अग्नि पुराण · अध्याय 102
:ए इत्य् आग्नेये महापुराणे प्रासादकृत्यप्रतिष्ठा
नामैकाधिकशततमो ऽध्यायः
% छप्तेर् {102}
:श् अथ द्व्यधिकशततमो ऽध्यायः
ध्वजारोपणं
ईश्वर उवाच
चूलके ध्वजदण्डे च(4) ध्वजे देवकुले तथा ।अप्_102.001अब्।
प्रतिष्ठा च यथोद्दिष्टा(5) तथा स्कन्द वदामि ते(6)
तडागार्धप्रवेशाद्वा यद्वा सवार्धवेशनात् ।अप्_102.002अब्।
ऐष्टके दारुजः(7) शूलः शैलजे धाम्नि शैलजः(8)
वैष्णवादौ च चक्राढ्यः कुम्भः स्यान्मूर्तिमानतः ।अप्_102.003अब्।
स च त्रिशूलयुक्तस्तु अग्रचूलाभिधो मतः(9)
:न्
1 सन्निध्याबोधनमिति ख.. , छ.. , ज.. च
2 विधायैवेति ज..
3 प्रकृत्या तु इति ख..
4 चूडके ध्वजदण्डे वा इति ज..
5 यथादिष्टा इति झ..
6 तथा ह्य् अहं वदामि ते इति ङ..
7 ऐष्टे दारुभव इति घ.. , ज.. च
8 तडागार्धेत्यादिः, शैलज इत्य् अन्तः पाठो झ.. पुस्तके नास्ति
9 अग्रं चूडाभिधो मत इति घ.. । अस्रचूलादिदोषत इति छ.. ।
गृहचूडाभिधो मत इति ङ.. । अग्रं चूडादिदोषत इति ख..
:प् 345
ईशशूलः(1) समाख्यातो मूर्ध्नि लिङ्गसमन्वितः ।अप्_102.004अब्।
वीजपूरकयुक्तो वा शिवशास्त्रेषु तद्विधः
चित्रो ध्वजश् च जङ्घातो यथा जङ्गार्धतो भवेत्(2) ।अप्_102.005अब्।
भवेद्वा दण्डमानस्तु यदि वा तद्यदृच्छया(3)
महाध्वजः समाख्यातो यस्तु पीठस्य वेष्टकः(4) ।अप्_102.006अब्।
शक्रैर् ग्रहै रसैवापि हस्तैर् दण्डस्तु सम्भितः
उत्तमादिक्रमेणैव विज्ञेयः शूरिभिस्ततः ।अप्_102.007अब्।
वंशजः शालजातिर्वा स दण्डः सर्वकामदः
अयमारोप्यमाणस्तु भङ्गमायाति वै यदि ।अप्_102.008अब्।
राज्ञोनिष्टं(5) विजानीयाद्यजमानस्य वा तथा(6)
मन्त्रेण बहुरूपेण पूर्ववच्छान्तिमाचरेत् ।अप्_102.009अब्।
द्वारपालादिपूजाञ्च मन्त्राणान्तर्प्यणन्तथा
विधाय चूलकं(7) दण्डं स्नापयेदस्त्रमन्त्रतः ।अप्_102.010अब्।
अनेनैव तु मन्त्रेण ध्वजं सम्प्रोक्ष्य देशिकः
मृदु कषायादिभिः(8) स्नानं प्रासादङ्कारयेत्ततः ।अप्_102.011अब्।
विलिप्य रसमाच्छाद्य(9) शय्यायां न्यस्य पूर्ववत्
चूडके(20) लिङ्गवणन्यासो न च ज्ञानं न च क्रिया ।अप्_102.012अब्।
:न्
1 ईशश्चूड इति इति ग.. । ईशश्चूल इति ङ.. । ईषश्चूल इति छ.. ।
शशः शूल इति ज..
2 जङ्घातो यद्वा जङ्घार्धतो भवेदिति ख.. । सङ्घातो यथा
जङ्घार्धतो यजेदिति घ..
3 यदि वा तद्विदिच्छया इति ख..
4 यस्तु स्यात् पीठवेष्टक इति ङ..
5 राज्ञोरिष्टमिति ज..
6 वै तथा इति ज..
7 चूडकमिति ज..
8 भृत्काषायादिभिरिति ख.. , छ.. च
9 विलिप्य रसमादायेति ज..
10 चूलके इति घ.. , ङ.. च
:प् 346
विशेषार्था(1) चतुर्थी च न कुण्डस्य(2) कल्पना
दण्डे तयार्थतत्त्वञ्च(3) विद्यातत्त्वं द्वितीयकं ।अप्_102.013अब्।
सद्योजातानि वक्राणि(4) शिवतत्त्वं पुनर्ध्वजे
निष्कलञ्च शिवन्तत्र न्यस्याङ्गानि प्रपूजयेत् ।अप्_102.014अब्।
चूडके च(4) ततो मन्त्रो सान्निध्ये सहिताणुभिः(6)
होमयेत् प्रतिभागञ्च ध्वजे तैस्तु फडन्तिकैः(7) ।अप्_102.015अब्।
अन्यथापि कृतं यच्च ध्वजसंस्कारणं(8) क्वचित्
अस्त्रयागविधावेवं(9) तत्सर्वमुपदर्शितं ।अप्_102.016अब्।
प्रासादे कारिते स्थाने(10) स्रग्वस्त्रादिविभूषिते
जङ्घा वेदी तदूर्ध्वे तु त्रितत्त्वादि निवेश्य च ।अप्_102.017अब्।
होमादिकं विधायाथ शिवं सम्पूज्य पूर्ववत्
सर्वतत्त्वमयं ध्यात्वा शिवञ्च व्यापकं न्यसेत् ।अप्_102.018अब्।
अनन्तं कालरुद्रञ्च विभाव्य च पदाम्बुजे
कुष्माण्डहाटकौ पीठे पातालनरकैः(11) सह ।अप्_102.019अब्।
भुवनैर् लोकपालैश् च शतरुद्रादिभिर्वृतं
ब्रह्माण्दकमिदं ध्यात्वा जङ्घाताञ्च विभावयेत् ।अप्_102.020अब्।
वारितेजोनिलव्योमपञ्चाष्टकसमन्वितं(12)
:न्
1 विशेषाद्या इति घ..
2 नवदण्डस्येति झ..
3 तथात्मतत्त्वञ्चेति ग.. , घ.. च
4 सद्योजातादि वक्राणीति झ..
5 चूलके च इति ख.. , ज.. च
6 संहितात्मभिरिति ख.. , ग.. च
7 चूलके इति श्लोको झ.पुस्तके नास्ति
8 तच्च ध्वजे संहरणमिति ख.. , छ.. , च । यच्च ध्वजसंस्करणमिति
घ..
9 अस्त्रयागे विधाने चेति ज..
10 प्रासादकारितस्थाने इति ख.. , झ.. च । प्रासादे कारितस्थाने इति ज..
11 पातालनवकैर् इति ङ.. , ज.. च
12 पञ्चाग्गकसमन्वितमिति ग..
:प् 347
सर्वावरणसञ्ज्ञञ्च वृद्धयोन्यवृकान्वितं(1) ।अप्_102.021अब्।
योगाष्टकसमायुक्तं(2) नाशाविधि गुणत्रयं
पटस्थं पुरुषं सिंहं वामञ्च(3) परिभावयेत् ।अप्_102.022अब्।
मञ्जरीवेदिकायाञ्च विद्यादिकचतुष्टयं
कण्ठे मायां सरुद्राञ्च(4) विद्याश्चामलसारके(5) ।अप्_102.023अब्।
कलसे चेश्वरं विन्दुं विद्येश्वरसमन्वितं(6)
जटाजूटञ्च तं विद्याच्छूलं चन्द्रार्धरूपकं ।अप्_102.024अब्।
शक्तित्रयं च तत्रैव दण्डे नादं विभाव्य च
ध्वजे च कुण्डलीं शक्तिमिति धाम्नि विभावयेत् ।अप्_102.025अब्।
जगत्या वाथ सन्धाय लिङ्गं पिण्डिकयाथवा(7)
समुत्थाप्य सुमन्त्रैश् च(8) विन्यस्ते शक्तिपङ्कजे ।अप्_102.026अब्।
न्यस्तरत्नादिके तत्र स्वाधारे विनिवेशयेत्
यजमानो ध्वजे लग्ने बन्धुमित्रादिभिः सह ।अप्_102.027अब्।
धाम प्रदक्षिणीकृत्य लभते फलमीहितं(9)
गुरुः पाशुपतं ध्यायन्(10) स्थिरमन्त्राधिपैर् युतं(11) ।अप्_102.028अब्।
अधिपान् शस्त्रयुक्तांश् च रक्षणाय निबोधयेत्(12)
:न्
1 वुद्धयोन्यन्तकान्वितमिति ग..
2 यागष्टकसमायुक्तमिति झ..
3 रागश्चेति ख.. , ज.. च
4 कण्ठे मायाङ्गवक्त्रञ्चेति झ..
5 विद्याश्चामनसारके इति ख.. , ग.. च । विद्याद्या मनसारके इति ज..
6 विश्वेश्वरसमन्वितमिति ख.. , घ.. , छ.. च । विद्योत्तरसमन्वितमिति ग.. ।
सर्वावरणसञ्ज्ञञ्चेत्यादिः, विश्वेश्वरसमन्वितमित्यन्तः
पाठो ङ.पुस्तके नास्ति
7 लिङ्गपिण्डिकयाथवेति घ.. , ङ.. , ज.. च
8 स्वमन्त्रैश्चेति ग.. , ङ.. , च
9 लभते फलमीप्सितमिति ङ..
10 पाशुपतं ध्यायेदिति ख.. , घ.. च
11 शिवमन्त्राधिपैर् युतमिति घ.. , ङ.. च
12 रक्षणाय निवेदयेदिति ख.. , छ.. च
:प् 348
न्यूनादिदोषशान्त्यर्थं हुत्वा(1) दत्वा च दिग्बलिं ।अप्_102.029अब्।
गुरवे दक्षिणां दद्याद् यजमानो दिवं व्रजेत्
प्रतिमालिङ्गवेदीनां यावन्तः परमाणवः ।अप्_102.030अब्।
तावद्युगसहस्राणि कर्तुर्भोगभुजः(2) फलं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0