अग्नि पुराण · अध्याय 101
:ए इत्य् आग्नेये महापुराणे द्वारप्रतिष्ठा नाम शततमो
ऽध्यायः ॥
% छप्तेर् {101}
:श् अथैकाधिकशततमो ऽध्यायः ॥
प्रासादप्रतिष्ठा
ईअवर उवाच
प्रासादस्थापनं वक्ष्ये तच्चैतन्यं स्वयोगतः(6) ।अप्_101.001अब्।
शुकनाशासमाप्तौ तु पूर्ववेद्याश् च मध्यतः
आधारशक्तितः पद्मे विन्यस्ते प्रणवेन च(7) ।अप्_101.002अब्।
स्वर्णाद्ये कतमोद्द्भतं पञ्चगव्येन संयुतं
मधुक्षीरयुतं कुम्भं न्यस्तरत्रादिपञ्चकं(8) ।अप्_101.003अब्।
स्रग्वस्त्रं गन्धलिप्तञ्च गन्धवत्पुष्पभूषितं(9)
चूतादिपल्लवानाञ्च कृती कृत्यञ्च विन्यसेत्(10) ।अप्_101.004अब्।
:न्
1 नन्द्यादीन इति ख..
2 कृत्ययुक्तैर् इति ज..
3 शक्तितो यथा इति ग..
4 भागत्रयेणेत्यादिः, जुहुयाच्छतमित्यन्तः पाठो झ.. पुस्तके
नास्ति । अत्र कतिपयश्लोकाधिको ऽध्यायत्रयात्मकः पाठः
पतितोस्ति
5 पूर्ववद् दत्वा इति ग.. , घ च
6 तच्चैतन्यञ्च योगत इति ग.. । तच्चैतन्यस्वयोगत इति छ..
7 विन्यस्ते प्रणवेन तु इति ख.. , छ.. , ज.. , झ.. च । विन्यसेत् प्रणवेन तु इति
ग..
8 मधुक्षीरयुतं न्यस्तरत्नादिपञ्चकं तत इति ग..
9 गन्धवत्पुष्पधूपितमिति ग.. , ङ.. , छ.. च
10 वह्निकृत पद्मं विन्यसेदिति ख.. । वह्निकूपं यवं न्यसेदिति ग.. ।
वह्निकूपेषु च न्यसेदिति ज..
:प् 343
पूरकेण समादाय सकलीकृतविग्रहः
सर्वात्मभिन्नात्मानं स्वाणुना(1) स्वान्तमारुतः ।अप्_101.005अब्।
आज्ञया बोधयेच्छम्भौ(2) रेचकेन ततो गुरुः
द्वादशान्तात्(3) समादाय स्फुरद्वह्निकणोपमं ।अप्_101.006अब्।
निक्षिपेत् कुम्भगर्भे च न्यस्ततन्त्रातिवाहिकं(4)
विग्रहन्तद्गुणानाञ्च बोधकञ्च कलादिकं ।अप्_101.007अब्।
क्षान्तं वागीश्वरं(5) तत्तु ब्रातं तत्र निवेशयेत्
दश नाडीर्दश प्राणानिन्द्रियाणि त्रयोदश ।अप्_101.008अब्।
तदधिपांश् च संयोज्य प्रणवाद्यैः स्वनामभिः
स्वकार्यकारणत्वेन(6) मायाकाशनियामिकाः(7) ।अप्_101.009अब्।
विद्येशान् प्रेरकान् शम्भुं व्यापिनञ्च सुसम्वरैः(8)
अङ्गानि च(9) विनिक्षिप्य निरुन्ध्याद्रोधमुद्रा(10) ।अप्_101.010अब्।
सुवर्णाद्युद्भवं यद्वा पुरुषं पुरुषानुगं
पञ्चगव्यकषायाद्यैः पूर्ववत् संस्कृतन्ततः ।अप्_101.011अब्।
शय्यायां कुम्भमारोप्य ध्यात्वा रुद्रमुमापतिं
:न्
1 सर्वात्मभिन्नात्मानं स्वात्मना इति ख.. । सर्वात्माभिन्नमात्मा च
स्थाणुनेति ज..
2 बोधयेच्छक्तौ इति ख.. , घ.. च
3 द्वादशान्तमिति ग.. , ज.. च
4 न्यस्य तत्र यथाक्रममिति ग.. । न्यस्य तत्राभिवाहिकमिति छ.. । न्यस्य
तत्राभिवादकमिति ज..
5 वामेश्वरमिति ख.. । बाणेश्वरमिति ङ..
6 अकार्यकारणत्वे नेति ख.. , छ.. च
7 प्रयामिका इति ख.. , छ.. च
8 व्यापिनञ्च स्वशक्तित इति झ.. । व्यापिनञ्चास्य संस्रवैर् इति ङ..
9 अज्ञाने चेति घ.. , झ.. च । अङ्कादि चेति ङ..
10 निर्मञ्छ्य द्रोणमुद्रया इति ग.. । निरुन्ध्याद् द्रवमुद्रया इति झ..
:प् 344
तस्मिंश् च शिवमन्त्रेण व्यापकत्वेन वियसेत् ।अप्_101.012अब्।
सन्निधानाय होमञ्च प्रओक्षणं स्पर्शनं जपं
सान्निध्याबोधनं(1) सर्वम्भागत्रयविभागतः ।अप्_101.013अब्।
विधायैवं(2) प्रकृत्यन्ते(3) कुम्भे तं विनिवेशयेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0