भाषा

ENहिગુ
ग्रंथ पाठ

आगमशास्त्र · अध्याय 4

4.1

ज्ञानेनाकाशकल्पेन धर्मान् यो गगनोपमान्
ज्ञेयाभिन्नेन संबुद्धस् तं वन्दे द्विपदां वरम् ॥

4.2

अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः
अविवादो अविरुद्धश् च देशितस् तं नमाम्य् अहम् ॥

4.3

भूतस्य जातिम् इच्छन्ति वादिनः केचिद् एव हि
अभूतस्यापरे धीरा विवदन्तः परस्परम् ॥

4.4

भूतं न जायते किंचिद् अभूतं नैव जायते
विवदन्तो (द्वया [ब्:]अद्वया) ह्य् एवम् अजातिं ख्यापयन्ति ते ॥

4.5

ख्याप्यमानाम् अजातिं तैर् अनुमोदामहे वयम्
विवदामो न तैः सार्धम् अविवादं निबोधत ॥

4.6

अजातस्यैव धर्मस्य जातिम् इच्छन्ति वादिनः
अजातो ह्य् अमृतो धर्मो मर्त्यतां कथम् एष्यति ॥

4.7

न भवत्य् अमृतं मर्त्यं न मर्त्यम् अमृतं तथा
प्रकृतेर् अन्यथाभावो न कथंचिद् भविष्यति ॥

4.8

स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम्
कृतकेनामृतस् तस्य कथं स्थास्यति निश्चलः ॥

4.9

सांसिद्धिकी स्वाभाविकी (सहजा [ब्:]सहजाप्य्) अकृता च या
प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या ॥

4.10

जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः
जरामरणम् इच्छन्तश् च्यवन्ते तन्मनीषया ॥

4.11

कारणं यस्य वै कार्यं कारणं तस्य जायते
जायमानं कथम् अजं भिन्नं नित्यं कथं च तत् ॥

4.12

कारणाद् (यद्य् [ब्:]यद्) अनन्यत्वम् अतः कार्यम् अजं (तव [ब्:]यदि)
जायमानाद् धि वै कार्यात् कारणं ते कथं ध्रुवम् ॥

4.13

अजाद् वै जायते यस्य दृष्टान्तस् तस्य नास्ति वै
जाताच् च जायमानस्य (न व्यवस्था [ब्:]नव्यवस्था) प्रसज्यते ॥

4.14

हेतोर् आदिः फलं येषाम् आदिर् हेतुः फलस्य च
हेतोः फलस्य चानादिः कथं तैर् उपवर्ण्यते ॥

4.15

हेतोर् आदिः फलं येषाम् आदिर् हेतुः फलस्य च
तथा जन्म भवेत् तेषां पुत्राज् जन्म पितुर् यथा ॥

4.16

संभवे हेतुफलयोर् एषितव्यः क्रमस् त्वया
युगपत् संभवे यस्माद् असंबन्धो विषाणवत् ॥

4.17

फलाद् उत्पद्यमानः सन् न ते हेतुः प्रसिध्यति
अप्रसिद्धः कथं हेतुः फलम् उत्पादयिष्यति ॥

4.18

यदि हेतोः फलात् सिद्धिः फलसिद्धिश् च हेतुतः
कतरत् (पूर्वनिष्पन्नं [ब्:]पूर्वम् उत्पन्नं) यस्य सिद्धिर् अपेक्षया ॥

4.19

अशक्तिर् अपरिज्ञानं क्रमकोपो ऽथ वा पुनः
एवं हि सर्वथा बुद्धैर् अजातिः परिदीपिता ॥

4.20

बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि (सः [ब्:]नः)
न (हि [ब्:]च) साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥

4.21

पूर्वापरापरिज्ञानम् अजातेः परिदीपकम्
जायमानाद् धि वै धर्मात् कथं पूर्वं न गृह्यते ॥

4.22

स्वतो वा परतो वापि न किंचिद् वस्तु जायते
सद् असत् सदसद् वापि न किंचिद् वस्तु जायते ॥

4.23

हेतुर् न जायते (अनादेः [ब्:]अनादिः) फलं (चापि [ब्:]वापि) स्वभावतः
आदिर् न विद्यते यस्य तस्य (ह्य् आदिर् [ब्:]जातिर्) न विद्यते ॥

4.24

प्रज्ञप्तेः सनिमित्तत्वम् अन्यथा द्वयनाशतः
संक्लेशस्योपलब्धेश् च परतन्त्रास्तिता मता ॥

4.25

प्रज्ञप्तेः सनिमित्तत्वम् इष्यते युक्तिदर्शनात्
निमित्तस्यानिमित्तत्वम् इष्यते भूतदर्शनात् ॥

4.26

चित्तं न संस्पृशत्य् अर्थं नार्थाभासं तथैव च
अभूतो हि यतश् चार्थो नार्थाभासस् ततः पृथक् ॥

4.27

निमित्तं न सदा चित्तं संस्पृशत्य् अध्वसु त्रिषु
अनिमित्तो विपर्यासः कथं तस्य भविष्यति ॥

4.28

तस्मान् न जायते चित्तं चित्तदृश्यं न जायते
तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् ॥

4.29

अजातं जायते यस्माद् अजातिः प्रकृतिस् ततः
प्रकृतेर् अन्यथाभावो न कथंचिद् भविष्यति ॥

4.30

अनादेर् अन्तवत्त्वं च संसारस्य न सेत्स्यते
अनन्तता चादिमतो मोक्षस्य न भविष्यति ॥

4.31

आदाव् अन्ते च यन् नास्ति वर्तमाने ऽपि तत् तथा
वितथैः सदृशाः सन्तो अवितथा इव लक्षिताः ॥

4.32

सप्रयोजनता तेषां स्वप्ने (विप्रतिपद्यते [ब्:]अपि प्रतिपद्यते)
तस्माद् आद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥

4.33

सर्वे धर्मा मृषा स्वप्ने कायस्यान्तर्निदर्शनात्
संवृते ऽस्मिन् प्रदेशे वै भूतानां दर्शनं कुतः ॥

4.34

न युक्तं दर्शनं गत्वा कालस्यानियमाद् गतौ
प्रतिबुद्धश् च वै सर्वस् तस्मिन् देशे न विद्यते ॥

4.35

मित्राद्यैः सह संमन्त्र्य (संबुद्धो [ब्:]प्रबुद्धो) न प्रपद्यते
गृहीतं चापि यत् किंचित् प्रतिबुद्धो न पश्यति ॥

4.36

स्वप्ने चावस्तुकः कायः पृथग् अन्यस्य दर्शनात्
यथा कायस् तथा सर्वं चित्तदृश्यम् अवस्तुकम् ॥

4.37

ग्रहणाज् जागरितवत् तद्धेतुः स्वप्ने इष्यते
तद्(धेतुत्वात् तु [ब्:]धेतुत्वाच् च) तस्यैव सज् जागरितम् इष्यते ॥

4.38

उत्पादस्याप्रसिद्धत्वाद् अजं सर्वम् उदाहृतम्
न च भूताद् अभूतस्य संभवो ऽस्ति कथंचन ॥

4.39

असज् जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः
असत् स्वप्ने ऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति ॥

4.40

नास्त्य् असद्धेतुकम् असत् सद् असद्धेतुकं तथा
सच् च सद्धेतुकं नास्ति सद्धेतुकम् असत् कुतः ॥

4.41

विपर्यासाद् यथा जाग्रद् अचिन्त्यान् भूतवत् स्पृशेत्
तथा स्वप्ने विपर्यासाद् धर्मांस् तत्रैव पश्यति ॥

4.42

उपलम्भात् समाचाराद् अस्तिवस्तुत्ववादिनाम्
जातिस् तु देशिता बुद्धैर् अजातेस् त्रसतां सदा ॥

4.43

अजातेस् त्रसतां तेषाम् उपलंभाद् वियन्ति ये
जातिदोषा न सेत्स्यन्ति दोषो ऽप्य् अल्पो भविष्यति ॥

4.44

उपलम्भात् समाचारान् मायाहस्ती यथोच्यते
उपलम्भात् समाचाराद् अस्ति वस्तु तथोच्यते ॥

4.45

जात्याभासं चलाभासं वस्त्वाभासं तथैव च
अजाचलम् अवस्तुत्वं विज्ञानं शान्तम् अद्वयम् ॥

4.46

एवं न जायते चित्तम् एवं धर्मा अजाः स्मृताः
एवम् एव विजानन्तो न पतन्ति विपर्यये ॥

4.47

ऋजुवक्रादिकाभासम् (अलातस्पन्दितं [ब्:]अलातं स्पन्दितं) यथा
ग्रहणग्राहकाभासं (विज्ञानस्पन्दितं [ब्:]विज्ञानं स्पन्दितं) तथा ॥

4.48

अस्पन्दमानम् (अलातम् [ब्:]आलातम्) अनाभासम् अजं यथा
अस्पन्दमानं विज्ञानम् अनाभासम् अजं तथा ॥

4.49

अलाते स्पन्दमाने वै नाभासा अन्यतोभुवः
न ततो ऽन्यत्र निस्पन्दान् नालातं प्रविशन्ति ते ॥

4.50

न निर्गता अलातात् ते द्रव्यत्वाभावयोगतः
विज्ञाने ऽपि तथैव स्युर् आभासस्याविशेषतः ॥

4.51

विज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः
न ततो ऽन्यत्र निस्पन्दान् न विज्ञानं विशन्ति ते ॥

4.52

न निर्गतास् ते विज्ञानाद् द्रव्यत्वाभावयोगतः
कार्यकारणताभावाद् यतो ऽचिन्त्याः सदैव ते ॥

4.53

द्रव्यं द्रव्यस्य हेतुः स्याद् अन्यद् अन्यस्य चैव हि
द्रव्यत्वम् अन्यभावो वा धर्माणां नोपपद्यते ॥

4.54

एवं न चित्तजा धर्माश् चित्तं वापि न धर्मजम्
एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ॥

4.55

यावद् धेतुफलावेशस् तावद् धेतुफलोद्भवः
क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः ॥

4.56

यावद् धेतुफलावेशः संसारस् तावद् आयतः
क्षीणे हेतुफलावेशे (संसारं न प्रपद्यते [ब्:]संसारो नोपपद्यते) ॥

4.57

संवृत्या जायते सर्वं शाश्वतं (नास्ति तेन [ब्:]तेन नास्ति) वै
(सद्[ब्:]स्व)भावेन ह्य् अजं सर्वम् उच्छेदस् तेन नास्ति वै ॥

4.58

धर्मा ये इति जायन्ते (जायन्ते [ब्:]संवृत्या) ते न तत्त्वतः
जन्म मायोपमं तेषां सा च माया न विद्यते ॥

4.59

यथा मायामयाद् बीजाज् जायते तन्मयो ऽङ्कुरः
नासौ नित्यो न चोच्छेदी तद्वद् धर्मेषु योजना ॥

4.60

नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा
यत्र वर्णा न वर्तन्ते विवेकस् तत्र नोच्यते ॥

4.61

यथा स्वप्ने द्वयाभासं चित्तं चलति मायया
तथा जाग्रद् द्वयाभासं चित्तं चलति मायया ॥

4.62

अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः
अद्वयं च द्वयाभासं (तथा [ब्:]चित्तं) जाग्रन् न संशयः ॥

4.63

स्वप्नदृक् प्रचरन् स्वप्ने दिक्षु वै दशसु स्थितान्
अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा ॥

4.64

स्वप्नदृक्चित्तदृश्यास् ते न विद्यन्ते ततः पृथक्
तथा तद्दृश्यम् एवेदं स्वप्नदृक्चित्तम् इष्यते ॥

4.65

चरञ् जागरिते जाग्रद् दिक्षु वै दशसु स्थितान्
अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा ॥

4.66

जाग्रच्चित्तेक्षणीयास् ते न विद्यन्ते ततः पृथक्
तथा तद्दृश्यम् एवेदं जाग्रतश् चित्तम् इष्यते ॥

4.67

उभे ह्य् अन्योअन्यदृश्ये ते किं तद् अस्तीति चोच्यते
लक्षणाशून्यम् उभयं तन्मतेनैव गृह्यते ॥

4.68

यथा स्वप्नमयो जीवो जायते म्रियते ऽपि च
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥

4.69

यथा मायामयो जीवो जायते म्रियते ऽपि च
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥

4.70

यथा निर्मितको जीवो जायते म्रियते ऽपि च
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥

4.71

न कश्चिज् जायते जीवः संभवो ऽस्य न विद्यते
एतत् तद् उत्तमं सत्यं यत्र किंचिन् न जायते ॥

4.72

चित्तस्पन्दितम् एवेदं ग्राह्यग्राहकवद् द्वयम्
चित्तं निर्विषयं नित्यम् असङ्गं तेन कीर्तितम् ॥

4.73

यो ऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्य् असौ
(परतन्त्राभिसंवृत्या [ब्:]परतन्त्रो ऽभिसंवृत्या) स्यान् नास्ति परमार्थतः ॥

4.74

अजः कल्पितसंवृत्या परमार्थेन नाप्य् अजः
(परतन्त्राभिनिष्पत्त्या [ब्:]परतन्त्रो ऽभिनिष्पत्त्या) संवृत्या जायते तु सः ॥

4.75

अभूताभिनिवेशो ऽस्ति द्वयं तत्र न विद्यते
द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते ॥

4.76

यदा न लभते हेतून् उत्तमाधममध्यमान्
तदा न जायते चित्तं हेत्वभावे फलं कुतः ॥

4.77

अनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया
अजातस्यैव सर्वस्य चित्तदृश्यं हि तद् यतः ॥

4.78

बुद्ध्वानिमित्ततां सत्यां हेतुं पृथग् अन्(आप्नुवन् [ब्:]आप्नुवत्)
वीतशोकं (तथा[ब्:]तदा)कामम् अभयं पदम् अश्नुते ॥

4.79

अभूताभिनिवेशाद् धि सदृशे तत् प्रवर्तते
वस्त्वभावं स बुद्ध्वैव निःसङ्गं विनिवर्तते ॥

4.80

निवृत्तस्याप्रवृत्तस्य निश्चला हि तदा स्थितिः
विषयः स हि बुद्धानां तत् साम्यम् अजम् अद्वयम् ॥

4.81

अजम् अनिद्रम् अस्वप्नं प्रभातं भवति स्वयम्
सकृद्विभातो ह्य् एवैष धर्मो (धातुस्वभावतः [ब्:]धातुः स्वभावतः) ॥

4.82

सुखम् आव्रियते नित्यं दुःखं विव्रियते सदा
यस्य कस्य च धर्मस्य ग्रहेण भगवान् असौ ॥

4.83

अस्ति नास्त्य् अस्ति नास्तीति नास्ति नास्तीति वा पुनः
चलस्थिरोभयाभावैर् आवृणोत्य् एव बालिशः ॥

4.84

कोट्यश् चतस्र एतास् तु ग्रहैर् यासां (सदावृतः [क्:]सहावृतः)
भगवान् आभिर् अस्पृष्टो येन दृष्टः स सर्वदृक् ॥

4.85

प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदम् अद्वयम्
अनापन्नादिमध्यान्तं किम् अतः परम् ईहते ॥

4.86

विप्राणां विनयो ह्य् एष शमः प्राकृत उच्यते
दमः प्रकृतिदान्तत्वाद् एवं विद्वाञ् शमं व्रजेत् ॥

4.87

सवस्तु सोपलम्भं च द्वयं लौकिकम् इष्यते
अवस्तु सोपलम्भं च शुद्धं लौकिकम् इष्यते ॥

4.88

अवस्त्व् अनुपलम्भं च लोकोत्तरम् इति स्मृतम्
ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् ॥

4.89

ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम्
सर्वज्ञता हि सर्वत्र भवतीह महाधियः ॥

4.90

हेयज्ञेयाप्यपाक्यानि विज्ञेयान्य् अग्र(याणतः [ब्:]यानतः)
तेषाम् अन्यत्र विज्ञेयाद् उपलम्भस् त्रिषु स्मृतः ॥

4.91

प्रकृत्याकाशवज् ज्ञेयाः सर्वे धर्मा अनादयः
विद्यते न हि नानात्वं तेषां क्वचन किंचन ॥

4.92

आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः
यस्यैवं भवति क्षान्तिः सो ऽमृतत्वाय कल्पते ॥

4.93

आदिशान्ता ह्य् अनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः
सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् ॥

4.94

वैशारद्यं तु वै नास्ति भेदे विचरतां सदा
भेदनिम्नाः पृथग्वादास् तस्मात् ते कृपणाः स्मृताः ॥

4.95

अजे साम्ये तु ये केचिद् भविष्यन्ति सुनिश्चिताः
ते हि लोके महाज्ञानास् तच् च लोको न गाहते ॥

4.96

अजेष्व् अजम् असंक्रान्तं धर्मेषु ज्ञानम् इष्यते
यतो न क्रमते ज्ञानम् असङ्गं तेन कीर्तितम् ॥

4.97

अणुमात्रे ऽपि वैधर्म्ये जायमाने ऽविपश्चितः
असङ्गता सदा नास्ति किम् उतावरणच्युतिः ॥

4.98

अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः
आदौ बुद्धास् तथा मुक्ता बुध्यन्ते इति नायकाः ॥

4.99

क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु (तापिनः ([ब्,क्:]तायिनः)
(सर्वे धर्मास् [ब्:]सर्वधर्मास्) तथा ज्ञानं नैतद् बुद्धेन भाषितम् ॥

4.100

दुर्दर्शम् अतिगम्भीरम् अजं साम्यं विशारदम्
बुद्ध्वा पदम् अनानात्वं नमस् कुर्मो यथाबलम् ॥

मूल पाठ: Āgamaśāstra (= Gauḍapādakārikā, Gauḍapādīyakārikā, a verse commentary on the Māṇḍūkya-Upaniṣad) · Edition: Vinayaka Ganesha Apate. Pune 1921 (Anandasrama Sanskrit Series ; 10) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc