भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 103

103.001

:ए इत्य् आग्नेये महापुराणे ध्वजारोहणादिविधिर्नाम
द्व्यधिकशततमो ऽध्यायः
% छप्तेर् {103}
:श् अथ त्र्यधिकशततमो ऽध्यायः
जीर्णोद्धारः
ईश्वर उवाच
जीर्णादीनाञ्च लिङ्गानामुद्धारं विधिना वदे ।अप्_103.001अब्।
लक्ष्मोज्झितञ्च भग्नञ्च स्थूलं वज्रहतं तथा

103.002

संपुटं स्फुटितं व्यङ्गं लिङ्गमित्येवमादिकं ।अप्_103.002अब्।
इत्यादिदुष्टलिङ्गानां योज्या पिण्डी(3) तथा वृषः

103.003

चालितञ्चलितं लिङ्गमत्यर्थं(4) विषमस्थितं ।अप्_103.003अब्।
दिड्मूढं पातितं लिङ्गं मध्यस्थं पतितं तथा

103.004

एवंविधञ्च संस्थाप्य(5) निर्ब्रणञ्च भवेद्यदि ।अप्_103.004अब्।
नद्यादिकप्रवाहेन तदपाक्रियते यदि

103.005

ततो ऽन्यत्रापि संस्थाप्य विधिदृष्टेन कर्मणा ।अप्_103.005अब्।
:न्
1 न्यूनादिदोषनाशार्थं कृत्वेति झ.. । न्यूनादिदोषनाशाय
हुत्वेति घ.. , ज.. च
2 कर्तर्भोगवत इति ख.. , छ.. च
3 त्याज्या पिण्डीति घ..
4 निम्नमित्यर्थमिति ज..
5 सन्त्याज्यमिति झ..
:प् 349
सुस्थितं दुस्थितं वापि(1) शिवलिङ्गं न चालयेत्

103.006

शतेन स्थापनं कुर्यात् सहस्रेण तु चालनं(2) ।अप्_103.006अब्।
पूजादिभिश् च संयुक्तं जीर्णाद्यमपि सुस्थितं(3)

103.007

याम्ये मण्डपमीशे वा प्रत्यग्द्वारैकतोरणं ।अप्_103.007अब्।
विधाय द्वारपूजादि स्थण्डिले मन्त्रपूजनं(4)

103.008

मन्त्रान् सन्तर्प्य सम्पूज्य वास्तुदेवातुं पूर्ववत् ।अप्_103.008अब्।
दिग्बलिं च वहिर्दत्वा समाचम्य स्वयं गुरुः

103.009

ब्राह्मणान् भोजयित्वा तु शम्भुं(5) विज्ञापयेत्ततः ।अप्_103.009अब्।
दुष्टलिङ्गमिदं शंभोः शान्तिरुद्धारणस्य चेत्(6)

103.010

रुसिस्तवादिविधिना(7) अधितिष्ठस्व मां शिव ।अप्_103.010अब्।
एवं विज्ञाप्य देवेशं शान्तिहोमं समाचरेत्

103.011

मध्वाज्यक्षीरदूर्वाभिर्मूलेनाष्टाधिकं शतं ।अप्_103.011अब्।
ततो लिङ्गं च संस्थाप्य पूजयेत् स्थिण्डिले(8) तथा

103.012

ओं व्यापकेश्वरायेति नाट्यन्तं शिववादिना(9) ।अप्_103.012अब्।
:न्
1 दुस्थितं चापीति ग..
2 सहस्रेण च चालयेदिति ग..
3 जीर्णाद्यमपि संस्थितमिति ख.. , छ.. च । पूजया रहितं
यत्तदन्निष्ठमपि दुःस्थितमिति ख.. , घ.. , पुस्तके ऽधिकः
पाठः
4 स्थण्डिलेशप्रपूजनमिति ख.. , ग.. , ङ.. , छ.. , झ.. च । स्थण्डिले
सम्प्रपूजनमिति घ.. , ज.. च
5 सर्वमिति क..
6 शान्तिरुद्धरणे न्यसेदिति ख.. , ग.. , घ.. , छ.. च
7 रुचिस्तवास्ति विधिनेति ख.. , ङ.. , छ.. , ज.. च
8 स्थण्डिलमिति ख.. , घ.. , छ.. , ज.. च
9 ओं व्यापकेश्वरायेति तत्त्वेनाभ्यन्तरादिने इति ख.. । ओं
व्यापकेश्वरायेति नात्यन्तशिववाचिनेति घ.. । ओं व्यापकेश्वरायेति
तत्त्वेनात्यन्तवादिने इति छ..
:प् 350
ओं व्यापकं हृदयेश्वराय नमः(1) । ओं व्यापकेश्वराय
शिरसे नमः(2) । इत्य् आद्यङ्गमन्त्राः(3)
ततस्तत्राश्रितं तत्त्वं श्रावयेदस्त्रमस्ततः(4)

103.013

सत्त्वः कोपीह(5) यः कोपिलिङ्गमाश्रित्य तिष्ठति ।अप्_103.013अब्।
लिङ्गन्त्यक्त्वा शिवाज्ञाभिर्यत्रेष्टं तत्र गच्छतु

103.014

विद्याविद्येश्वरैर् युक्तः स भवोत्र(6) भविष्यति ।अप्_103.014अब्।
सहस्रं प्रतिभागे च ततः पाशुपताणुना(7)

103.015

हुत्वा शान्त्यम्बुना प्रोक्ष्य स्पृष्ट्वा कुशैर् जपेत्ततः(8) ।अप्_103.015अब्।
दत्वार्घं च विलोमेन तत्त्वतत्त्वाधिपांस् तथा

103.016

अष्टमूर्तीश्वरान् लिङ्ग(9) पिण्डिकासंस्थितान् गुरुः ।अप्_103.016अब्।
विसृज्य स्वर्णपाशेन वृषस्कन्धस्थया तथा

103.017

रज्वा वध्वा तया नीत्वा शिवमन्तं गृणन् जनैः ।अप्_103.017अब्।
तज्जले निक्षिपेन् मन्त्री पुष्ठ्यर्थं जुहुयाच्छतं

103.018

तृप्तये दिक्पतीनाञ्च वास्तुशुद्धौ(10) शतं शतं ।अप्_103.018अब्।
रक्षां विधाय तद्धाम्नि महापाशुपता ततः

103.019

लिङ्गमन्यत्ततस्तत्र विधिवत् स्थापयेद् गुरुः ।अप्_103.019अब्।
असुरैर् मुनिभिर्गोत्रस्तन्त्रविद्भिः(11) प्रतिष्ठितं

103.020

:न्
1 ओं व्यापकेश्वराय हृदयाय नम इति ख.. , ग.. च । ओं
व्यापकेश्वर हृदया नम इति झ.. , घ.. च
2 शिरसे स्वाहेति ज..
3 इत्य् अङ्गमन्त्रा इति ख.. , ङ.. , च । इत्य् आदिमन्त्रा इति छ..
4 स्नापयेदस्त्रमन्त्रत इति छ.. । धारयेदस्त्रमन्त्रत इति ज..
5 सिद्ध्वः कोपीहेति घ..
6 शम्भुरत्रेति घ.. , ज.. च । प्रभुरत्रेति ख.. , छ.. च
7 पाशुपतात्मनेति ख.. , ग.. , छ.. च
8 दर्भैर् जपेत्तत इति ङ..
9 मूर्तिमूर्तीश्वरान् लिङ्गे इति ख.. , घ.. , ङ.. , छ.. च
10 वास्तुमध्ये घ..
11 तत्त्वविद्भिरिति ख.. , घ.. , छ.. , ज.. च
:प् 351
जीर्णं वाप्यथवा भग्नं(1) विधिनापि नचालयेत् ।अप्_103.020अब्।
एष एव विधिः कार्योजीर्णधामसमुद्धृतौ

103.021

खड्गे मन्त्रगणं न्यस्य कारयेत् मन्दिरान्तरं ।अप्_103.021अब्।
सङ्कोचे मरणं प्रोक्तं विस्तारो तु धनक्षयः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc