भाषा

ENहिગુ
ग्रंथ पाठ

अभिसमयालंकारवृत्तिः स्फुटार्था · अध्याय 2

2.1

इति । यथोक्त उद्देशः , सर्वधर्मसमता, सत्त्वार्थकरणम्, अनिमित्तसर्वक्रियाकारित्वेनानाभोगः, शाश्वतोच्छेदरहितावस्थाविशेषः, त्रियानसर्वार्थप्राप्तिः, यथोक्तसर्वाकारज्ञता तद्विशिष्टमार्ग इत्येवं निर्यातव्यवस्तुषु प्रतिविशिष्टान्यधर्माभावेन सर्वानुपलम्भतया एभिरष्टाभिर्निर्याणप्रतिपत्तिः अष्टधा भवति ।
इति अभिसमयालङ्कारे नाम प्रज्ञापारमिताशास्त्रे प्रथमाधिकारवृत्तिः ।
मार्गज्ञताधिकारः द्वितीयः
1 - ध्यामीकरणतादीनि
सर्वाकारज्ञताधिगमो न विना मार्गज्ञतापरिज्ञानेनेति मार्गज्ञतामाह -
ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति ।
विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च

2.2

मार्गज्ञतोत्पत्तिं प्रति योग्यतापादनाय देवादीनां स्वकर्मजप्रभायास्तथागतप्रकृतिप्रभाभिर्मलिनीकरणता निहतमानसन्ताने ऽधिगम उत्पद्यत इति ज्ञापनाय कृता, अतो वक्रोक्त्याधारः कथितः । स चोत्पादितबोधिचित्त एवेति विषयप्रतिनियतो भवति । त्रियानव्यवस्थानमाभिप्रायिकम्, न लाक्षणिकमिति न्यायादनुत्तरसम्यक्सम्बोधिपर्यवसान एव सर्वो जन इत्यतो वीतरागेतरयोगिनापि बुद्धत्वप्राप्तये मार्गज्ञता भावनीयेति व्याप्तिर्भवति । सत्त्वार्थकरणप्रवृत्तत्वेनोत्पादितबोधिचित्तस्य सर्वथा क्लेशाप्रहाणमिति स्वभावो भवति । तादृशस्वभावस्य भूतकोटेरसाक्षात्करणेन प्रयोपायकौशलेन चापरिगृहीतसत्त्वस्य परिग्रहणादिनेति कारित्रम् ।
2 - श्रावकमार्गः
आधारादिकमेवममिधाय मार्गज्ञताधिकारे सर्वे मार्गाः परिपूरयितव्या इति श्रावकमार्गमाह -
चतुर्णामायसत्यानामाकारानुपलम्भतः ।
श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये

2.3

इति । तत्र दुःखसत्यस्यानुक्रमेण अनित्यं दुःखं शून्यमनात्मेत्येतानि चत्वारि शान्ताकारलक्षणानि ।
समुदयसत्यस्य हेतु-समुदय-प्रभव-प्रत्ययरूपत्वेन रोग-गण्ड-शल्य-अघाकाराः ।
निर्विदे विरागाय निरोधाय च प्रतिपन्नो भवतीत्यतस्तयोः दुःखसमुदययोः प्रत्येकः पर-प्रलोपधर्मस्वरूपौ निर्विदाकारौ, चल-प्रभङ्गुरस्वरूपौ विरागाकारौ; भय-उपसर्ग-उपद्रवस्वरूपा निरोधाकाराः । निरोधसत्यस्य निरोधरूप-निरात्म-शान्त-प्रणीतरूपविविक्त-निर्याणरूपशून्यानिमित्ताप्रणिहितानभिसंस्कारा निरोधसत्याकाराः ।
मार्गसत्यस्य मार्ग-न्याय-प्रतिपत्ति-नैर्याणिका इति मार्गसत्याकाराः । ततश्चैषां स्वभावानुपलम्भभावनया मार्गज्ञताधिकारे श्रावकाणां मार्गो बोधिसत्वेनैवं परिज्ञेयः ।
निर्वेधभागीयाधिगमपूर्वकं चतुःसत्वपरिज्ञानमिति मार्गममिधाय निर्वेधभागीयमाह-
रूपादिस्कन्धशून्यत्वाच्छून्यतानामभेदतः ।
ऊष्माणो ऽनुपलम्भेन तेषां मूर्धगतं मतम्

2.4

क्षान्तयस्तेषु नित्यादिगोस्थाननिषेधतः ।
दश भूमीः समारभ्य विस्तरास्थानदेशनात्

2.5

अग्रधर्मगतं प्रोक्तमार्यश्रावकवर्त्मनि ।
तत्कस्य हेतोर्बुद्धेन बुद्ध्वा धर्मासमीक्षणात्

2.6

रूपादिस्कन्धानां स्वस्वरूपशून्यत्वाच्छून्यतानामभेदेन, रूपादीनां पूर्ववदनुपम्भेन, एवं रूपादीनां ऽन नित्यं नानित्यम्ऽ इत्युपलम्भयोगतः स्थाननिषेधेन, यस्मात् तथागतेन बोधिमभिसम्बुध्य धर्मा न समीक्षिता इति प्रमाणपुरुषादर्शनकारणोपपत्त्या प्रमुदितभूम्यादौ विस्तरास्थानदेशनया चेति एभिराकारैर्यथाक्रमं सत्यानामुपलब्धौ निर्वेधभागीया उत्पद्यन्ते ।
3 - प्रत्येकबुद्धमार्गः
श्रावकमार्गानन्तरं प्रत्येकबुद्धानां मार्गाभिधाने न्यायप्राप्ते ऽपि श्रावकेभ्यः कथं प्रतिविशिष्टास्ते येन तेषां मार्गभेद इत्याशङ्क्य वैशिष्ट्यप्रतिपादनार्थं तावदाह -
परोपदेशवैयर्थ्यं स्वयम्बोधात् स्वयम्भुवाम् ।
गम्भीरता च ज्ञानस्य खड्गानामभिधीयते

2.7

इति । श्रावकाः परोपदेशसापेक्षाः स्वबोधिं बुध्यन्ते; सालापधर्मदेशनया च परानपि कुशले प्रवर्तयन्तीत्यागमः । प्रत्येकबुद्धाः पुनः स्वयं पूर्वश्रुताद्यभिसंस्कारेण परोपदेशं प्रत्यनपेक्षाः स्वबोधिसमधिगच्छन्त्यतस्तेषां बुद्धाद्युपदेशनैरर्थक्यमित्येकं वैशिष्ट्यम् । शब्दोच्चारणधर्मदेशनया श्रोतृभिः क्रियते वक्तृज्ञानसामर्थ्यावबोधः । ते (प्रत्येकबुद्धाः) पुनः अशब्दोच्चारणधर्मदेशनया स्वाधिगतज्ञानादिसामर्थ्येन परान् दशकुशलादौ प्रवर्तयन्त्यतस्तेषां ज्ञानस्यानवबोधतया द्वितीयं वैशिष्ट्यमिति ।
कथमशब्दोच्चारणधर्मदेशनेत्याशंक्याह -
शुश्रूषा यस्य यस्यार्थे यत्र यत्र यथा यथा ।
स सो ऽर्थः ख्यात्यशब्दो ऽपि तस्य तस्य तथा तथा

2.8

इति । नावितर्क्य नाविचार्य वाचं भाषत इत्यालापो विक्षेपः । स च सन्तानक्षोभमादधातीति यथा यथा बोधिसत्त्वेन ऽबुद्धो भूत्वा आलापमन्तरेण धर्मदेशनां कुर्याम्ऽ इति प्रणिधानं प्रवर्तितम्, तथा बुद्धत्वसाम्यात् प्रत्येकबुद्धावस्थायाञ्च प्रणिधानादिसामर्थ्येन यस्मिन्नर्थे येन प्रकारेण यस्य श्रवणेच्छा, तस्य विज्ञाने तेनैव प्रकारेण अशब्दो ऽपि सो ऽर्थः प्रतिभातीत्यशब्दधर्मदेशनोच्यते । इत्येवं वक्ष्यमाणधर्मस्य श्रोतृविज्ञाने सुनिर्माणमुत्पादश्चेत्ययं भवति धर्मदेशना शब्दार्थः ।
वैशिष्ट्यमेवमभिधाय विशिष्टानां विशिष्ट एव मार्ग इति प्रकृतप्रत्येकबुद्धमार्गमाह -
ग्राह्यार्थकल्पनाहानाद् ग्राहकस्याप्रहाणतः ।
आधारतश्च विज्ञेयः खड्गमार्गस्य सङ्ग्रहः

2.9

इत्युक्तम् । प्रत्येकबुद्धस्य मार्गः यथोक्तसत्यभावनया एव, यथाअवस्तु प्रतीत्यसमुत्पादभावनया च । ग्राह्यग्राहकार्थविकल्पयोर्यथाक्रमं प्रहाणाप्रहाणे प्रत्येकबुद्धयानसङ्गृहीताधारधर्मवस्तुनो विशेषविशिष्टधर्माधिगमश्च बोधिसत्त्वेन परिज्ञेयो न सर्वाकारज्ञानेनेति प्रत्येकबुद्धमार्गः ।
निर्वेधभागीयाधिगमे सति यथोक्तमार्ग उत्पद्यत इति निर्वेधभागीयमाह -
प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः ।
ऊष्मगं मूर्धंगं रूपाद्यहानादिप्रभावितम्

2.10

अध्यात्मशून्यताद्याभी रूपादेरपरिग्रहात् ।
क्षान्ती रूपाद्यनुत्पादाद्याकारैरग्रधर्मता

2.11

इति । रूपादिसाङ्केतिकधर्मप्रज्ञप्तेरविरोधेन धर्मतायाः प्रतिपादनेनः, रूपादेः परमार्थतो न हानिवृद्ध्याद्यर्थं शिक्षणेन, स्वभावशून्यत्वात् रूपादेरध्यात्मबहिर्धादिशून्यतया अपरिग्रहणेन, रूपादेरनुत्पादानिरोधाद्याकारैश्च यथाक्रमं चतुःसत्यालम्बने निर्वेधभागीयो भवति ।
4 - बोधिसत्त्वमार्गः
प्रत्येकबुद्धमार्गानन्तरं बोधिसत्त्वमार्गमाह -
क्षान्तिज्ञानक्षणैः सत्यं सत्यं प्रति चतुर्विधैः ।
मार्गज्ञतायां दृङ्मार्गः सानुशंसो ऽयमुच्यते

2.12

इति । मार्गज्ञताधिकारे बोधिसत्त्वेन धर्मज्ञानक्षान्तिर्धर्मज्ञानमन्वयज्ञानक्षान्तिरन्वयज्ञानं चेति चत्वारः क्षान्तिज्ञानक्षणाः प्रत्येकं दुःखादिसत्यसम्बन्धयुक्ता ऐहिकामुत्रिकैर्गुणैर्युक्ता विमावनीया इति दर्शनमार्गो महानुशंस इत्युच्यते ।
कथमाकारो भावनीय इत्याह -
आधाराधेयताभावात्तथताबुद्धयोर्मिथः ।
पर्यायेणाननुज्ञानं महत्ता सा ऽप्रमाणता

2.13

परिमाणान्तताभावो रूपादेरवधारणम् ।
तस्यां स्थितस्य बुद्धत्वे ऽनुद्ग्रहात्यागतादयः

2.14

मैत्र्यादि शून्यताप्राप्तिर्बुद्धत्वस्य परिग्रहः ।
सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम्

2.15

निर्वाणग्राहशान्तत्वं बुद्धेभ्यो रक्षणादिकम् ।
अप्राणिवधमारभ्य सर्वाकारज्ञतानये

2.16

स्वयं स्थितस्य सत्त्वानां स्थापनं परिणामनम् ।
दानादीनाञ्च सम्बोधाविति मार्गज्ञताक्षणाः

2.17

परमार्थतः तथताबुद्धयोराधाराधेयभावो न विद्यत इत्यतस्तयोः पर्यायेणावस्थितेरननुज्ञानम् । रूपादीनां धर्मधातुस्वभावतया महत्ता तथैव तेषामप्रमाणता । पूर्ववदाकाशापरिमाणतया तेषामपरिमाणतेत्येवं दुःखसत्याकारा भवन्ति ।
रूपादीनां निःस्वभावत्वेन शाश्वतोच्छेदाद्यन्ताभावः । प्रज्ञापारमितायां स्थितस्य धर्मधातुस्वभावतया रूपादीनां तथागतत्वावधारणम् । तथैव तस्यां स्थितस्य सर्वधर्माणां नोद्ग्रहत्यागभावनादिकम् । निःस्वभावाधिमोक्षपूर्वकं चतुरप्रमाणं विभावनीयमित्येवं समुदयसत्याकारा भवन्ति ।
रूपादेर्निजरूपा प्रकृत्यैव शून्यता । धर्मधातुपरिणामितकुशलमूलानां फलं तथागतत्वस्य प्रापणम् । प्रज्ञापारमितया सर्वाकारप्रतिपक्षाणां संग्रहः । तयैव बाह्याभ्यन्तरोपद्रवप्रशमनमित्येवं निरोधसत्याकारा भवन्ति ।
निःस्वभावताभावनयैव रूपादिनिर्वाणाभिनिवेशस्य शान्तिः । प्रज्ञोपायकौशलप्रवृत्तस्य बुद्धेभ्यो रक्षावरणगुप्तयो भवन्ति । बुद्धत्वाभिलाषिणा स्वयं प्राणातिपातविरत्यादिपूर्वकं सर्वाकारज्ञतायां स्थित्वा तत्रैव परेषां स्थापनम् । दानादीनामक्षयं कर्तुमिच्छता सम्यक्सम्बोधौ परिणामनमित्येवं मार्गसत्यस्याकारा भवन्ति । इत्येवमेव मार्गज्ञतायाः क्षणा भवन्ति ।
केचिदिह कारिकार्थोपलक्षणपरेण ग्रन्थेन आकारार्थमनुक्त्वा दर्शनमार्गषोडशक्षणोपलक्षणमेव केवलमनुकृतमिति वर्णयन्ति, एवमुक्तानुक्तनिर्वेधभागीयाद्यर्थकारिकास्वपि द्रष्टव्यमिति । तैर्भावनानुक्रमाद्यनिर्देशात् काचिदभिसमयानुपूर्वी न प्रतिपादिता । ऽआलम्बनमनित्यादि सत्याधारं तदाकृतिःऽ इत्यादिकारिकार्थश्च कथं व्याख्येय इत्यपरे ।
5 - भावनामार्गकारित्रम्
दर्शनमार्गानन्तरं भावनामार्गाभिधाने सति स्वल्पवक्तत्वेन फलनिम्नत्वेन च विनेयप्रवृत्तेः तत्कारित्रं तावत् -
सर्वतो दमनं नाअ सर्वतः क्लेशनिर्जयः ।
उपक्रमाविषह्यत्वं बोधिराधारपूज्यता

2.18

इत्युक्तम् । सर्वप्रकारचित्तस्वविधेयीकरणम्, कल्याणमित्रादिसर्वजननमनम्, रागाद्यभिभवः, परकृताघाताननुप्रतिपत्तेः अविषह्यत्वम्, सम्यक्सम्बोधिप्रतिपत्तिः, आधारविषयपूज्यताकारित्रञ्चेति षड्विधमेव कारित्रम् ।
सास्रवो भावनामार्गः
6 - भावनामार्गाधिमुक्तिः
कारित्रानन्तरं भावनामार्गः । स च सास्रवानास्रवभेदेन द्विविधः । अतः सास्रवभावनामार्गाधिमुक्तिपरिणामनानुमोदनामनस्कारेषु प्रथमं भावनामार्गाधिमुक्तिमनस्कारमाह -
अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका ।
परार्थिकैवेत्येषा च प्रत्येकं त्रिविधेष्यते

2.19

मृद्वी मध्याधिमात्रा च मृदुमृद्वादिभेदतः ।
सा पुनस्त्रिविधेत्येवं सप्तविंशतिधा मता

2.20

इति । स्वोभयपरार्थोपलम्भतया यथाधिमोक्षं दृष्टकुशलधर्मधिष्ठाना भावनामार्गाधिकारादादौ असाक्षात्क्रियारूपाधिमुक्तिः त्रिविधा सती प्रत्येकं मृद्वादिभेदेन त्रिविधा । एवमेषापि प्रत्येकं मृदुमृद्वादिभेदेन त्रिविधा । एवं नवभिस्त्रिभिरधिमुक्तिः सप्तविंशतिप्रकारा भवति ।
7 - भावनामार्गाधिमुक्तस्य स्तुतिः स्तोभः प्रशंसा च
तद्भावकबोधिसत्त्वस्योत्साहवर्धनाय तदधिमोक्षस्य स्त्युत्यादयो बुद्धादिभिः क्रियन्त इति स्तुतिं, स्तोभं प्रशंसाञ्चाह -
स्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति ।
अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते

2.21

इति । यथाधिमोक्षदृष्टधर्मलक्षणां प्रज्ञापारमितां प्रति प्रवृत्तस्याधिमोक्षमनस्कारस्य प्रथमद्वित्रिनवावस्थानां प्रत्येकं नवभिः प्रकारैरुत्तरोत्तराभिनन्दनं स्तुतिः स्तोभः प्रशंसा च इष्यते । अतस्ते स्तुत्यादयो यथाभूतार्थाधिगममात्रलक्षणा नार्थवादरूपाः ।
8 - परिणामना
एवमधिमोक्षस्य परिणामनासम्भवाद् द्वितीयं परिणामनामनस्कारमाह -
विशेषः परिणामस्तु तस्य कारित्रमुत्तमम् ।
नोपलम्भाकृतिश्चासावविपर्यासलक्षणः

2.22

विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः ।
सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः

2.23

त्रैधारुकाप्रपन्नश्च परिणामो ऽपरस्त्रिधा ।
मृदुर्मध्यो ऽधिमात्रश्च महापुण्योदयात्मकः

2.24

इति । यथोक्तो विशेषाधिमोक्षः, अनुपलम्भः, अविपर्यासः, विविक्तः, तथागतकुशलमूलौधस्वभावस्मृतिः, सोपायकौशलः, अनिमित्तः, बुद्धानुज्ञातः, त्रैधातुकाप्रपन्नः, मृदुमध्याधिमात्रश्च महापुण्योदय इत्येवमध्यारोपितमनस्कारा यथाक्रममनुत्तरसम्यक्सम्बोधिः शीलादिस्कन्ध-परिणामनाचित्त-आत्मादियुक्तवस्तु-त्रिकालबुद्धकुशल-दानादि-निमित्त-सर्वमार्ग-कामादिधातु-दशकुशलकर्मपथ-स्रोत-आपन्नाद्यनुत्तरसम्बोधिप्रस्थितानामनुपलब्धानामुपलम्भा इति त्रियानविनेयसत्त्वानां मार्गोपदेशहेतुभावव्यापारयुक्तैः सर्वसत्त्वार्थमक्षयाय चानुत्तरसम्यक्सम्बोधौ द्वादश परिणामनाः क्रियन्ते ।
9 - अनुमोदना
एवं परिणामयितवस्तु अभिवर्धयितव्यमिति तृतीयमनुमोदनामनस्कारमाह -
उपायानुपलम्भाभ्यां शुभमूलानुमोदना ।
अनुमोदे मनस्कारभावनेह विधीयते

2.25

इति । संवृत्युपायेन कुशलमूलान्युपलभ्य प्रमुदितचित्तेन परमार्थतो ऽनुपलम्भतयानुमोदनीयानीति ।
तत्रायं समासार्थः-आकरान्निष्कृष्टः स्वर्णपिण्ड इवाधिमोक्षमनस्कारः, स्वर्णकारेण ततो ऽलङ्कारकरणमिव सम्यक्सम्बोधेरङ्गकरणं परिणामनामनस्कारः, स्वपरपुण्यसमताप्राप्ति अनुमोदनामनस्कार इति ।
अनास्रवो भावनामार्गः
10 - अभिनिर्हारः
सास्रवानन्तरमनास्रवो भावनामार्गः । स च द्विविध इति प्रथममभिनिर्हारलक्षणं भावनामार्गमाह -
स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः ।
नोपलम्भेन धर्माणामर्पणा च महार्थता

2.26

इति । रूपाद्यविपरीतदर्शनं स्वभावः । नान्यथा बुद्धत्वसंप्राप्तिरिति श्रेष्ठता । सर्वधर्मविशेषानुत्पादनेन अधिगमप्रयोगो ऽनभिसंस्कारः । तादृशस्वभावादियुक्तमार्गधर्माणामनुपलम्भतया योगिसन्ताने समुत्पादनमर्पणा । बुद्धत्वमहार्थसाधनान्महार्थता ।
11 - अत्यन्तविशुद्धिः तदनन्तरं यः परिग्रहत्यागेन प्राप्स्यमानः कस्तस्योत्पादानुत्पादहेतुरिति आकांक्षानिरासद्वारेण द्वितीयमत्यन्तविशुद्धिलक्षणमाह -
बुद्धसेवा च दानादिरुपाये यच्च कौशलम् ।
हेतवो ऽत्राधिमोक्षस्य धर्मव्यसनहेतवः

2.27

माराधिष्ठानगम्भीरधर्मतानधिमुक्तते ।
स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः

2.28

इति । बुद्धसमाराधनम्, दानादिपारमितापरिपूरणम्, शमथकौशलञ्चेति उत्पादहेतवः ।
मारबाधितम्, गम्भीरधर्मानधिमोक्षः, भावग्रहः, पापमित्रसंगतिरिति अनुत्पादहेतवः ।
अधिगमानधिगमहेतूनेवमुक्त्वा प्रकृतस्य सामान्येन विशुद्धिमाह -
फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः ।
अभिन्नाच्छिन्नता यस्मादिति शुद्धिरूदीरिता

2.29

इति । आर्यपुद्गलस्य यत् श्रामण्यताफलं तस्य सर्वविपक्षरहितत्वेन या विशुद्धिः सैव रूपादिविशुद्धिः, फलरूपादिविशुद्धिः रूपादेरात्माभिनिवेशादिविगमात् । प्रभेदत्वेन यस्मात् तद्विशुद्धिः अभिन्ना अच्छिन्ना तस्मात् स्वसामान्यलक्षणनानात्वविरहाद् एवं विशुद्धिरभिधीयते ।
सामान्येन विशुद्धिमेवमभिधाय विशेषेणाह -
क्लेशज्ञेयत्रिमार्गस्य शिष्यखड्गजिनौरसाम् ।
हानाद्विशुद्धिरात्यन्तिकी तु बुद्धस्य सर्वथा

2.30

इति । रागादिक्लेशप्रहाणात्, एतस्य ज्ञेयावरणैकदेशग्राह्यविकल्पस्य च प्रहाणात्, यानत्रयमार्गावरणप्रहाणाद् यथाक्रमं श्रावक-प्रत्येकबुद्ध-बोधिसत्त्वानां शुद्धिर्भवति । सर्वथा सवासनक्लेशज्ञेयावरणप्रहाणात् धर्मधातूद्भवानुत्तरबुद्धानां विशुद्धिरिष्यते ।
मार्गज्ञताधिकारे विशुद्दिकथनप्रसङ्गादात्यन्तिकी चेतरा च बुद्धानां श्रावकादीनां च यथाक्रमं विशुद्धिः । सः कथमित्याह -
मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु ।
अधिमात्राधिमात्रादेर्मलस्य प्रतिपक्षतः

2.31

इति । कारधातुध्यानारूप्यसमापत्तय इति नवभूमिष्वधिमात्रादिनवप्रकारविपक्षस्य प्रतिपक्षभावेन मृदुमृद्वादिमार्गो यथाक्रमं नवप्रकारः । सर्वथान्यथा च विशुद्धिहेतुत्वादात्यन्तिकी चेतरा च विशुद्धिरिति ।
कथमात्यन्तिकीत्याह -
त्रिधातुप्रतिपक्षत्वं समता मानमेययोः ।
मार्गस्य चेष्यते तस्य चोद्यस्य परिहारतः

मूल पाठ: Abhisamayālaṃkāravṛttiḥ sphuṭārthā · Edition: Ram Shankar Tripathi: Abhisamayalankaravrti sputartha. Sarnath: Central Institute of Higher Tibetan Studies, 1977, pp. 3-44. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc