भाषा

ENहिગુ
ग्रंथ पाठ

आगमशास्त्र · अध्याय 3

3.1

उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते
प्राग् उत्पत्तेर् अजं सर्वं तेनासौ कृपणः स्मृतः ॥

3.2

अतो वक्ष्याम्य् अकार्पण्यम् अजाति समतां गतम्
यथा न जायते किंचिज् जायमानं समन्ततः ॥

3.3

आत्मा ह्य् आकाशवज् जीवैर् घटाकाशैर् इवोदितः
घटादिवच् च संघातैर् जाताव् एतन् निदर्शनम् ॥

3.4

घटादिषु प्रलीनेषु घटाकाशादयो यथा
आकाशे संप्रलीयन्ते तद्वज् जीवा इहात्मनि ॥

3.5

यथैकस्मिन् घटाकाशे रजोधूमादिभिर् युते
न सर्वे संप्रयुज्यन्ते तद्वज् जीवाः सुखादिभिः ॥

3.6

रूपकार्यसमाख्याश् च भिद्यन्ते तत्र तत्र वै
आकाशस्य न भेदो ऽस्ति तद्वज् जीवेषु निर्णयः ॥

3.7

नाकाशस्य घटाकाशो विकारावयवौ यथा
नैवात्मनः सदा जीवो विकारावयवौ तथा ॥

3.8

यथा भवति बालानां गगनं मलिनं मलैः
तथा भवत्य् अबुद्धानाम् आत्मापि मलिनो मलैः ॥

3.9

मरणे संभवे चैव गत्यागमनयोर् अपि
(स्थितौ [ब्:]स्थितः) सर्वशरीरेषु (आकाशेना[क्,स्:]चाकाशेना)विलक्षणः [छेच्क्!] ॥

3.10

संघाताः स्वप्नवत् (सर्वे [क्: ,स्:]सर्वे) आत्ममायाविसर्जिताः [छेच्क्!]
आधिक्ये सर्वसाम्ये वा नोपपत्तिर् हि विद्यते ॥

3.11

रसादयो हि ये कोशा व्याख्यातास् तैत्तिरीयके
तेषां आत्मा परो जीवः (खं यथा [ब्:]सयथा) संप्रकाशितः ॥

3.12

द्वयोर् द्वयोर् मधुज्ञाने परं ब्रह्म प्रकाशितम्
पृथिव्याम् उदरे चैव यथाकाशः प्रकाशितः ॥

3.13

जीवात्मनोर् अनन्यत्वम् अभेदेन प्रशस्यते
नानात्वं निन्द्यते यच् च तद् एवं हि समञ्जसम् ॥

3.14

जीवात्मनोः पृथक्त्वं यत् प्राग् उत्पत्तेः प्रकीर्तितम्
भविष्यद्वृत्त्या गौणं तन् मुख्यत्वं (हि न [ब्:]न हि) युज्यते ॥

3.15

मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर् या चोदितान्यथा
उपायः सो ऽवताराय नास्ति भेदः कथंचन ॥

3.16

आश्रमास् त्रिविधा हीन मध्यमोत्कृष्टदृष्टयः
उपासनोपदिष्टेयं तदर्थम् अनुकम्पया ॥

3.17

स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम्
परस्परं विरुध्यन्ते तैर् अयं न विरुध्यते ॥

3.18

अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते
तेषाम् उभयथा द्वैतं तेनायं न विरुध्यते ॥

3.19

मायया भिद्यते ह्य् एतन् नान्यथाजं कथंचन
तत्त्वतो भिद्यमाने हि मर्त्यताम् अमृतं व्रजेत् ॥

3.20

अजातस्यैव भावस्य जातिम् इच्छन्ति वादिनः
अजातो ह्य् अमृतो भावो मर्त्यतां कथम् एष्यति ॥

3.21

न भवत्य् अमृतं मर्त्यं न मर्त्यम् अमृतं तथा
प्रकृतेर् अन्यथाभावो न कथंचिद् भविष्यति ॥

3.22

स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम्
कृतकेनामृतस् तस्य कथं स्थास्यति निश्चलः ॥

3.23

भूततो ऽभूततो वापि सृज्यमाने समा श्रुतिः
निश्चितं युक्तियुक्तं च यत् तद् भवति नेतरत् ॥

3.24

नेह नानेति चाम्नायाद् इन्द्रो मायाभिर् इत्य् अपि
अजायमानो बहुधा मायया जायते तु सः ॥

3.25

संभूतेर् अपवादाच् च संभवः प्रतिषिध्यते
को (न्व् [क्,ब्,स्:]त्व्) एनं जनयेद् इति कारणं प्रतिषिध्यते [छेच्क्!] ॥

3.26

स एष नेति नेतीति व्याख्यातं निह्नुते यतः
सर्वम् अग्राह्यभावेन हेतुनाजं प्रकाशते ॥

3.27

सतो हि मायया जन्म युज्यते न तु तत्त्वतः
तत्त्वतो जायते यस्य जातं तस्य हि जायते ॥

3.28

असतो मायया जन्म तत्त्वतो नैव युज्यते
वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते ॥

3.29

यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः
तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः ॥

3.30

अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः
अद्वयं च द्वयाभासं तथा जाग्रन् न संशयः ॥

3.31

मनोदृश्यम् इदं द्वैतं यत् किंचित् सचराचरम्
मनसो ह्य् अमनीभावे द्वैतं नैवोपलभ्यते ॥

3.32

आत्मसत्यानुबोधेन न संकल्पयते यदा
अमनस्तां तदा याति ग्राह्याभावे (तद् अग्रहम् [ब्:]तदग्रहात्) ॥

3.33

अकल्पकम् अजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते
ब्रह्म ज्ञेयम् अजं नित्यम् अजेनाजं विबुध्यते ॥

3.34

निगृहीतस्य मनसो निर्विकल्पस्य धीमतः
प्रचारः स तु विज्ञेयः सुषुप्ते ऽन्यो न तत्समः ॥

3.35

लीयते हि सुषुप्ते तन् निगृहीतं न लीयते
तद् एव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः ॥

3.36

अजम् अनिद्रम् अस्वप्नम् अनामकम् अरूपकम्
सकृद्विभातं सर्वज्ञं नोपचारः कथंचन ॥

3.37

सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः
सुप्रशान्तः सकृज्ज्योतिः समाधिर् अचलो ऽभयः ॥

3.38

ग्रहो न तत्र नोत्सर्गश् चिन्ता यत्र न विद्यते
आत्मसंस्थं तदा ज्ञानम् अजाति समतां गतम् ॥

3.39

अस्पर्शयोगो (वै नाम [ब्:]नामैष) दुर्दर्शः सर्वयोगिभिः
योगिनो बिभ्यति ह्य् अस्माद् अभये भयदर्शिनः ॥

3.40

मनसो निग्रहायत्तम् अभयं सर्वयोगिणाम्
दुःखक्षयः प्रबोधश् चाप्य् अक्षया शान्तिर् एव च ॥

3.41

उत्सेक उदधेर् यद्वत् कुशाग्रेणैकबिन्दुना
मनसो निग्रहस् तद्वद् भवेद् अपरिखेदतः ॥

3.42

उपायेन निगृह्णीयाद् विक्षिप्तं कामभोगयोः
सुप्रसन्नं लये चैव यथा कामो लयस् तथा ॥

3.43

दुःखं सर्वम् अनुस्मृत्य (काम[स्:]काय)भोगान् निवर्तयेत्
अजं सर्वम् अनुस्मृत्य जातं नैव तु पश्यति ॥

3.44

लये संबोधयेच् चित्तं विक्षिप्तं शमयेत् पुनः
सकषायं (विजानीयात् सम [ब्:]विजानीयाच् छम)प्राप्तं न चालयेत् ॥

3.45

नास्वादयेत् सुखं तत्र निःसङ्गः प्रज्ञया भवेत्
निश्चलं निश्चरत् चित्तम् एकीकुर्यात् प्रयत्नतः ॥

3.46

यदा न लीयते चित्तं न च विक्षिप्यते पुनः
अनिङ्गनम् अनाभासं निष्पन्नं ब्रह्म तत् तदा ॥

3.47

स्वस्थं शान्तं सनिर्वाणम् अकथ्यं सुखम् उत्तमम्
अजम् अजेन ज्ञेयेन सर्वज्ञं परिचक्षते ॥

3.48

न कश्चिज् जायते जीवः संभवो ऽस्य न विद्यते
एतत् तद् उत्तमं सत्यं यत्र किंचिन् न जायते ॥

मूल पाठ: Āgamaśāstra (= Gauḍapādakārikā, Gauḍapādīyakārikā, a verse commentary on the Māṇḍūkya-Upaniṣad) · Edition: Vinayaka Ganesha Apate. Pune 1921 (Anandasrama Sanskrit Series ; 10) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc