अभिसमयालंकरनामप्रज्ञापारमितोपदेशशास्त्र · अध्याय 3
॥ अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे
मार्गज्ञताधिकारो द्वितीयः ॥
नापरे न परे तीरे नान्तराले तथोः स्थिता ।
अध्वनां समताज्ञानात् प्रज्ञापारमितामता
अनुपायेन दूरं सा सनिमित्तोपलम्भतः ।
उपायकौशलेनास्याः सम्यगासन्नतोदिता
रूपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च ।
दानादौ बोधिपक्षेषु चर्यासंज्ञा विपक्षता
दानादिष्वनहंकारः परेषां तन्नियोजनम् ।
सङ्गकोटीनिषेधो ऽयं सुक्ष्मः सङ्गो जिनादिषु
तद्गाम्बीर्यं प्रकृत्यैव विवेकाद्धर्मपद्धतेः *इति* ।
एकप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम्
दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता *इति* ।
रूपादिभिरविज्ञानात्तदचिन्त्यत्वमिष्यते
एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानये ।
अयं विभागो निःशोषो विपक्षप्रतिपक्षयोः
रूपादौ तदनित्यादौ तदपुरिप्रपूरयोः ।
तदसङ्गत्वे चर्याया: प्रयोगः प्रतिषेधतः
अविकारो न कर्ता च प्रयोगो दुष्करस्त्रिधा ।
यथाभव्यं फलप्राप्तेरवन्ध्यो ऽभिमतश्च सः
अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः ।
चतुर्धा मनना तस्य रूपादौ समता मता
धर्मज्ञानान्वयज्ञानक्षान्तिज्ञानक्षणात्मकः ।
दुःखादिसत्ये दृङ्मार्ग एष सर्वज्ञतानये
रूपं न नित्यं नानित्यमतितान्तं विशुद्धकम् ।
अनुत्पन्नानिरुद्धादि व्योमाभं लेपवर्जितम्
परिग्रहेण निर्मुक्तमव्याहारं स्वभावतः ।
प्रव्याहारेण नास्यार्थः परेषु प्राप्यते यतः
नोपलम्भकृदत्यन्तविशुद्धिर्व्याध्यसंभवः ।
अपायोच्छित्त्यकल्पत्वे फलसाक्षात्क्रियां प्रति
असंसर्गो निमित्तैश्च वस्तुनि व्यञ्जने द्वये ।
ज्ञानस्य या चानुत्पत्तिरिति सर्वज्ञताक्षणाः
इति सेयं पुनः सेयं सेयं खलु पुनस्त्रिधा ।
अधिकारत्रयस्यैषा समाप्तिः परिदीपिता
मूल पाठ: Abhisamayālaṃkaranāmaprajñāpāramitopadeśaśāstra · Edition: unknown · Data entry Christian Coseru · GRETIL (Göttingen) · CC BY-NC-SA 4.0