भाषा

ENहिગુ
ग्रंथ पाठ

अभिसमयालंकारवृत्तिः स्फुटार्था · अध्याय 3

3.1

इति । तत्राधिमात्राधिमात्रादिः प्रतिपक्षो मृदुमृद्वादिर्विपक्ष इति भवितव्यमितिचोद्यस्य वस्त्रलिप्तसूक्ष्ममलापकषर्णे रजकमहायत्नोदाहरणेन परिहारतः यथानिर्दिष्टभावनामार्गस्यात्यन्तिकी । त्रैधातुकाकारज्ञानज्ञेयानुपलम्भाद् या समता सैव समस्तप्रतिपक्षत्वादात्यन्तिकी विशुद्धिर्बुद्धस्य व्यवस्थाप्यत इति ॥
अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे द्वितीयाधिकारवृत्तिः
सर्वज्ञताधिकारः तृतीयः
1 - प्रज्ञया न भवे स्थानम्
2 - कृपया न शमे स्थितिः
सर्ववस्तुपरिज्ञानं विना न मार्गज्ञतापरिज्ञानं सम्यग् इति सर्वज्ञतामाह -
नापरे न परे तीरे नान्तराले तयोः स्थिता ।
अध्वनां समताज्ञानात् प्रज्ञापारमिता मता

3.2

इति । त्रैयध्विकधर्माणामनुत्पादाकारेण तुल्यतावबोधात् बुद्धबोधिसत्त्वानां या आसन्नीभूता मता प्रज्ञापारमिता, सा खलु प्रज्ञया पुनर्नापरे तीरे संसारे, न परे तीरे निर्वाणे च यथाक्रमं शाश्वतोच्छेदलक्षणे, न तयोर्मध्ये ऽपि व्यवस्थितेति न संसारनिर्वाणयोः व्यवस्थिता ।
3 - अनुपायेन दूरत्वम्
4 - उपायेनाविदूरता
सर्वज्ञताधिकाराद् व्यतिरेकनिर्देशेन श्रावकादीनां त्र्यध्वसमताज्ञानाभावात् सम्यक् प्रज्ञापारमिता दूरीभूतेति । स्वाधिगममात्रात्मिका तु प्रज्ञापारमिता कृपाप्रज्ञावैकल्यान्निर्वाणे संसारे चावस्थिता वस्त्वस्तूपलम्भतयेति ज्ञेया । ऽयः प्रतीत्यसमुत्पादः शून्यता सैव ते मताऽ इति न्यायादध्वत्रयसमताज्ञानं पदार्थावबोध एव, ननु स च सर्वेषामेव समस्तीति कथं श्रावकबोधिसत्त्वादीनां सम्यक् प्रज्ञापारमितादूरीभावः, न चेतरेषां भवतीति चेत्? आह -
अनुपायेन दूरं सा सनिमित्तोपलम्भतः ।
उपायकौशलेनास्याः सम्यगासन्नतोदिता

3.3

इति । मायाकारनिर्मितवस्तुनः प्रतिभासे अविदिततत्स्वरूपस्य भावाभिनिवेशिता नैःस्वाभाव्याप्रतिभास इव कल्याणमित्राद्युपायकौशलवैकल्याद् वस्तु निमित्तयोगेन प्रतिपत्तौ तत्समतापरिज्ञानमविज्ञातभावरूपाणां श्रावकादीनां नास्तीत्यतस्तेषां दूरीभावो जिनजनन्या इति । बोधिसत्त्वानां तु समाराधितकल्याणमित्रोपदेशतया अविपरीतसत्यद्वयाश्रितश्रुतादिज्ञानोत्पत्त्युपायकौशलेन च उत्सारितभावाभिनिवेशभ्रान्तिनिमित्तानां रूपादिसर्वधर्मपरिज्ञानमेव तत्समतापरिज्ञानमित्यतस्तेषां सम्यगासन्नीभावो ऽस्या मातुरिति अनुपायेन एव दूरता, उपायेन तु अदूरता भवति ।
5 - विपक्षः
श्रावकादीनामेवं मातुर्दूरीभावेनानुष्ठानं विपक्षमाह
रूपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च ।
दानादौ बोधिपक्षेषु चर्यासंज्ञा विपक्षता

3.4

इति । सर्वेषां रूपादीनां त्रैयध्विकानाञ्च धर्माणां सास्रवानास्रवोभयस्थानीयानामनुपलम्भस्वरूपाणां सर्वत्र भावोपलम्भतया ते परपरिकल्पितात्मादिशून्यत्वेन दृष्टाः । अनुष्ठानसंज्ञा तु एतेषां प्रतिपक्षभूतानि विपर्यासप्रवृत्तत्वेन हेयत्वात् विपक्षो भवति ।
6 - प्रतिपक्षः
विपर्ययेण बोधिसत्त्वानां परिपक्ष इत्याह -
दानादिष्वनहङ्कारः परेषां तन्नियोजनम् ।
सङ्गकोटीनिषेधो ऽयं सूक्ष्मः सङ्गो जिनादिषु

3.5

इति । त्रिमण्डलविशुद्ध्या दानादावनात्मावबोधेन स्वपरयोर्नियोजनं सम्यक् प्रवृत्तत्वात् सर्वसक्तिनिचयस्थानप्रतिषेधेन चोपादेयत्वात् सर्वथा प्रतिपक्षः । तथागतादिषु नमस्कारादिः पुण्यसम्भारहेतुत्वेन प्रतिपक्षो ऽपि सन् सूक्ष्मसक्तिरूपतया न सर्वथा प्रतिपक्ष इति विपक्षो भवति ।
कथं पुनः सुक्ष्मसक्तिर्विपक्ष इति चेदाह -
तद्गाम्भीर्यं प्रकृत्यैव विवेकाद्धर्मपद्धतेः ।
इति । यस्मात् स्वभावेनैव धर्मगोत्राणां शून्यत्वात् तेषां गाम्भीर्यम्, तस्मात् तथागतोपलम्भो ऽपि विपक्षः ।
कथं तर्हि तस्य वर्जनमित्याह -
एवप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम्

3.6

इति । रूपादिसर्वधर्माणामेकैव प्रकृतिः यदुत निःस्वभाव इति ज्ञानज्ञेयसमतैकपरिज्ञाने सक्तिर्वर्जिता भवति ।
कथ पुनः प्रकृत्या धर्मगाम्भीर्यमित्याह -
दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता ।
इति । यस्मात् सर्वविज्ञानोपलव्धार्थनिराकरणेन तस्याः प्रकृतेर्दुर्बोधता कथिता, अतस्तस्या गाम्भीर्यम् । कथं पुनरेवं दुर्बोधतेत्याह -
रूपादिभिरविज्ञानात् तदचिन्त्यत्वमिष्यते

3.7

रूपाद्यावेणिकबुद्धधर्माद्याकारैः प्रकृतेस्तथतास्वाभाव्यादनभिसम्बोधेन यस्माच्चिन्तातिक्रान्तत्वमिष्यते, अतो ऽस्या दुर्बोधतेति यावत् ।
विपक्षादि एवमभिधाय उपसंहारमाह -
एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानते ।
अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः

3.8

इति । सर्वज्ञताधिकारे यथोक्तनयेन यथाक्रमं श्रावकबोधिसत्त्वादीनां विपक्षप्रतिपक्षयोरयं प्रभेदो ऽवसातव्यः ।
7 - प्रयोगः
विपक्षादि एवमभिधाय तयोर्विभावनायां कः प्रयोग इति चेत् प्रयोगमाह -
रूपादौ तदनित्यादौ तदपूरिप्रपूरयोः ।
तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः

3.9

अविकारो न कर्त्ता च प्रयोगो दुष्करस्त्रिधा ।
यथाभव्यं फलप्राप्तेरबन्ध्यो ऽभिमतश्च सः

3.10

अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः ।
रूपादिसर्वधर्माः, तेषामेवानित्यताशून्यतादयः, प्रतिपूर्णापूर्णता, असङ्गः, अन्यथा ऽविकारः, अकर्तृत्वम्, त्रिसर्वज्ञतात्मकानां यथाक्रमं उद्देशप्रयोगकारित्राणां दुष्करता, यथाभव्यफलप्राप्त्या अवन्ध्यता, परप्रत्ययानिर्गामित्वम्, परिणामसमाहार-विरोध-प्रत्यय-असङ्क्रान्ति-निराधार-अकारकात्मक-सप्तख्यातिसिद्धपरिज्ञानस्य निराकरणम्, तदेवमन्वयमुखेन बोधिसत्त्वानां दशविधः प्रयोगः कथितः, अर्थाद् यथोक्तविपर्ययेण श्रावकादीनां प्रयोगो भवति ।
8 - समता
समताद्वारेण प्रयोगो भावनीय इति प्रयोगानन्तरं समतामाह -
चतुर्धा ऽमनना तस्य रूपादौ समता मता

3.11

इति । रूपाद्यभिनिवेशनीलादिनिमित्तप्रपञ्चाधिगममननानां सर्वथानुपलब्धिरिति प्रयोगसमतात्वात् समता भवति ।
9 - दर्शनमार्गः
प्रयोगसमतां प्रतिविध्य दर्शनमार्गो भावनीय इति दर्शनमार्गमाह -
धर्मज्ञानान्वयज्ञानक्षान्तिज्ञानक्षणात्मकः ।
दुःखादिसत्ये दृङ्मार्ग एष सर्वज्ञतानये

3.12

इति । प्रतिसत्यं धर्मज्ञानक्षान्तिर्धर्मज्ञानमन्वयज्ञानक्षान्तिरन्वयज्ञानमित्येवं षोडशक्षणात्मकः सर्वज्ञताधिकारे दर्शनमार्गो भवति ।
ननु कः सत्यस्याकार इत्याह -
रूपं न नित्यं नानित्यमतीतान्तं विशुद्धकम् ।
अनुत्पन्नानिरुद्धादि व्योमाभं लेपवर्जितम्

3.13

परिग्रहेण निर्मुक्तमव्याहारं स्वभावतः ।
प्रव्याहारेण नास्यार्थः परेषु प्राप्तये यतः

3.14

नोपलम्भकृदत्यन्तविशुद्धिर्व्याध्यसम्भवः ।
अपायोच्छित्त्यकल्पत्वे फलसाक्षात्क्रियां प्रति

3.15

असंसर्गो निमित्तैश्च वस्तुनि व्यञ्जने द्वये ।
ज्ञानस्य या चानुत्पत्तिरिति सर्वज्ञताक्षणाः

3.16

नैःस्वाभाव्येन रूपादि नित्यानित्यवियोगान्न नित्यं नानित्यम्, दुःखादुःखविगमत्वेन अपगतशाश्वतोच्छेदान्तम्, शून्याशून्यरहितत्वाद् विशुद्धम्, आत्मानात्मस्वभावाभावान्नोत्पन्नं न निरुद्धं न संक्लिष्टं न व्यवदातमित्यादयो दुःखसत्याकारा भवन्ति ।
हेत्वहेतुतुच्छत्वादाकाशसदृशम्, समुदयासमुदयविसंयोगात् सर्वक्लेशोपक्लेशनिरुपलिप्तम्, प्रभवाप्रभवासम्बद्धत्वात् परिग्रहेण निर्मुक्तम्, प्रत्ययाप्रत्ययविमुक्तत्वात् स्वरूपतो ऽवचनीयमिति समुदयसत्याकारा भवन्ति ।
यस्मान्निरोधानिरोधेनासम्बन्धः, तस्मान्निरोधसत्यार्थो वचनोदाहरणेन सन्तानान्तरे ऽप्रापणीयः, शान्ताशान्ताभावान्नोपलम्भकरणम्, प्रणीताप्रणीतविकलत्वादतिक्रान्तोभयान्ता विशुद्धिः, निःसरणानिःसरणविविक्तत्वात् सर्वव्याध्यनुत्पाद इति निरोधसत्याकारा भवन्ति ।
मार्गामार्गरहितत्वादपायोच्छित्तिः, न्यायान्यायासंश्लेअषात् फलसाक्षात्करणं प्रत्युपायो ऽविकल्पत्वम्, प्रतिपत्त्यप्रतिपत्तिविनिर्मुक्तत्वेन सर्वधर्माणां निमित्तैरसंसर्गः, नैर्याणिकानैर्याणिकविकल्पत्वेनोभये वाच्यवाचकभावलक्षणे ज्ञेये शब्दे ज्ञानस्यानुत्पत्तिरिति मार्गसत्याकारा भवन्ति ।
एवमेते आकाराः सर्वज्ञताक्षणा इति बोधिसत्त्वानां दर्शमार्गः, तद्विपर्ययेण श्रावकदीनामनित्यादिभिराकारैः सर्वज्ञतायां दर्शनमार्गो विभावनीयः ।
श्रावकमार्गो बोधिसत्त्वेन परिज्ञातव्यो न साक्षात्करणीय इति भावनामार्गो न निर्दिष्टः ।
विस्तरेण एवं निर्दिश्य सकलार्थसङ्ग्राहकत्वेन त्रिसर्वज्ञतामुपसंहरन्नाह -
इति सेयं पुनः सेयं खलु पुनस्त्रिधा ।
अधिकारत्रयस्यैषा समाप्तिः परिदीपिता

मूल पाठ: Abhisamayālaṃkāravṛttiḥ sphuṭārthā · Edition: Ram Shankar Tripathi: Abhisamayalankaravrti sputartha. Sarnath: Central Institute of Higher Tibetan Studies, 1977, pp. 3-44. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc