अभिसमयालंकारवृत्तिः स्फुटार्था · अध्याय 1
आर्यमैत्रेयः सदाचारानुवृत्तिमात्मनः प्रख्यापयन् स्वप्रतिसंविज्ज्ञानेन प्रज्ञापारमिताविषयकः प्रसाद एव सर्वश्रेयः प्राप्तिप्रधानहेतुरित्यवधृत्य परं निरतिशयानन्तगुणरत्नाकरभगवत्यां प्रवर्तयितुं प्रसादोत्पादनाय तावदादौ यथागुणाभिधानपुरःसुरं जननीं नमस्कुर्वन्नाह -
या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान्
या मार्गज्ञतया जगद्धितकृतां लोकार्थसम्पादिका ।
सर्वाकारमिदं वदन्ति मुनयो विश्वं यया संगतास्
तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः
अनया कारिकया अस्याः अतिशयमाहात्म्यवत्त्वम् अमिहितम् । तच्छ्रुत्वा तावच्छ्रद्धानुसारिणः अस्यां निःसंशयमचिरेण श्रद्धामुत्पादयन्ति । धर्मानुसारिणो ऽपि एकानेकस्वभाववियुक्तत्वादित्यादिप्रमाणेन अनुत्पन्नवस्तुमार्गाकारपरिज्ञानकारिकार्थलक्षणजनन्यां बाधाम् अदृष्ट्वा त्रिसर्वज्ञतास्वरूपत्रयात्मिका बुद्धादिनिर्मात्री प्रज्ञापारमितावश्यमेव सम्भविनीत्यवधृत्य तस्यां प्रसादमुत्पादयन्ति । तस्यां प्रसादेन तद्गुणाभिलाषिणः उभयविधा अपि पुद्गलाः तत्तदाश्रितप्रवचनधारणाद्यर्थं सर्वथा अत्यन्तमाद्रियन्ते । ततः श्रुतमयादिज्ञानोत्पादक्रमेण सुश्रेयो ऽधिगताःभवन्ति । अत एव भगवत्यां प्रदास एव सर्वश्रेयो ऽधिगमहेतुः ।
तत्र तिसृभिः सर्वज्ञताभिरष्टावर्थाः सङ्गृहीता भवन्ति । ताभिश्च वक्षमाणविधिना सर्वार्थाः सम्पत्स्यन्त इति मनसि निधाय त्रिसर्वज्ञताभिः प्रज्ञापारमितां स्तौति । श्रावकः, तत्पक्षनिक्षिप्तः किञ्चिद्विमोक्षाधिकः एकक्रम निर्दिष्टः प्रत्येकबुद्धश्च निर्वाणभिलाषिणौ, तयो अनुत्पन्नसर्ववस्तुज्ञतया सोपधिनिरुपधिलक्षणद्विविधनिर्वाणप्रापिका या, यावत्संसारं जगद्धितकृतां बोधिसत्त्वानामनुत्पन्नसर्वमार्गज्ञतया सर्वलोकार्थसम्पादिका या, अनुत्पन्नसर्वाकारज्ञतया यया सङ्गताः संयतकायाः प्रधानयोगीश्वरा बुद्धाः सर्वथा चरितप्रतिपक्षसर्वधर्मचक्रान् प्रवर्तयन्ति । तस्यै श्रावकादिपरिवृतबुद्धानामुत्पायित्र्यै मात्रे नमः । एवं नमस्कारस्तुतिपूवकेणाभिसमयालङ्कारशास्त्रेण वस्तुप्रतिपक्षाकारेषु कस्मिंश्चिदेकस्मिन् (पक्षे) संगृहीते, प्रथमपक्षे तावत्तदर्थपरिश्रमवैयर्थ्यम् । तथा हि न हि तदस्ति इह प्रज्ञापारमितायां वस्तुजातं यन्न लक्षणशास्त्रेषु उक्तपूर्वम् । द्वितीये व्यवदानवस्तु (मात्र) सङ्ग्रहात् सांक्लेशिकवस्त्वसंग्रहाच्च न ज्ञायते कस्यायं प्रतिपक्ष इति । तृतीते निर्वस्तुकाकारमात्रसंग्रहादर्थाधिगमशून्यादिह किञ्चिदपि नोक्तमिति व्यर्थ एव (शास्त्ररचनायासः) इति नापरे शङ्किष्यन्ते किम् इति चेत्? तन्नः, यतो हि यथाक्रमं श्रावकप्रत्येकबुद्धबोधिसत्त्वानुत्तरबुद्धानां त्रिसर्वज्ञतायां समस्ताभिसमयानां संग्रहणेन पक्षत्रयस्यापि संगृहीतत्वात् ।
यथा मध्यमजिनजनन्यां - "सुभूते श्रावकप्रत्येकबुद्धयोः सर्वज्ञता, बोधिसत्त्वानां मार्गज्ञता, तथागतार्हत्सम्यक्सम्बुद्धानां सर्वाकारज्ञता । भगवन् किमर्थं सर्वज्ञता श्रावकप्रत्येकबुद्धयोः? सुभूते सर्वे हि यावन्तो बाह्याभ्यन्तरधर्माः, तावत एव श्रावकप्रत्येकबुद्धा जानन्ति, न तु मार्गेण, नापि सर्वाकारेण, अतः सर्वज्ञता श्रावकप्रत्येकबुद्धयोरिति । भगवन्, किमर्थं मार्गज्ञता बोधिसत्त्वानाम्? सुभूते बोधिसत्त्वैः, यं श्रावकस्य मार्गः, याः प्रत्येकबुद्धस्य मार्गः, यो बुद्धस्य मार्गः सर्वे मार्गा उत्पाद्यन्ते ज्ञायन्ते च । ते ऽपि परिपूर्यन्ते, तेषां मार्गाणां क्रियापि क्रियते । न यावत् प्रणिधानपरिसमाप्तिः, सत्त्वपरिपाकः, बुद्धक्षेत्रपरिशुद्धिर्वा क्रियते, न तावत्तेषां सम्यग्भूतान्तसाक्षात्कारः, अतः मार्गज्ञता बोधिसत्त्वानाम् । भगवन्, किमर्थं सर्वाकारज्ञता तथागतस्यार्हतः सम्यक्सम्बुद्धस्य? सुभूते, येन आकारेण, येन लिङ्गेन, येन निमित्तेन प्रख्याता धर्माः, तमाकारं तल्लिङ्गं तन्निमित्तं तथागता अवगच्छन्ति, अतः तथागतस्य अर्हतः सम्यक्सम्बुद्धस्य सर्वाकारज्ञतेति । "एवं संक्षिप्तायामपि (जिनजनन्यां) - "श्रावकभूमावपि शिक्षितुकामेनापि" इत्यादिकमाह । विस्तृतायामपि विस्तरेणाभिहितम् ।
तत्र सर्वज्ञता हि रूपादिधर्मानित्यताद्यधिष्ठाना आत्ममोहप्रहाणफला; मार्गज्ञता सर्वयाननिर्याणा तत्त्वासाक्षात्काराधिष्ठाना असंगृहीतसत्त्वसंग्रहादिफलाः; सर्वाकारज्ञता सर्वधर्मानुत्पादाधिष्ठाना आकाशधातुपर्यन्ताविच्छिन्नसत्त्वार्थफला भूतान्ताधिगमवासनाप्रतिसन्धिप्रहाणात्मिका ।
इत्थमभिसमयालङ्कारे सर्ववस्तुप्रतिपक्षाकारसंग्रहणेनाशेषाभिसमयनिर्देशः कृत इतीदमुपपद्यते ।
ग्रन्थारम्भप्रयोजनम्
मन्दधीजनानां तु विस्तृतमध्मसंक्षिप्तासु भगवतीषु (संक्षिप्तमध्यविस्तृत) रुचिसम्पन्नसत्त्वहितेच्छया करुणामयेन तत्तज्जिनजनन्यां सकलप्रज्ञापारमितार्थाष्टाभिसमयक्रमो देशित एव, भगवत आर्याजितजिनस्य तन्निदर्शने किं प्रयोजनमितिशङ्कानिराकरणार्थसन्देहोत्पादनेन प्रवृत्त्यङ्गं स्वीयशास्त्राभिधेयप्रयोजनप्रयोजनप्रयोजनान्तर्भूतसम्बन्धांश्च प्रदर्शयन्नाह -
सर्वाकारज्ञतामार्गंः शासित्रा यो ऽत्र देशितः ।
धीमन्तो वीक्षिषीरंस्तमनालीढं परैरिति
स्मृतौ चाधाय सूत्रार्थं धर्मचर्यां दशात्मिकाम् ।
सुखेन प्रतिपत्सीरन्नित्यारम्भप्रयोजनम्
इति । सर्वाकारज्ञतैव हि बुद्धत्वमार्ग इति सर्वेषामभिसमयानामुपलक्षणत्वात्तस्यामेव तात्पर्यम् । त्रिप्रातिहार्यैः सकलजनानुशासकेन भगवता जिनजननीत्रये यो ऽभिधेयो देशितः, स अभिधानाभिधेयोपायोपेयप्रतिपत्तिरूपेण सम्बद्धः, बाह्येतरवीतरागादिभिः सर्वधर्मनैरात्म्यानभ्यस्तैः श्रुतमयादिप्रज्ञाक्रमेणानालीढ इति सुव्यवस्थापिते वासनासम्भूतस्मृतिज्ञाने बोधिचित्तदानप्रतिपत्त्याचारमष्टाभिसमयात्मकमशेषप्रज्ञापारमितासूत्रार्थं सम्यगाधाय सर्वत्रगधर्मधात्वधिगमलक्षणप्रमुदितभूम्याद्यधिगमक्रमेण सर्वाकारं साक्षात्कुर्यादिति प्रयोजनप्रयोजनाय विनेया अभिलषितप्रज्ञापारमितार्थबोधिचित्तप्रतिपत्त्यादिलक्षणानि सुखेन प्रतिपत्सीरन्निति शास्त्रारम्भप्रयोजनम् ॥
प्रज्ञापारमितायाः कायिकव्यवस्थापनम्
एवं सम्बन्धादीन् व्याहृत्य विनेयानां सुखेन प्रतिपत्तये सुप्रविभक्तस्यापि शास्त्रार्थस्य असंलुलितत्वेन व्याख्यानसौकर्यमवलोक्य पञ्चदशभिः कारिकाभिः समासव्यासनिर्देशेन प्रज्ञापारमितायाः कायिकव्यवस्थापनमाह -
प्रज्ञापारमिताष्टाभिः पदार्थैः समुदीरिता ।
सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता ततः
सर्वाकाराभिसम्बोधो मूर्धप्राप्तो ऽनुपूर्विकः ।
एकक्षणाभिसम्बोधो धर्मकायश्च ते ऽष्टधा
चित्तोत्पादो ऽववादश्च निर्वेधाङ्गं चतुर्विधम् ।
आधारः प्रतिपत्तेश्च धर्मधातुस्वभावकः
आलम्बनं समुद्देशः सन्नाहप्रस्थितिक्रिये ।
सम्भाराश्च सनिर्याणाः सर्वाकारज्ञता मुनेः
श्यामीकरणतादीनि शिष्यखड्गपथौ च यौ ।
महानुशंसो दृङ्मार्ग ऐहिकामुत्रिकैर्गुणैः
कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसिताः ।
परिणामे ऽनुमोदे च मनस्कारावनुत्तमौ
निर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः ।
विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता
प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः ।
अनुपायेन दूरत्वपायेनाविदूरता
विपक्षप्रतिपक्षौ च प्रयोगः समतास्य च ।
दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते
आकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः ।
मोक्षनिर्वेधभागीये शैक्षो ऽवैवर्तिको गणः
समताभवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा ।
सर्वाकाराभिसम्बोध एष सोपायकौशलः
लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः ।
चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः
प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि ।
आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः
मूर्धाभिसमयस्त्रेधा दशधा चानुपूर्विकः ।
एकक्षणाभिसम्बोधो लक्षणेन चतुर्विधः
स्वाभाविकः ससांभोगो नैर्याणिको ऽपरस्तथा ।
धर्मकायः सकारित्रश्चतुर्धा समुदीरितः
इति । तत्र प्रथमकारिकाद्वयेन अष्टवस्तूनां संग्रहात् समासनिर्देशः, ततः त्रयोदशकारिकाभिः तस्यैवार्थं संगृह्य विस्तरेण व्याख्यानं भवति । इत्थं संक्षेपविस्तराभ्यां भाषितत्वेन सुभाषितम् । पिण्डार्थकारिकाणामेव शास्त्रप्रणेत्रा ऽचित्तोत्पादः परार्थायऽ - इत्यादिवक्ष्यमाणसकलशास्त्रेण व्याख्यास्यमानत्वात् तद्व्याख्यानेनैव व्याख्यानं सञ्चिन्त्य वीप्साभयेन नात्रैता व्याख्याताः ।
सर्वाकारज्ञता
1 चित्तोत्पादः
इत्थं सकलपिण्डार्थ निर्दिश्य बोधिं प्राप्तुकामैर्बोधिसत्त्वैः फलभूतत्वात् सर्वाकारज्ञताधिगन्तव्येत्यादौ सर्वाकारज्ञतासंग्रहकारिकां व्याख्यातुकामः सालम्बनं चित्तोत्पादस्वरूपमाह -
चित्तोत्पादः परार्थाय सम्यक्सम्बोधिकामता ।
बुद्धो भूत्वा यथाभव्यतया परार्थं प्रति यत्नं कुर्यामिति परार्थाय सम्यक्सम्बोध्यधिकामतालक्षणः प्रणिधिप्रस्थानस्वभावो द्विविधश्चित्तोत्पादः । सम्यक्सम्बोधिकामता च तत्प्रार्थना कुशलो धर्मच्छन्दश्चैतसिकः । विशिष्टविषयप्रतिभासमुत्पद्यमानं चित्तं "चित्तोत्पादः" इति कथं स (चैतसिकः) चित्तोत्पादो भवेत्? सत्यमेतत् । किन्तु कुशलधर्मच्छन्दलक्षणायां प्रार्थनायां सत्यां बोधिचित्तमुत्पद्यत इति कारणेनात्र कार्यं निर्दिष्टमेवं प्रार्थयितुः बोधिसत्त्वस्य सर्वे कुशला धर्मा वृद्धिं यान्तीति ज्ञापनाय चोपचारः समाश्रित इत्यदोषः । अन्यप्रकारेण प्रणिधानं प्रार्थना वा सम्यक्सम्बोधिकामता तत्सहचरितचित्तोत्पादः प्रार्थनयातिदिश्यते । एवञ्च प्रणिधानसहगतं तच्चित्तमुत्पद्यत इति ज्ञापनाय वा ॥
केयं सम्यक्संबोधिः? कश्च परार्थो यत्कामतात्मको यदर्थश्चित्तोत्पाद इति चेत्? उच्यते -
समासव्यासतः सा च यथासूत्रं स चोच्यते
तिसृष्वपि जिनजननीषु प्रज्ञापारमितायां दानादौ च देयदायकप्रतिग्राहकाद्यनुपलब्धिः प्रतिपत्तव्येति ज्ञापनार्थकेन; यथाभव्यसर्वसत्त्वान् निर्वाणे, मत्सरिणश्च दानादौ प्रतिष्ठापयितुकामेनास्यां प्रज्ञापारमितायां प्रतिपत्तव्यमितिप्रदर्शनपरेण वचनेन (वाक्येन) सूत्रार्थाविरुद्धेन समासव्यासतः परार्था सम्यक्सम्बोधिः निर्दिष्टा । इत्थं ऽचित्तोत्पादः परार्थाय सम्यक्सम्बोधिकामताऽ ज्ञातव्या । सर्वाकरग्रन्थतात्पर्यार्थनिर्देशावसरे सर्वं कथितं तथापि बहुवक्तव्यमाशङ्क्य न (अत्र प्रधानतः) समुल्लिखितम् ।
एवं सालम्बनं चित्तोत्पादस्वरूपमभिधायेदानीं तस्य द्वाविंशतिप्रभेदान् द्वाभ्यामन्तरश्लोकाभ्यामाह -
भूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवैः ।
वज्राचलौषधीमित्रैश्चिन्तामण्यर्कगीतिभिः
नृपगञ्जमहामार्गयानप्रस्रवणोदकैः ।
आनन्दोक्तिनदीमैघैर्द्वाविंशतिविधः स च
छन्द-आशय-अध्याशय-प्रयोग-दान-शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञा-उपाय-कौशल-प्रणिधान-बल-ज्ञान-अभिज्ञा-पुण्यज्ञान-बोधिपक्षानुकूलधर्म-करुणाविपश्यना-धारणीप्रतिभान-धर्मोत्सव-एकयान-धर्मकायैः सहगतः (चित्तोत्पादः) यथाक्रमं पृथिवी-कल्याणसुवर्ण-शुक्लपक्षवनचन्द्र-ज्वलन-महानिधान-रत्नाकर-महार्णव-वज्रपर्वतराज-भैषज्य-कल्याणमित्र-चिन्तामणि-आदित्य-धर्ममधुरसंगीति-महाराज-कोष्ठागार-महामार्ग-यान प्रस्रवणोदक-आनन्दोक्ति-नदीधारा-मेघैः-सदृशः; सर्वशुक्लधर्मप्रतिष्ठाभूतत्वात्, बोधिपर्यान्ताविकारित्वात्, सकलशुक्लधर्मविवृद्धिगमनात्, त्रिसर्वज्ञतावरणेन्धनदाहकत्वात्, सर्वसत्त्वसंतर्पणात्, गुणरत्नानामाश्रयभावात्, सर्वानिष्टोपनिपातैरक्षोभ्यत्वात्, संप्रत्ययदार्ढ्येनाभेद्यत्वात्, आलम्बनविक्षेपेणानिष्कम्प्यत्वात्, क्लेशज्ञेयावरणव्याधिप्रशमनात्, सर्वावस्थासु सत्त्वार्थापरित्यागात्, यथाप्रणिधानं फलसमृद्धेः, विनेयजनस्य परिपाचनात्, विनेयावर्जन करधर्मदेशकत्वात्, अव्याहतप्रभावत्वेन परार्थानुष्ठानात्, बहुपुण्यज्ञानसंभारकोशस्थानत्वात्, सर्वार्ययातानुयातत्वात्, संसारनिर्वाणान्यतरापातेन सुखसंवाहनात्, श्रुताश्रुतधर्मधारणादक्षयत्वात्, मोक्षकामानां विनेयानां प्रियश्रावणात्, असंभिन्न-ः परकार्यक्रियात्वात्, तुषितभवनवासादिसन्दर्शनयोग्यत्वात् यथासंख्यं भवति । इत्येवं ऽभूहेमचन्द्रज्वलनैतिरऽ त्यादिभिः द्वाविंशतिश्चित्तोत्पादा व्याख्याताः ।
तत्र प्रथमास्त्रयो मृदुमध्याधिमात्रतयादिकर्मिकभूमिसङ्गृहीताः । ततः एकः प्रथमभूमिप्रवेशमार्गसङ्गृहीतः । तदन्तरं दश प्रमुदितादिदशभूमिसङ्गृहीता दर्शनभावनामार्गगोचराः । ततः पञ्च विशेषमार्गसङ्गृहीताः । तदन्तरं त्रयं चित्तोत्पादाः प्रयोगमौलपृष्ठद्वारेण बुद्धभूमिसङ्गृहीताः । इति चित्तोत्पादभेदः आदिकर्मिकभूमिमारभ्य यावद् बुद्धभूमि सङ्गृहीतः ।
2 - अववादः
प्रसङ्गागत (चित्तोत्पाद)-भेदमभिधाय उत्पादितप्रथमादिबोधिचित्ताय यथाकालं बोधिसत्त्वाय प्रार्थितार्थबोधिचित्तोत्पादाय तदाक्षिप्तधर्मसिद्धये प्राप्तगुणपरिरक्षणेनाभिवृद्धये चोपदेशो ऽववाद इत्यत आह -
प्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु ।
असक्तावपरिश्रान्तौ प्रतिपत्सम्परिग्रहे
चक्षुःषु पञ्चसु ज्ञेयः षड्स्वभिज्ञागुणेषु च ।
दृङ्मार्गे भावनाख्ये चेत्यववादो दशात्मकः
यथोक्तप्रभेदबोधिचित्तप्रतिपत्तौ संवृतिपरमार्थसत्यानतिक्रमेण श्रावकाद्यसाधारणतयाऽनुपलम्भयोगेन वर्तनमिति शिक्षणं प्रतिपत्त्यववादः ।
दुःखे फलभूतरूपादिशून्यताप्रज्ञापारमितयोस्तथतारूपत्वादैकात्म्यमिति । समुदये शून्यताहेतुभूतरूपाद्योरव्यतिरिक्तत्वेन रूपादिर्न समुदयनिरोधसंक्लेशव्यवदानधर्मी इति । निरोधे शून्यतायामुत्पादनिरोधसंक्लेशव्यवदानहानिवृद्ध्यादिरहितायान्न रूपं यावन्नाविद्योत्पादो नाविद्यानिरोधो न बुद्धो बोधिरिति । मार्गे दानादिपारमिताभिरात्मनो ऽध्यात्मशून्यतादीनां बहिर्धाशून्यतादिभिः पूर्वान्तापरान्तयोश्च परस्परं न युक्तायुक्तत्वेन प्रतिपत्तिरित्युपदेशः सत्याववादः ।
बुद्धे बुद्धबोध्योरेकत्वलक्षणत्वेन बुद्धकरधर्मलक्षणसर्वाकारज्ञताया अनुपलम्भे रूपाद्ययोजनेनालम्ब्यालम्बकसमताज्ञानमिति । धर्मे त्रिसर्वज्ञतासंगृहीतसमस्तवस्तुप्रतिपक्षाकारसङ्ग्रहैः सर्वधर्माणां सङ्गृहीतानां निःस्वभावतेति । संघे बुद्धरत्नान्तर्गतत्वेनार्हद्वर्ज्येषु फलस्थप्रतिपन्नकभेदेन सप्तसु महापुरुषेषु प्रत्येकबुद्धेन सहाष्टासु मृद्विन्द्रियादिभेदेन विंशतिसंख्यावच्छिन्नेष्यार्यावैवर्त्तिकबोधिसत्त्वशैक्षेष्वनुत्पादतया प्रवृत्तिरित्युपदेशो रत्नत्रयाववादः ।
आरब्धवीर्यतया यथोक्तार्थानुष्ठानं प्रति कायादिसुखल्लिकत्वेन कस्यचिदभिनिवेशः स्यादित्यसक्तौ कायादीनामस्वभावतया देशनाववादः ।
चिरतरकालाभ्यासेनापि समीहितार्थानिष्पत्तावुत्त्रसनजातीयस्य परिखेदः स्यादित्यपरिश्रान्तौ रूपादेर्यावत् सम्यक्सम्बोधेरमननतया देशनाववादः ।
दशदिगवस्थितबुद्धादिभ्यः प्रत्यर्थं मार्गोपदेशे गृह्यमाणे चित्तावलीनता स्यादिति प्रतिपत्सम्परिग्रहे धर्माणां प्रकृत्यजातत्वेन शिक्षणमववादः । मांसवैपाकिकदिव्यप्रज्ञाधर्मबुद्धचक्षुषां यथासंख्यं प्रतिनियतवस्तुसर्वसत्त्वच्युत्युपपत्तिसर्वधर्माविकल्पानां सर्वार्यपुद्गलाधिगमसर्वाकारसर्वधर्माभिसम्बोधविषयाणां तथतयैकत्वेन प्रतिपत्तिरिति शिक्षणं पञ्चचक्षुरववादः ।
ऋद्धिदिव्यश्रोत्रपरचित्तज्ञानपूर्वनिवासानुस्मृत्यभिसंस्कारिकदिव्यचक्षुरास्रवक्षयज्ञानाभिज्ञानां पृथिवीकम्पनादिसर्वलोकधातुस्थसूक्ष्मतरशब्दश्रवणसरागादिपरचित्तपरिज्ञानस्वपर-पूर्वानेकजात्यनुस्मरणसर्वरूपदर्शनक्लेशज्ञेयावरणप्रहाणकारित्राणामादिशान्तत्वेनावबोध इति देशना षडभिज्ञाववादः । चतुःसत्यसङ्गृहीतषोडशक्षणस्वभावं दर्शनमार्गं धर्मान्वयज्ञानक्षान्तिज्ञानात्मकं सर्वधर्मनिःस्वभावबोधेन मायाकार इव सर्वत्रानभिनिविष्टमूर्तिस्तत्प्रहातव्यवस्तुप्रतिपक्षत्वेन योगी विभावयतीति देशना दर्शनमार्गाववादः ।
संस्कृतासंस्कृतयोरेकरूपत्वेन परस्परमशक्यव्यतिरेकप्रज्ञप्तिवद् यथोक्तदर्शनमार्गसंमुखीकृतवस्त्वव्यतिरेकालम्बनाद् दर्शनभावनयोरपृथग्भाव इति न लाक्षणिकं भावनामार्गव्यवस्थानम्, अथ च स तत्प्रहातव्यवस्तुप्रतिपक्षत्वेन विभाव्यते प्रतीत्यसमुत्पादधर्मतयेति देशना भावनामार्गाववाद इत्येवं बोधिचित्ततदाक्षित्पधर्मस्वभावप्रज्ञापारमितायां या प्रतिपत्तिरनुपलम्भाकारा, तस्या यदालम्बनं चत्वार्यसत्यानि, य आश्रयस्त्रीणि शरणानि, यो विशेषगमनहेतुरसक्तिः, यो ऽव्यावृत्तिगमनहेतुपरिश्रान्तिः, यो ऽनन्ययानगमनहेतुः प्रतिपत्संपरिग्रहः, यो ऽपरप्रत्यगामित्वहेतुः पञ्च चक्षूंषिः, यः सर्वाकारज्ञतापरिपूरिहेतुः षडभिज्ञाः, यौ निष्ठाहेतू दर्शनभावनामार्गौ, तत्सर्वमववादप्रकरणे निर्दिष्टमेतावतैव सर्वो ऽर्थः सम्पन्न इति दशविधो ऽववादः ।
संघरत्नाधिकारे तत्सुबोधाय द्वौ अन्तरश्लोकौ इत्याह -
मृदुतीक्ष्णेन्द्रियै श्रद्धादृष्टिप्राप्तौ कुलङ्कुलौ ।
एकवीच्यन्तरोत्पद्य काराकाराकनिष्ठगाः
प्लुतास्त्रयो भवस्याग्रपरमो रूपरागहा ।
दृष्टधर्मशमः कायसाक्षी खड्गश्च विंशतिः
वक्ष्यमाणमार्गज्ञतासङ्गृहीतषोडशक्षणदर्शनमार्गम् आश्रित्य श्रद्धाधर्मानुसारिभेदेन प्रथमफलप्रतिपन्नको द्विविधः । ततः स्रोत आपन्नः । ततो देवमनुष्यकुलंकुलत्वेन स एवान्यो द्विविधः । ततो द्वितीयफलप्रतिपन्नको मृदुतीक्ष्णेन्द्रिय एवैकः श्रद्धादृष्टिप्राप्तः । ततः सकृदागामी । ततः स एकवीचिको ऽपरः । ततं तृतीयफलप्रतिपन्नकः पूर्ववच्छद्धादृष्टिप्राप्तः । ततः अनागामी अन्तराभवे उपपद्य, अभिसंस्कारे अनभिसंस्कारे च परिनिर्वायीति चतुर्धा । ततं एवाकनिष्ठगः प्लुतार्धप्लुतसर्वस्थानच्युतत्वेनोर्ध्वावक्रान्तापरस्त्रिविधः । ततः स एव भवाग्रगस्तु रूपवीतरागो दृष्टधर्मशमः कायसाक्षीति अपरो द्विविधः । ततो ऽर्हत्त्वफलप्रतिपन्नकः । ततः प्रत्येकबुद्ध इति विंशतिः ।
3 - निर्वेधाङ्गम्
लब्धाववादस्यैवमादिकर्मिकस्य निर्वेधाङ्गभवनमिति निर्वेधाङ्गमाह -
आलम्बनत आकाराद्धेतुत्वात्सम्परिग्रहात् ।
चतुर्विकल्पसंयोगं यथास्वं भजतां सताम्
श्रावकेभ्यः सखड्गेभ्यो बोधिसत्त्वस्य तायिनः ।
मृदुमध्याधिमात्राणामूष्मादीनां विशिष्टता
बोधिसत्त्वानां श्रुतादिप्रकर्षप्राप्तमोक्षभागीयश्रद्धादिलक्षणकुशलमूलादूर्ध्वं चतुःसत्यप्रतिवेधानुकूलानि च चतुर्निर्वेधभागीयानि लौकिकभावनामयानि ऊष्मप्राप्त इति कुशलमूलम्, ततो मूर्धप्राप्तः, ततः क्षान्तिप्राप्तः, ततो ऽग्रधर्म इति मृद्वादिक्रमेण उत्पादो ऽथवा बोधिसत्त्वसम्बद्धमृद्विन्द्रियादिपुद्गलभेदेन वक्ष्यमाणमृदुमध्याधिमात्रालम्बनविशिष्टवस्त्वात्मकचतुःसत्यालम्बनधर्मदर्शन-प्रतिपक्षत्वेनानभिनिवेशाद्याकारविशेषात् यानत्रयाधिगमहेतुत्वविशेषादुपायकौशलकल्याणमित्रलक्षणसम्परिग्रहाद् दर्शनभावनामार्गाभ्यां प्रहातव्या ग्राह्यग्राहकचतुर्विकल्पाः वक्षमाणनयसम्बन्धेनोत्पन्नाः श्रावकादीनामूष्मादिभ्यो विशिष्टाः । तेषामूष्मादिकुशलमूलं न्याये रूपणादिलक्षणवस्त्वात्मकचतुःसत्यालम्बनमात्मदर्शनप्रतिपक्षत्वेनानित्याद्याकारप्रतिपन्नं स्वयानाधिगमहेतुभूतं सम्परिग्रहरहितं, चतुर्विधो विकल्पो ऽसंसृष्टो भवतीति व्यवस्थापनात् । बोधिसत्त्वानां निर्वेधभागीयानि उपायकौशलबलेन क्वचित् हेतुना, क्वचित् फलेन, क्वचित् स्वरूपतया, क्वचिद् धर्मताकारेण यथाभव्यतया चतुःसत्यवस्त्वालम्बनमिति वेदितव्यम् । संक्षिप्तव्याख्यामात्रं वक्तुकामेन न प्रपञ्चितम् । यत इदमेव व्यवस्थापनं ह्यतो ऽन्ययानमाश्रित्य कुत्रापि दूषणं नाभिधातव्यम् ।
आलम्बनाकारयोः का विशेषता इत्यत आलम्बनाकारौ सप्तमिः अन्तरश्लोकैराह -
आलम्बनमनित्यादि सत्याधारं तदाकृतिः ।
निषेधो ऽभिनिवेशादेर्हेतुर्यानत्रयाप्तये
रूपाद्यायव्ययौ विष्ठास्थिती प्रज्ञप्त्यवाच्यते ।
तत्र मृदुन अनित्यादिषोडशाकारं दुःखादिचतुःसत्याधारमालम्बनम् । दुःखादिसत्याभिनिवेशालम्बनादीनां निषेधः तदाकृतिः । यानत्रयाधिगमप्राप्तये हेतुभावः सर्वेषामेवोष्मादीनां वेदितव्यः ।
अधिमुक्तिना तत्त्वमनस्कारेण च यथासंख्यं रूपादीनां प्रतिपत्तेः निषेधस्य चानुपलम्भनं न समनुदर्शनमिति मध्यस्यालम्बनम् ।
सर्वनामधेयाभावेन प्रबन्धविसदृशप्रबन्धसदृशप्रवृत्तिलक्षणयोरभाव इत्याकृतिः ।
रूपमारभ्य यावद्बुद्ध इति सर्वधर्मसाङ्केतिको व्यावहारिकधर्म इत्यधिमात्रस्यालम्बनम् । कुशलादिधर्मता न केनचिद् वचनीया इत्याकृतिः । इत्यालम्बनाकारवन्निर्विकल्पज्ञानाग्नेः पूर्वरूपत्वादूष्मगतं त्रिविधम् ।
रूपादावस्थितिस्तेषां तद्भावेनास्वभावता
तयोर्मिथःस्वभावत्वं तदनित्याद्यसंस्थितिः ।
तासां तद्भावशून्यत्वं मिथः स्वाभाव्यमेतयोः
अनुद्ग्रहो यो धर्माणां तन्निमित्तासमीक्षणम् ।
परीक्षणञ्च प्रज्ञायाः सर्वंस्यानुपलम्भतः
इति । अत्र स्वभावशून्यतया रूपादीनां रूपादिस्वभावेनापगतस्वभावता, ततः रूपाद्यस्थानमिति मृदुन आलम्बनम् । परमार्थेन रूपादिसर्वधर्मशून्यतयोः परस्परमेकं रूपमिति शून्यतायामनित्यत्वादीनामभावेन रूपादौ न नित्यानित्यादिभिः स्थानमित्याकारः ।
धर्मधातुरूपतयानित्यादिशून्यतानां स्वनिःस्वभावत्वादनित्यादिशून्यतानां परस्परमैकात्म्यमिति मध्यस्यालम्बनम् । यं स्वभावप्रतिषेधेनास्वीकारो रूपादीनां स आकार इति ।
स्वभावाभावतयैव नीलादिनिमित्तादर्शनं रूपादीनामिति अधिमात्रस्यालम्बनम् । सम्यग्धर्मप्रविचयत्वेन प्रज्ञायाः सर्ववस्तुनो ऽनुपलम्भतया निरूपणमित्याकारः । इत्यालम्बनाकारवच्चलकुशलमूलमूर्धत्वान्मूर्धगतं त्रिविधम् ।
रूपादेरस्वभावत्वं तदभावस्वभावता ।
तदजातिरनिर्याणं शुद्धिस्तदनिमित्तता
तन्निमित्तानधिष्ठानानधिमुक्तिरसंज्ञतां ।
इति । अत्र शून्यता रूपलक्ष्यलक्षणयोरेकत्वेनास्वभावो रूपादीनामिति मृदुन आलम्बनम् । आलम्बकजनं प्रति अभावस्वभावता रूपादीनामित्याकारः ।
प्रकृत्यस्वभावत्वेन रूपादीनामनुत्पादानिरोधाविति(मध्यस्य) आलम्बनम् । सर्वधर्मस्वरूपावबोधेन कायादीनां सर्वाकारविशुद्धिरित्याकारः ।
स्वसामान्यलक्षणानुपपत्त्या सर्वधर्माणामनिमित्तत्वमिति अधिमात्रस्यालम्बनम् । प्रकृत्यैव रूपादिनिमित्तानामाश्रयरहितत्वेनाधिमोक्षमनस्कारानधिमोक्षतत्त्वमनस्कारापरिज्ञानमिति आकारः । इत्यालम्बनाकारवदपायाभावेनाधिमात्रधर्मक्षमणात् क्षान्तिगतं त्रिविधम् ।
समाधिस्तस्य कारित्रं व्याकृतिर्मननाक्षयः
मिथस्त्रिकस्य स्वाभाव्यं समाधेरविकल्पना ।
इति निर्वेधभागीयं मृदुमध्याधिमात्रतः
इति । अत्र सर्वधर्माणामनुत्पादस्य वीरंगमादीनाञ्च समाधिर्भावनीय इति मृदुन आलम्बनम् । स्वप्रणिधानपुण्यज्ञानधर्मधातुबलेनानाभोगात्सर्वलोकधातुषु यथाभव्यतया समाधेर्व्यापारः प्रवर्तत इत्याकारः ।
धर्मतैषा सम्यक्प्रतिपन्नसमाधेर्योगिनो बुद्धैर्व्याकरणं क्रियत इति मध्यस्यालम्बनम् । सर्वविकल्पानुपपत्त्या विदितसमाधिस्वरूपस्य बोधिसत्त्वस्याहं समाहितं इत्यादिज्ञानं न सम्भवतीत्याकारः ।
धर्मतया समाधिबोधिसत्त्वप्रज्ञापारमितार्थत्रयस्य परस्परमेकं रूपमित्यधिमात्रस्यालम्बनम् । सर्वधर्माविद्यमानत्वेन समाधेरविकल्पनं परमोपाय इत्याकारः । इत्यालम्बनाकारवल्लौकिकसर्वधर्माग्रत्वादग्रधर्माख्यं त्रिविधम् ।
आलम्बनमनित्यादि सत्याधारमतिरिच्य आलम्बनविशिष्टाकारयोः धर्मधर्म्यभिधाने सत्यपि आलम्बनविशिष्टाकारयोः धर्माभिधानेन सर्वत्र उच्यमाने ऋते विशिष्टान्तरपरिहारापरिहारौ नानयोः कश्चित् प्रतिविशेष इति न्यायात् । अथवा कारिकाच्छन्दानुरोधेन भिन्नाभिधाने ऽपि अभिनिवेशादिनिषेधयुक्तयोः तत्त्वतः विधानप्रतिषेधरहितत्वाद् दुःखादिसत्यान्तर्गतमेवालम्बनमाकारश्च क्रियेते । तथैवापरत्रापि बोद्धव्यम् ।
चतुर्विकल्पसंयोगस्य स्फुटार्थावबोधाय द्वौ अन्तरश्लोकौ आह -
द्वैविध्यं ग्राह्यकल्पस्य वस्तुतत्प्रतिपक्षतः ।
मोहराश्यादिभेदेन प्रत्येकं नवधा तु सः
इति । सांक्लेशिकवस्त्वधिष्ठानत्वेन प्रतिपक्षाधिष्ठानत्वेन च प्रकारद्वये ऽविद्याव्यवदानस्कन्धादिप्रभेदा नवधा ।
द्रव्यप्रज्ञप्त्यधिष्ठानो द्विविधो ग्राहको मतः ।
स्वतन्त्रात्मादिरूपेण स्कन्धाद्याश्रयतस्तथा
इति । अत्र पुद्गलद्रव्यसत्पुरुषप्रज्ञप्तिसदुपलम्भत्वेन द्विविधो ग्राहकविकल्पो ऽपि । स्वतन्त्रात्मस्कन्धाद्युपलम्भेन प्रत्येकं नवप्रकारो भवति ।
तत्रायमेव संक्षेपार्थः-संक्लेशवस्त्वधिष्ठानाः (यथा)-अविद्या-रूपादि-स्कन्ध-नामरूपाभिनिवेश-अन्तद्वयसक्ति-संक्लेशव्यवदानाज्ञान-आर्यमार्गाप्रतिष्ठान-उपलम्भ-आत्मादि-विशुद्ध्युत्पादादिग्राह्यविकल्पाः ।
प्रतिपक्षाधिष्ठाना-राशि-आयद्वार-गोत्र-उत्पाद-शून्यता-पारमितार्थ-दर्शन-भावना-अशैक्षमार्गाश्चेति ग्राह्यविकल्पाः ।
पुद्गलद्रव्यसदधिष्ठानाः-स्वतन्त्रात्म-एक-कारण-द्रष्टाद्यात्म-संक्लेश-वैराग्य-दर्शन-भावना-कृतार्थाधाराश्चेति ग्राहकविकल्पाः ।
प्रज्ञप्तिसत्पुरुषाधिष्ठानाः-स्कन्ध-आयतन-धातु-प्रतीत्यसमुत्पाद-व्यवदान-दर्शन-भावना-विशेष-अशैक्षमार्गाश्चेति ग्राहकविकल्पाः ।
इत्येवं चतुर्विकल्पाश्चतुर्निवेधभागीयैर्यथाक्रमं संयुक्ता भवन्ति ।
सम्बद्धकारिकानुसारम् उक्तपूर्वे ऽपि सम्परिग्रहे तद्बलेन यथोक्तविशेषो भवतीति दर्शनाय तदनन्तरमन्तरश्लोकः -
चित्तानवलीनत्वादि नैःस्वाभाव्यादिदेशकः ।
तद्विपक्षपरित्यागः सर्वथा सम्परिग्रहः
चित्तानबलीनत्वानुत्त्रासादिनोपायकौशल्येन यथाशयं मात्सर्यादिविपक्षधर्मवियुक्तः समस्तवस्तुनैरात्म्यादिदेशकः कल्याणमित्रमिति सम्परिग्रहः ।
4 - प्रतिपत्तेराधारः
प्रतिपत्तिमतो यथोक्तनिर्वेधभागीयमन्यदपि दर्शनमार्गादिकमिति प्रतिपत्तेराधारमाह -
षोढाधिगमधर्मस्य प्रतिपक्षप्रहाणयोः ।
तयोः पर्युपयोगस्य प्रज्ञायाः कृपया सह
शिष्यासाधारणत्वस्य परार्थानुक्रमस्य च ।
ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते
तत्रादौ तावच्चतुर्विधलौकिकनिर्वेधभागीयानामुत्पादाधारः । ततो लोकोत्तरदर्शनभावनामार्गयोः । ततस्तदुत्पत्तिबलेन चौरनिष्कासनकपाटपिधानवत् समकालं समस्तप्रतिपक्षोत्पादविपक्षनिरोधयोः । ततस्तदनुपलब्ध्या तदुत्पादनिरोधयुक्तविकल्पापगमस्य । ततं पूर्वप्रणिधानदानाद्युपायकौशल्यबलेन संसारनिर्वाणाप्रतिष्ठानयोः प्रज्ञाकरुणयोः । ततस्तदुत्पत्त्या श्रावकाद्यसाधारणधर्मस्य । ततो यथाशयमवतारणाद्यभिसन्धिद्वारेण यानत्रयप्रतिष्ठापनलक्षणपरार्थानुक्रमस्य । ततो यावदासंसारं निर्निमित्तानाभोगपरार्थज्ञानस्य चाधारः । अयमेवानुक्रमः । अनेनैव सर्व पुरुषार्थाः सम्पद्यन्ते ।
प्रतिपत्तिधर्मावस्थान्तरभेदेन त्रयोदशविधो बोधिसत्त्वो यथोक्तधर्माधारो धर्मधातुस्वभाव एव गोत्रमिति निर्दिष्टम् ।
यदि धर्मधातोरेवार्यधर्माधिगमाय हेतुत्वात्तदात्मको बोधिसत्त्वः प्रकृतिस्थमनुत्तरबुद्धधर्माणां गोत्रम्, तदा तत्सामान्यवर्तित्वाद् ऽन बोधिसत्त्व एवेतिऽ मन्दबुद्धि पुरुषं प्रत्याशंक्य अन्तरश्लोकमाह -
धर्मधातोरसम्भेदाद् गोत्रभेदो न युज्यते ।
यथा श्रावकयानाद्यधिगमक्रमेणालम्बेत तथार्यधर्माधिगमाय धर्मधातोर्हेतुभावेन व्यवस्थापनाद् गोत्रत्वेन व्यपदेश इत्यपि समाधिः दृश्यते, तथापि सौकर्यात् लौकिकदृष्टान्तेनापि समाध्यन्तरमाह -
आधेयधर्मभेदात्तु तद्भेदः परिगीयते
यथैकमृद्द्रव्याभिनिर्वृत्तैकतेजःपरिपक्वाधारघटादेराधेयक्षौद्रशर्करादिभाजनत्वेन भेदस्तद्बद् यानत्रयसङ्गृहीताधिगन्तव्याधेयधर्मनानात्वेनाधारनानात्वं निर्दिष्टमिति ।
5 - आलम्बनम्
यथोक्तप्रतिपत्त्याधारस्य किमालम्बनमित्याह -
आलम्बनं सर्वधर्मास्ते पुनः कुशलादयः ।
लौकिकाधिगमाख्याश्च ये च लोकोत्तरा मताः
सास्रवानस्रवा धर्माः संस्कृतासंस्कृताश्च ये ।
शिष्यसाधारणा धर्मा ये चासाधारणा मुनेः
तत्रादौ तावत् सामान्येन (सर्वधर्माः) कुशलाकुशलाव्याकृताः यथाक्रमं श्रामण्यताप्राणातिपाताद्यव्याकृतकायकर्मादयः । ततस्तेषामेव लौकिकादिद्विविधस्यावशिष्टाश्चत्त्वारो भेदाः, यथासंख्यं बालपृथग्जनसम्बद्धाः पञ्च स्कन्धाः, सर्वार्यजनसंगृहीतानि चत्वारि ध्यानानि, आत्मदर्शनाप्रतिपक्षत्वेन पञ्चोपादानस्कन्धाः । तद्दर्शनप्रतिपक्षत्वेन चत्वारि स्मृत्युपस्थानानि । हेतुप्रत्ययाधीनाः कामादिधातवः । कारणानपेक्षाः तथता । सर्वार्यजनसन्तानप्रभवानि चतुर्ध्यानानि । सम्यक्सम्बुद्धसन्तानोदयधर्मीणि दशबलानि इत्येवमधिगमानुक्रमेण सर्वधर्मा यथावदालम्ब्यन्त इत्यालम्बनमेकादशविधम् ।
6 - समुद्देशः
तादृशालम्बनप्रतिपत्तेः कः समुद्देश इति समुद्देशमाह -
सर्वसत्त्वाग्रता चित्तप्रहाणाधिगमत्रये ।
त्रिभिर्महत्त्वैरुद्देशो विज्ञेयो ऽयं स्वयम्भुवाम्
सर्वथा सर्वाकारज्ञतापरिज्ञानेन भविष्यद्बुद्धबोधिसत्त्वानां सर्वसत्त्व (राशि)-अखिलसत्त्व (निकाय)-अग्रताचित्तमहत्त्वं प्रहाणमहत्त्वमधिगममहत्त्वञ्चाधिकृत्य प्रतिपत्तौ प्रवृत्तत्वान्महत्त्वान्महत्त्वत्रययुक्तत्वाच्च त्रिविधः समुद्देशो ज्ञातव्यः ।
7 - सन्नाहप्रतिपत्तिः
इत्येवं प्रतिपत्त्याधारादीन् अभिधाय किञ्च तत्स्वरूपमिति चेत्? सा त्रिसर्वज्ञताविषये सामान्येन शुक्लधर्माधिष्ठाना, सर्वाकाराभिसम्बोधादौ चतुर्विधे ऽभिसमये प्रत्यभिसमयं षट्पारमिताधिष्ठाना च क्रिया परिपत्तिः । एवं यथावत् प्रयोगदर्शनभावनाविशेषमार्गस्वभावानां प्रतिपत्तिलक्षणानां सन्नाहप्रस्थानसम्भारनिर्याणानां मध्ये
वीर्यरूपतया सन्नाहप्रतिपत्तिं प्रथमामाह -
दानादौ षड्विधे तेषां प्रत्येकं संग्रहेण या ।
सन्नाहप्रतिपत्तिः षा षड्भिः षट्कैर्यथोदिता
इति । धर्मदानादिदाने श्रावकादिमनस्कारपरिवर्जनम्, सर्वजनाप्रियवादित्वक्षान्तिः, छन्दजननम्, यानान्तराव्यवकीर्णैकाग्रतानुत्तरसम्यक्सम्बोधिपरिणामना यथाक्रमं देयाद्यनुपलम्भसन्नाहत्वेन क्रियन्ते । तथैव शीलस्य रक्षणम्, क्षान्तेः सम्पादनम्, वीर्यस्य प्रारम्भः, ध्यानस्य आराधनम्, प्रज्ञाया भावना इत्येवं दानादिषट्पारमितासु प्रत्येकं दानादौ संगृहीतासु षड्भिः षट्कैः षट्त्रिंशद्विद्या भवन्ति दानादिसाधर्म्याच्च षट् सन्नाहप्रतिपत्तयो भवन्ति ।
8 - प्रस्थानप्रतिपत्तिः
कृतसन्नाहस्यैवं प्रस्थानमिति प्रस्थानप्रतिपत्तिं द्वितीयामाह -
ध्यानारूप्येषु दानादौ मार्गै मैत्र्यादिकेषु च ।
गतोपलम्भयोगे च त्रिमण्डलविशुद्धिषु
उद्देशे षट्स्वभिज्ञासु सर्वाकारज्ञतानये ।
प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणो
ध्यानारूप्यसमापत्ति-दानादिषट्पारमिता-दर्शनभावनाशैक्षविशेषमार्ग-चतुरप्रमाण-अनुपलम्भयोग-सर्ववस्तुत्रिमण्डलविशुद्धि-उद्देश-षडभिज्ञा-सर्वाकारज्ञतासु सम्यग्व्यवस्थितिलक्षणा हि समस्तमहायानधर्माक्रमणस्वभावा प्रस्थानप्रतिपत्तिः नवधा ।
9 - सम्भारप्रतिपत्तिः
कृतप्रस्थानस्यैवं सम्भार इति सम्भारप्रतिपत्तिं तृतीयामाह -
दया दानाधिकं षट्कं शमथः सविदर्शनं ।
युगनद्धश्च यो मार्गं उपाये यच्च कौशलम्
ज्ञानं पुण्यं मार्गश्च धारणी भूमयो दश ।
प्रतिपक्षश्च विज्ञेयः सम्भारप्रतिपत्क्रमः
महाकरुण-दान-शील-वीर्य-ध्यान-प्रज्ञा-शमथ-विदर्शना-युगनद्धमार्ग-उपायकौशल-ज्ञान-पुण्य-दर्शनादिमार्ग-वचनादिधारणी-भूमि-प्रतिपक्षाणामनुपलम्भेन संवृतिसत्यानतिक्रमेण समस्तमहायानार्थप्रतिपत्तेरेभिः करुणादिभिः सम्यक्-प्रतिपत्स्वाभाव्यात् महाबोधिग्रहणात् महाकरुणादिसम्भारा इति सप्तदश सम्भारप्रतिपत्तयः । तत्र ज्ञानसम्भारः आध्यात्मिक-बाह्य-तदुभय-शून्यता-महत्-परमार्थ-संस्कृत-असंस्कृत-अतीतानन्त-अनवराग्र-अनवकार-प्रकृति-सर्वधर्म-लक्षण-अनुपलम्भ-अभावस्वभाव-भाव-अभाव-स्वभाव-परभावशून्यतानां भेदेन विंशतिधा ।
आध्यात्मिकत्वबाह्यत्वोभयशून्यत्वतस्तथा ।
दिङ्निर्वाणार्थतश्चैव संस्कृतासंस्कृतत्वतः ॥ 1 ॥
अत्यन्तानवराग्रत्वानवकाराकृतात्वतः ।
सर्वधर्मत्वलक्ष्मत्वाभ्यतीतादित्वतः पुनः ॥ 2 ॥
सांयोगिकत्वभावत्वाकाशशून्यस्वभावतः ।
स्वस्वभाववियुक्तत्वाद् विंशतिः शून्यता मताः ॥ 3 ॥
भूमिसम्भारेण दशभूभय इति परिष्क्रियमाणानां धर्माणां संदर्शनाय त्रयोविंशतिरन्तरश्लोका कथ्यन्ते -
1. प्रमुदिता भूमिः
लभ्यते प्रथमा भूमिर्दशधा परिकर्मणा ।
आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता
त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषणा ।
सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा
धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते ।
ज्ञेयञ्च परिकर्मैषां स्वभावानुपलम्भतः
इति । यथावत् सर्ववस्तुषु अकौटिल्याशयः, स्व-परप्रयोजने हितत्वम्, सर्वसत्त्वेषु समचित्तता, सर्वस्वपरित्यागः, कल्याणमित्रारागणम्, यानत्रयसङ्गृहीत सद्धर्मालम्बनपर्येष्टिः, गृहवासानभिरतिः, अनुत्तरबुद्धकायगता स्पृहा, सद्धर्मप्रकाशनम्, सत्यवादितेत्येवमेभिर्दशभिर्लक्षणधर्मैः सर्वथोत्पद्यमानत्त्वात् परिकर्मभिः कारणविशेषैः स्वभावानुपलम्भतया कृतविशेषलक्षणपरिकर्मभिरेव प्रथमा प्रमुदिता भूमिः प्राप्यते ।
2 - विमला भूमिः
शीलं कृतज्ञता क्षान्ति प्रमोद्यं महती कृपा ।
गौरवं गुरुशुश्रूषा वीर्यं दानादिके ऽष्टमम्
इति कुशलधर्म-सत्त्वार्थक्रिया-संवरशीलानि, परकृतोपकारस्य अविस्मरणम् (अविप्रणाशनम्), परकृतापकारादौ क्षान्तिः, कुशलधर्मस्याराधने ऽविप्रतिसारः, सर्वजनेषु मैत्री, उपाध्यायादिषु प्रणमनम्, कल्याणमित्रनिर्दिष्टधर्मसाधना, दानादिषट्पारमितासु पर्येष्टिरित्येवं कृतपरिकर्मविशेषेणाष्टप्रकारधर्मेण द्वितीया विमला भूमिरधिगम्यते ।
3. प्रभाकरी भूमिः
अतृप्तता श्रुते दानं धर्मस्य च निरामिषम् ।
बुद्धक्षेत्रस्य संशुद्धिः संसारापरिखेदिता
ह्रीरपत्राप्यमित्येतत् पञ्चधा मननात्मकम् ।
इति । सद्धर्मश्रवणे तृप्तेरज्ञानम्, लाभादिनिरपेक्षचित्तेन सद्धर्मप्रकाशनम्, स्वबुद्धक्षेत्राश्रयाश्रितसंशोधनम्, उपकृतसत्त्ववैपरीत्यादिदर्शनेन न परिखेदापत्तिः, स्वपरापेक्षया अकुशलधर्माकरणमित्येवं पञ्चधा परिकर्मणा पूर्ववत् कृतानवबुध्यमानस्वभावपरिकर्मणा तृतीया प्रभाकरी भूमिरवबुध्यते ।
4. अर्चिष्मती भूमिः
वनाशा ऽल्पेच्छता तुष्टिर्धूतसंलेखसेवनम्
शिक्षाया अपरित्यागः कामानां विजुगुप्सनम् ।
निर्वित्सर्वास्तिसन्त्यागो ऽनवलीनानपेक्षते
इति । अरण्यावासः, अप्राप्तलाभेषु अनभिलाषः, प्राप्तलाभेष्वनधिकाभ्यर्थना, भिक्षादिधौतगुणसंवरणम्, गृहीतशिक्षाणां प्राणादिभ्यो ऽपि अपरित्यजनम्, कामगुणेषु दोषोपलम्भदर्शनेन निन्दनम्, विनेयानुसारेण निर्वाणे प्रवणत्वम्, सर्वस्वपरित्यागः, कुशलसाधने चित्तासंकोचः, सर्ववस्त्वनपेक्षणमित्येवं पूर्ववद्दशप्रकारेण चतुर्थी अर्चिष्मती भूमिरभिरूह्यते ।
5. सुदुर्जया भूमिः
संस्तवं कुलमात्सर्यं स्थानं सङ्गणिकावहम् ।
आत्मोत्कर्षपरावज्ञे कर्ममार्गान् दशाशुभान्
मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम् ।
विवर्जयन् समाप्नोति दशैतान् पञ्चमीं भुवम्
इति । लाभाद्यर्थं गृहिप्रव्रजितादिभिः संवासः, श्राद्धकुलानुपदर्शनम्, जनाकीर्णनगरादि, स्वप्रशंसनपरनिन्दने, दशाकुशलकर्मपथाः, श्रुताद्यभिमानः, पराप्रणमनम्, कुशलाकुशलविपरीताभीनिवेशः, मिथ्यादृष्ट्यादिकुमतिः, सर्वरागादिसर्वक्लेशाभिमुखीकरणं चेत्येवंलक्षणान् दशधर्मान् विवर्जयन् अर्थादाक्षिप्तविपर्ययधर्मेण दशप्रकारपरिकर्मणा पूर्ववत् पञ्चमी सुदुर्जया भूमिराक्रम्यते ।
6. अभिमुखी भूमिः
दानशीलक्षमावीर्यध्यानप्रज्ञाप्रपूरणात् ।
शिष्यखड्गस्पृहात्रासचेतसां परिवर्जकः
याचितो ऽनवलीनश्च सर्वत्यागे ऽप्यदुर्मनाः ।
कृशो ऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्नुते
दानादिषट्पारमितापरिपूरणेन श्रावकप्रत्येकबुद्धाभिलाषस्य स्वभावानुपलम्भोत्त्त्रासस्य च याचकजनप्रार्थनासंकोचस्य स्वरसप्रवृत्तसर्वार्थत्यागदौर्मनस्यस्य दारिद्र्यादर्थिजनप्रतिक्षेपचित्तस्य च वर्जनेनेत्येवं द्वादशभिः परिकर्मभिः पूर्ववत् षष्ठी अभिमुखी भूमिराज्ञायते ।
7. दूरङ्गमा भूमिः
आत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वतः ।
निमित्तहेत्वोः स्कन्धेषु धातुष्वायतनेषु च
त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता ।
रत्नत्रितयशीलेषु तद्दृष्ट्यभिनिवेशिता
शून्यतायां विवादश्च तद्विरोधश्च विंशतिः ।
कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम्
इति । आत्मसत्त्वजीवपुद्गलोच्छेदशाश्वतनिमित्तहेतुस्कन्धधात्वायतनत्रैधातुकाधिष्ठान-सक्त्यालीनचित्तबुद्धधर्मसंघशीलदृष्ट्यभिनिवेशशून्यताविवादविरोधोद्भावनाग्रहोत्सृष्टयश्चेत्येवं विंशतिप्रकारकलङ्कापगमादाक्षिप्तविपर्ययधर्मेण विंशतिप्रकारेण परिकर्मधर्मेण पूर्ववत् सप्तमी दूरङ्गमा भूमिः समीयते ।
अर्थाक्षिप्तधर्मतानिर्देशायाह -
त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धता ।
करुणामनना धर्मसमतैकनयज्ञता
अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा ।
कल्पनायाः समुद्धातः संज्ञादृक्क्लेशवर्जनम्
शमथस्य च निध्यप्तिः कौशलञ्च विदर्शने ।
चित्तस्य दान्तता ज्ञानं सर्वत्राप्रतिघाति च
सक्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम् ।
सर्वत्र स्वात्मभावस्य दर्शनञ्चेति विंशतिः
शून्यता ऽनिमित्ताप्रणिहितविमोक्षमुखसम्यग्ज्ञानम्, दशकुशलकर्मपथेषु वधवध्यघातकानुपलम्भादि, सर्वसत्त्वालम्बनकरुणा, वस्त्वनुपलम्भः, सर्वधर्मसमतावबोधः, महायानैकयानावबोधः, अनुत्पादपरिज्ञानम्, गम्भीरधर्मनिध्यानक्षान्त्यवगमः, सर्वज्ञेयानां महायानोपायमुखेन प्रकाशनम्, सर्वकल्पनोच्छेदः, निमित्तोद्ग्रहणविकल्पाभावसत्कायादिपञ्चदृष्टिसन्त्यागः, रागादिक्लेशवर्जनानि, शमथभावना, प्रज्ञाकौशल्यम्, चित्तोपशमः, रूपाद्यप्रतिघातज्ञानम्, अभिनिवेशास्थानम्, यथेष्टसमकालबुद्धक्षेत्रगमनम्, विनेयानुरूपं सर्वत्र स्वकायप्रकाशनमिति विंशतिप्रकारेणानेन परिकर्मधर्मेणापि पूर्ववत् सप्तमी भूमिः समीयते ।
8. अचला भूमिः
सर्वसत्त्वमनोज्ञानमभिज्ञाक्रीडनं शुभा ।
बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे
अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः ।
सञ्चिन्त्य च भवादानमिदं कर्माष्टघोदितम्
इति । यथावत्सर्वसत्त्वचित्तचरितज्ञानम्, लोकधातौ ऋद्ध्यभिज्ञाभिः क्रीडनम्, आधारबुद्धक्षेत्रसुवर्णादिभावपरिणामः, सर्वाकारधर्मपरीक्षणेन बुद्धरागणम्, दिव्यचक्षुषो निष्पत्तिः, आधेयबुद्धक्षेत्रसत्त्वपरिशोधनम्, सर्वत्र मायोपमतावस्थानम्, सर्वसत्त्वार्थदर्शनाद बुद्धिपूर्वकजन्मग्रहणञ्चेत्येवमष्टप्रकारधर्मेण परिकर्मणा पूर्ववदष्टमी अचला भूमिरनुभूयते ।
9. साधुमती भूमिः
प्रणिधानान्यनन्तानि देवादीनां रूतज्ञता ।
नदीव प्रतिभानानां गर्भावक्रान्तिरुत्तमा
कुलजात्योश्च गोत्रस्य परिवारस्य जन्मनः ।
नैष्क्रम्यबोधिवृक्षाणां गुणपूरे स्वसम्पदः
इति । अनन्तप्रणिधानम्, देवादिसर्वसत्त्वरुतज्ञानम्, नद्युपमिताक्षयप्रतिभानम्, सर्वजनप्रशस्तगर्भावक्रमणम्, राजादिस्थानम्, आदित्याद्यन्वयः, मात्रादिसुसम्बन्धज्ञातिः, स्वविधेयपरिवारः, शक्राद्यभिनन्दितोत्पादः, बुद्धादिसञ्चोदननिष्क्रमणम्, चिन्तामणिसदृशाश्वत्थवृक्षादिः, बुद्धबुद्धधर्मस्वभावगुणपरिपूरणञ्चेत्येवं सम्पत्तिलक्षणैर्द्वादशभिः परिकर्मभिः पूर्ववत्कृतपरिकर्मविशेषैर्नवमी साधुमती भूमिः साक्षात्क्रियते ।
10. धर्ममेघा भूमिः
हेतुभूमित्वेन तत्परिकर्माण्येवं निर्दिश्य फलभूमित्वेन पृथक् तान्यनभिधाय सङ्ग्रहणेन दशमभूमिलक्षणमाह -
नवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते ।
येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः
इति । श्रावकादिगोत्र-प्रथमफलप्रतिपन्नक-स्रोत-आपन्न-सकृदागामि-अनागामि-अर्हतामिति षण्णां नयत्रयव्यवस्थापनाभिप्रायेण शेषसङ्गृहीतापन्नकत्रयस्य प्रत्येकबुद्धस्य च यथाक्रमं गोत्र-अष्टमक-दर्शन-तनु-वीतराग-कृतविकल्प-श्रावक-प्रत्येकबुद्धभूमयः, बोधिसत्त्वानां यथोक्ता नवविधेत्येवं नवभूमीरतिक्रम्य दशम्यां पुनः भूमौ बोधिसत्त्वो बुद्ध एव वक्तव्यो न तु सम्यक्सम्बुद्ध इति वचनात् बुद्धभूमौ येन प्रणिधानज्ञानेनावतिष्ठते सा एव दशमी बोधिसत्त्वभूमिः ज्ञेया ।
(प्रतिपक्षसम्भारः)
प्रतिपक्षसम्भारार्थं अन्तरश्लोकमाह -
प्रतिपक्षो ऽष्टधा ज्ञेयो दर्शनाभ्यासमार्गयोः ।
ग्राह्यग्राहकविकल्पानामष्टानामुपशान्तये
इति । सांक्लेशिकवस्तुमात्रप्रतिपक्षाधिष्ठानग्राह्यविकल्पद्वयस्य द्रव्यपुद्गलप्रज्ञप्तिपुरुषाधिष्ठानग्राहकविकल्पद्वयस्य च दर्शनमार्गभावनामार्गयोः प्रहाणाद् ग्राह्यग्राहकाष्टविकल्पोपशान्तये सत्यद्वयमाश्रित्य साक्षात्करणीया विपक्षभेदेन मार्गद्वयावस्थायामेव अष्टविधाः प्रतिपक्षाः ।
10. निर्याणप्रतिपतिः
सम्भृतसम्भारस्यैवं निर्याणमिति निर्याणप्रतिपत्तिं चतुर्थींमाह -
उद्देशे समतायाञ्च सत्त्वार्थे यत्नवर्जने ।
अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम्
सर्वाकारज्ञतायाञ्च निर्याणं मार्गगोचरम् ।
निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका
मूल पाठ: Abhisamayālaṃkāravṛttiḥ sphuṭārthā · Edition: Ram Shankar Tripathi: Abhisamayalankaravrti sputartha. Sarnath: Central Institute of Higher Tibetan Studies, 1977, pp. 3-44. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0