आगमशास्त्र · अध्याय 2
वैतथ्यं सर्वभावानां स्वप्ने आहुर् मनीषिणः
अन्तःस्थानात् तु भावानां संवृतत्वेन हेतुना ॥
अदीर्घत्वाच् च कालस्य गत्वा देशान् न पश्यति
प्रतिबुद्धश् च वै सर्वस् तस्मिन् देशे न विद्यते ॥
अभावश् च रथादीनां श्रूयते न्यायपूर्वकम्
वैतथ्यं तेन वै प्राप्तं स्वप्ने आहुः प्रकाशितम् ॥
अन्तःस्थानात् तु भेदानां (तस्माज् [ब्:]तथा) जागरिते स्मृतम्
यथा तत्र तथा स्वप्ने (संवृतत्वेन [ब्:]संवृतत्वं न) भिद्यते ॥
(स्वप्नजागरितस्थाने [ब्,स्:]स्वप्नजागरिते स्थाने) ह्य् एकम् आहुर् मनीषिणः
भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ॥
आदाव् अन्ते च यन् नास्ति वर्तमाने ऽपि तत् तथा
वितथैः सदृशाः सन्तो अवितथा इव लक्षिताः ॥
सप्रयोजनता तेषां स्वप्ने (विप्रतिपद्यते [ब्:]अपि प्रतिपद्यते)
तस्माद् आद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥
(अपूर्वं [ब्:]अपूर्वाः) स्थानि(धर्मो [ब्:]धर्मा) हि यथा स्वर्गनिवासिनाम्
तान् अयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥
स्वप्नवृत्ताव् अपि त्व् अन्तश् चेतसा कल्पितं त्व् असत्
बहिश् चेतोगृहीतं सद् दृष्टं वैतथ्यम् एतयोः ॥
जाग्रद्वृत्ताव् अपि त्व् अन्तश् चेतसा कल्पितं त्व् असत्
बहिश् चेतोगृहीतं सद् युक्तं वैतथ्यम् एतयोः ॥
उभयोर् अपि वैतथ्यं भेदानां स्थानयोर् यदि
क एतान् बुध्यते भेदान् को वै तेषां विकल्पकः ॥
कल्पयत्य् आत्मनात्मानम् आत्मा देवः स्वमायया
स एव बुध्यते भेदान् इति वेदान्तनिश्चयः ॥
विकरोत्य् अपरान् भावान् अन्तश् चित्ते (व्यवस्थितान् [ब्:]अव्यवस्थितान्)
नियतांश् च बहिश् चित्ते एवं कल्पयते प्रभुः ॥
चित्त(काला हि [ब्:]कालाश् च) ये ऽन्तस् तु द्वयकालाश् च ये बहिः
कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥
अव्यक्ता एव ये ऽन्तस् तु स्फुटा एव च ये बहिः
कल्पिता एव ते सर्वे विशेषस् त्व् इन्द्रियान्तरे ॥
जीवं कल्पयते पूर्वं ततो भावान् पृथग्विधान्
बाह्यान् आध्यात्मिकांश् चैव यथाविद्यस् तथास्मृतिः ॥
अनिश्चिता यथा रज्जुर् अन्धकारे विकल्पिता
सर्पधारादिभिर् भावैस् तद्वद् आत्मा विकल्पितः ॥
निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते
रज्जुर् एवेति चाद्वैतं तद्वद् आत्मविनिश्चयः ॥
प्राणादिभिर् (अनन्तैश् च [ब्,स्:]अनन्तैस् तु) भावैर् एतैर् विकल्पितः
मायैषा तस्य देवस्य (यया संमोहितः [ब्,स्:]ययायं मोहितः) स्वयम् ॥
(प्राण [ब्:]प्राणा) इति प्राणविदो भूतानीति च तद्विदः
गुणा इति गुणविदस् तत्त्वानीति च तद्विदः ॥
पादा इति पादविदो विषया इति तद्विदः
लोका इति लोकविदो देवा इति च तद्विदः ॥
वेदा इति वेदविदो यज्ञा इति च तद्विदः
भोक्तेति च भोक्तृविदो भोज्यम् इति च तद्विदः ॥
सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः
मूर्त इति मूर्तविदो अमूर्त इति च तद्विदः ॥
काल इति कालविदो दिश इति च तद्विदः
वादा इति वादविदो भुवनानीति तद्विदः ॥
मन इति मनोविदो बुद्धिर् इति च तद्विदः
चित्तम् इति चित्तविदो धर्माधर्मौ च तद्विदः ॥
पञ्चविंशक इत्य् एके षड्विंश इति चापरे
एकत्रिंशक इत्य् आहुर् अनन्त इति चापरे ॥
लोकांल् लोकविदः प्राहुर् आश्रमा इति तद्विदः
स्त्रीपुंनपुंसकं लैङ्गाः परापरम् अथापरे ॥
सृष्टिर् इति सृष्टिविदो लय इति च तद्विदः
स्थितिर् इति स्थितिविदः (सर्वे [ब्:]सर्वं) चेह तु सर्वदा ॥
यं भावं दर्शयेद् यस्य तं भावं स तु पश्यति
तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम् ॥
एतैर् एषो अपृथग्भावैः पृथग् एवेति लक्षितः
एवं यो वेद तत्त्वेन कल्पयेत् सो ऽविशङ्कितः ॥
स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा
तथा विश्वम् इदं दृष्टं वेदान्तेषु विचक्षणैः ॥
न निरोधो न चोत्पत्तिर् न बद्धो न च साधकः
न मुमुक्षुर् न वै मुक्त इत्य् एषा परमार्थता ॥
भावैर् असद्भिर् एवायम् अद्वयेन च कल्पितः
भावा अप्य् अद्वयेनैव तस्माद् अद्वयता शिवा ॥
(नात्म[ब्:]नान्य)भावेन नानेदं न स्वेनापि कथंचन
न पृथङ् नापृथक् किंचिद् इति तत्त्वविदो विदुः ॥
वीतरागभयक्रोधैर् मुनिभिर् वेदपारगैः
निर्विकल्पो ह्य् अयं दृष्टः प्रपञ्चोपशमो ऽद्वयः ॥
तस्माद् एवं विदित्वैनम् अद्वैते योजयेत् स्मृतिम्
अद्वैतं समनुप्राप्य जडवल् लोकम् आचरेत् ॥
निःस्तुतिर् निर्नमस्कारो निःस्वधाकार एव च
चलाचलनिकेतश् च यतिर् यादृच्छिको भवेत् ॥
तत्त्वम् आध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः
तत्त्वीभूतस् तदारामस् तत्त्वाद् अप्रच्युतो भवेत् ॥
मूल पाठ: Āgamaśāstra (= Gauḍapādakārikā, Gauḍapādīyakārikā, a verse commentary on the Māṇḍūkya-Upaniṣad) · Edition: Vinayaka Ganesha Apate. Pune 1921 (Anandasrama Sanskrit Series ; 10) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0