
5 स्कन्दोग्निर्वामगोचरे इति क..
6 सकण्ठोमवसारक इति ङ.. । सकण्ठोमवसाधक इति छ..
7 कैलास्य इति ङ.. , छ.. च
8 चतुर्धेत्यादिः, मेरुमूर्ध्नि संस्थिता इत्य् अन्तः पाठो ग.. पुस्तके
नास्ति
:प् 353
वृत्तो वृत्तायतश्चान्यो(1) ह्य् अष्टास्रश्चापि पञ्चमः ।अप्_104.013अब्।
एकैको नवधाभेदैश् चत्वारिंशच्च पञ्च च

104.014

प्रासादः प्रथमो मेरुर्द्वितियो मन्दरस् तथा ।अप्_104.014अब्।
विमानञ्च तथा भद्रः सर्वतोभद्र एव च

104.015

चरुको(2) नन्दिको नन्दिर्वर्धमानस् तथापरः ।अप्_104.015अब्।
श्रीवत्सश्चेति वैराज्यान्ववाये च समुत्थिताः

104.016

बलभी गृहराजश् च शालागृहञ्च मन्दिरं ।अप्_104.016अब्।
विशालश् च समो ब्रह्म(3) मन्दिरं भुवनन्तथा

104.017

प्रभवः शिविका वेश्म नवैते पुष्पकोद्भवाः(4) ।अप्_104.017अब्।
बलयो(5) दुन्दुभिः पद्मो महापद्मक(6) एवच

104.018

वर्धनी वान्य उष्णीषः(7) शङ्खश् च कलसस् तथा ।अप्_104.018अब्।
स्ववृक्षश् च तथाप्येते वृत्ताः कैलाससम्भवाः(8)

104.019

गजोथ वृषभो हंसो गरुत्मान्नृक्षनायकः ।अप्_104.019अब्।
भूषणो(9) भूधरश्चान्न्ये श्रीजयः पृथवीधरः(10)

104.020

वृत्तायतात् समुद्भूता नवैते मणिकाह्वयात्(11) ।अप्_104.020अब्।
वज्रं चक्रन्तथा चान्यत् स्वस्तिकं वज्रस्वस्तिकं(12)

104.021

:न्
1 चतुर्वृत्तायतश्चान्य इति घ..
2 रुचका इति क..
3 विशालश् च मनो ब्रह्मेति ख.. , घ.. च । विशालश् च तथा ब्रह्मेति
ग..
4 पणव इति ज..
5 महापद्मश् च इति क..
6 शकुनी चास्य उष्णीष इति ज..
8 वर्धनीत्यादिः, कैलाससम्भवा इत्य् अन्तः पाठो छ.. पुस्तके
नास्ति
9 वृषण इति ङ..
10 खवृक्षश्चेत्यादिः, पृथिवीधर इत्य् अन्तः पाठो ज..
पुस्तके नास्ति
11 मणिकाक्षयात् इति ज..
12 वज्रहस्तिकमिति ख.. , ग.. , छ.. च । वज्रमुष्टिकमिति ज..
:प् 354
चित्रं स्वस्तिकखड्गञ्च गदा श्रीकण्ठ एव च ।अप्_104.021अब्।
विजयो नामतश् चैते(1) त्रिविष्टपसमुद्भवाः

104.022

नगराणामिमाः सञ्ज्ञा लाटादीनामिमास् तथा(2) ।अप्_104.022अब्।
ग्रीवार्धेनोन्नतञ्चूलम्पृथुलञ्च विभागतः(3)

104.023

दशधा वेदिकाङ्कृत्वा पञ्चभिः स्कन्धविस्तरः ।अप्_104.023अब्।
त्रिभिः कण्ठं तु कर्तव्यं चतुर्भिस्तु प्रचण्डकं(4)

104.024

दिक्षु द्वाराणि कार्याणि न विदिक्षु कदाचन ।अप्_104.024अब्।
पिण्डिका कोणविस्तीर्णा मध्यमान्ता ह्य् उदाहृता

104.025

क्वचित् पञ्चमभागेन महताङ्गर्भपादतः ।अप्_104.025अब्।
उच्छ्राया द्विगुणास्तेषामन्यथा वा निगद्यते

104.026

षष्ट्याधिकात् समारभ्य अङ्गुलानां शतादिह(5) ।अप्_104.026अब्।
उत्तमान्यपि चत्वारि द्वाराणि दशहानितः(6)

104.027

त्रीण्येव मध्यमानि स्युस्त्रीण्येव कन्यसान्यतः ।अप्_104.027अब्।
उच्छ्रायार्धेन विस्तारो ह्य् उच्छ्रायो ऽभ्यधिकस्त्रिधा

104.028

चतुर्भिरष्टभिर्वापि दशभिरङ्गुलैस्ततः(7) ।अप्_104.028अब्।
उच्छ्रायात् पादविस्तीर्णा विशाखास्तदुदुंवरे(8)

104.029

विस्तरार्धेन बाहुल्यं(9) सर्वेषामेव कीर्तितम् ।अप्_104.029अब्।
:न्
1 विजयो नायकश् चैते इति ग..
2 नटादीनामिमास्तथेति ख.. , ङ.. च । नाट्यादीनामिमास्तथेति
ग.. , घ.., छ.. च । नादादीनामिमास्तथेति ज..
3 पृथुलं स्वत्रिभागत इति ख.. , घ.. , छ.. च । पृथुसमुद्रभागत इति
ङ..
4 चतुर्भिस्तु तदण्डकमिति ख.. , ग.. च । चतुर्भिः कृतदण्डकमिति
ज..
5 षष्ट्याधिकांशमारभ्य अङ्गुलानां शताधिकमिति
ज..
6 उत्तमान्यपि चत्वारि चत्वारि दशहानित इति ज..
7 दशभिर्वा गुणैः शुभ इति छ..
8 विशाखास्थे त्वडुम्बरे इति छ.. च
9 विशुद्धेन तु वाहुल्यमिति ख.. । विस्तरार्धेन वा हन्यादिति झ.. ।
विस्तरार्धेन बहुल्यमिति ज..
:प् 355
द्विपञ्चसप्तनवभिः शाखाभिर्द्वारमिष्टदं

104.030

अधःशाखाचतुर्थांशे प्रतीहारौ निवेशयेत् ।अप्_104.030अब्।
मिथुनैः पादवर्णाभिः(1) शाखाशेषं विभूषयेत्

104.031

स्तम्भबिद्धे भृत्यता स्यात् वृक्षबिद्धे त्वभूतिता ।अप्_104.031अब्।
कूपबिद्धे भयं द्वारे क्षेत्रबिद्धे(2) धनक्षयः

104.032

प्रासादगृहशिलादिमार्गविद्धेषु(3) बन्धनं ।अप्_104.032अब्।
सभाबिद्धे न दारिद्र्यं वर्णबिद्धे(4) निराकृतिः

104.033

उलूखलेन दारिद्र्यं शिलाबिद्धेन शत्रुता(5) ।अप्_104.033अब्।
छायाबिद्धेन दारिद्र्यं बेधदोषो न जायते

104.034

छेदादुत्पाटनाद्वापि तथा प्राकारलक्षणात् ।अप्_104.034अब्।
सीमाया द्विगुणत्यागाद् बेधदोषो न जायते

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc