भाषा

ENहिગુ
ग्रंथ पाठ

आगमशास्त्र · अध्याय 1

1.1

(बहिष्[स्:]बहिः)प्रज्ञो विभुर् विश्वो ह्य् अन्तःप्रज्ञस् तु तैजसः
घनप्रज्ञस् तथा प्राज्ञ एक एव त्रिधा (स्मृतः [ब्:]स्थितः) ॥

1.2

दक्षिणाक्षिमुखे विश्वो मनस्य् अन्तस् तु तैजसः
आकाशे च हृदि प्राज्ञस् त्रिधा देहे व्यवस्थितः ॥

1.3

विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक्
आनन्दभुक् तथा प्राज्ञस् त्रिधा भोगं निबोधत ॥

1.4

स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम्
आनन्दश् च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत ॥

1.5

त्रिषु धामसु यद् भोज्यं भोक्ता यश् च प्रकीर्तितः
वेदैतद् उभयं यस् तु स भुञ्जानो न लिप्यते ॥

1.6

प्रभवः सर्व(भावानां [ब्:]भूतानां) सताम् इति विनिश्चयः
सर्वं जनयति प्राणश् चेतोअंशून् पुरुषः पृथक् ॥

1.7

विभूतिं प्रसवं त्व् अन्ये मन्यन्ते सृष्टिचिन्तकाः
स्वप्नमाया(स[ब्:]स्व)रूपेति सृष्टिर् अन्यैर् विकल्पिता ॥

1.8

इच्छामात्रं प्रभोः सृष्टिर् इति सृष्टौ विनिश्चिताः
कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥

1.9

भोगार्थं सृष्तिर् इत्य् अन्ये क्रीडार्थम् इति चापरे
देवस्यैष स्वभावो ऽयम् आप्तकामस्य का स्पृहा ॥

1.10

निवृत्तेः सर्वदुःखानाम् ईशानः प्रभुर् अव्ययः
अद्वैतः सर्वभावानां देवस् तुर्यो विभुः स्मृतः ॥

1.11

कार्यकारणबद्धौ ताव् इष्येते विश्वतैजसौ
प्राज्ञः कारणबद्धस् तु (द्वौ तौ [ब्:]द्वे तु) तुर्ये न सिध्यतः ॥

1.12

नात्मानं न (परांश् [स्:]परं) चैव न सत्यं नापि चानृतम्
प्राज्ञः किंचन संवेत्ति (तुर्यं तत् [ब्:]तुरीयः) सर्वदृक् सदा ॥

1.13

द्वैतस्याग्रहणं तुल्यम् उभयोः प्राज्ञतुर्ययोः
बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥

1.14

स्वप्ननिद्रायुताव् आद्यौ प्राज्ञस् त्व् अस्वप्ननिद्रया
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥

1.15

अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वम् अजानतः
विपर्यासे तयोः क्षीणे तुरीयं पदम् अश्नुते ॥

1.16

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते
अजम् अनिद्रम् अस्वप्नम् अद्वैतं बुध्यते तदा ॥

1.17

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः
मायामात्रम् इदं द्वैतम् अद्वैतं परमार्थतः ॥

1.18

विकल्पो विनिवर्तेत कल्पितो यदि केनचित्
उपदेशाद् अयं वादो ज्ञाते द्वैतं न विद्यते ॥

1.19

विश्वस्यात्वविवक्षायाम् आदिसामान्यम् उत्कटम्
मात्रासंप्रतिपत्तौ स्याद् आप्तिसामान्यम् एव च ॥

1.20

तैजसस्योत्वविज्ञाने उत्कर्षो दृश्यते स्फुटम्
मात्रासंप्रतिपत्तौ स्याद् उभयत्वं तथाविधम् ॥

1.21

मकारभावे प्राज्ञस्य मानसामान्यम् उत्कटम्
मात्रासंप्रतिपत्तौ तु लयसामान्यम् एव च ॥

1.22

त्रिषु धामसु (यत् [ब्:]यस्) तुल्यं सामान्यं वेत्ति निश्चितः
स पूज्यः सर्वभूतानां वन्द्यश् चैव महामुनिः ॥

1.23

अकारो नयते विश्वम् उकारश् चापि तैजसम्
मकारश् च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥

1.24

ओंकारं पादशो विद्यात् पादा मात्रा न संशयः
ओंकारं पादशो ज्ञात्वा न किंचिद् अपि चिन्तयेत् ॥

1.25

युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम्
प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥

1.26

प्रणवो ह्य् अपरं ब्रह्म प्रणवश् च (परः [ब्:,स्:]परं) स्मृतः
अपूर्वो ऽनन्तरो ऽबाह्यो अनपरः प्रणवो ऽव्ययः ॥

1.27

सर्वस्य प्रणवो ह्य् आदिर् मध्यम् अन्तस् तथैव च
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तद् अनन्तरम् ॥

1.28

प्रणवं हीश्वरं विद्यात् सर्वस्य हृदि संस्थितम्
सर्वव्यापिनम् ओंकारं मत्वा धीरो न शोचति ॥

1.29

अमात्रो ऽनन्तमात्रश् च द्वैतस्योपशमः शिवः
ओंकारो विदितो येन स मुनिर् नेतरो जनः ॥

मूल पाठ: Āgamaśāstra (= Gauḍapādakārikā, Gauḍapādīyakārikā, a verse commentary on the Māṇḍūkya-Upaniṣad) · Edition: Vinayaka Ganesha Apate. Pune 1921 (Anandasrama Sanskrit Series ; 10) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc