अभिसमयालंकरनामप्रज्ञापारमितोपदेशशास्त्र · अध्याय 2
॥ अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे
सर्वाकारज्ञताधिकारः प्रथमः ॥
ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति ।
विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च
चतुर्णमार्यसत्यानामाकारानुपलम्भतः ।
श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये
रूपादिस्कन्धशून्यत्वाच्छून्यतानामभेदतः ।
उष्माणः अनुपलम्भेन तेषां मुर्धगतं मतम्
क्षान्तयस्तेषु नित्यादियोगस्थाननिषेधतः ।
दश भूमीः समारभ्य विस्तरास्थानदेशनत्
अग्रधर्मगतं प्रोक्तमार्यश्रावकवर्त्मनि ।
तत्कस्य हेतोर्बुद्धेन बुद्ध्वा धर्मासमीक्षणात्
परोपदेशवैयर्थ्यं स्वयंबोधात् स्वयंभुवाम् ।
गम्भीरता च ज्ञानस्य खड्गानामभिधीयते
शुश्रूषा यस्य यस्यार्थे यत्र यत्र यथा यथा ।
स सो ऽर्थः ख्यात्यशब्दो ऽपि तस्य तस्य तथा तथा
ग्रह्यार्थकल्पनाहानाद्ग्राहकस्याप्रहाणतः ।
आधारतश्च विज्ञेयः खड्गमार्गस्य संग्रहः
प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः ।
उस्ष्मगम् मूर्धगं रूपाद्यहानादिप्रभावितम्
अद्यात्मशून्यताद्याभी रूपादेरपरिग्रहात् ।
क्षान्तिः रूपाद्यनुत्पादाद्याकारैरग्रधर्मता
क्षान्तिज्ञानक्षणैः सत्यसत्यं प्रति चतुर्विधैः ।
मार्गज्ञतायां दृङ्मार्गः सानुशंसो ऽयमुच्यते
आधाराधेयताभावात्तथताबुद्धयोर्मिथः ।
पर्यायेणाननुज्ञानं महत्ता साप्रमाणता
परिमाणान्तताभावो रूपादेरवधारणम् ।
तस्यां स्थितस्य बुद्धत्वे ऽनुग्रहात्यागतादयः
मईत्र्यादि शून्यता प्राप्तिर्बुद्धत्वस्य परिग्रहः ।
सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम्
निर्वाणग्राहशान्तत्वं बुद्धेभो रक्षणादिकम् ।
अप्राणिवधमारभ्य सर्वाकारज्ञतानये
स्वयं स्थितस्य सत्त्वानां स्थापनं परिणामनम् ।
दनादीनां च संबोधाविति मार्गज्ञताक्षणाः
सर्वतो दमनं नाम सर्वतः क्लेशनिर्जयः ।
उपमक्राविषह्यत्वं बोधिराधारपूज्यता
अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थका ।
परार्थिकैवेत्येष च प्रत्येकं त्रिविधेष्यते
मृद्वी मध्याधिमात्रा च मृदुमृद्वादिभेदतः ।
सा पुनस्त्रिविधेत्येवं सप्तविंशतिधा मता
स्तुतिः स्तोभः प्रशंसा च प्रज्ञापरमितां प्रति ।
अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते
विशेषः परिणामस्तु तस्य कारित्रमुत्तमम् ।
नोपलम्भाकृतिश्चासावविपर्यासलक्षणः
विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः ।
सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः
त्रैधातुकाप्रपन्नश्च परिणामो ऽपरस्त्रिधा ।
मृदुर्मध्यो ऽधिमात्रश्च महापुण्योदयात्मकः
उपायानुपलम्बाभ्यां शुभमूलानुमोदना ।
अनुमोदे मनस्कारभावनेह विधीयते
स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः ।
नोपलम्भेन धर्माणामर्पणा च महार्थता
बुद्धसेवा च दानादिरूपाये यच्च कौशलम् ।
हेतवो ऽत्राधिमोक्षस्य धर्मव्यसनहेतवः
माराधिष्ठानगम्भीरधर्मतानधिमुक्तते ।
स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः
फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः ।
अभिन्नाच्छिन्नता यस्मादिति शुद्धिरुदीरिता
क्लेशज्ञेयत्रिमार्गस्य शिष्यखड्गजिनौरसाम् ।
हानाद्विशुद्धिरात्यन्तिकी तु बुद्धस्य सर्वथा
मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु ।
अधिमात्राधिमात्रादेर्मलस्य प्रतिपक्षतः
त्रिधातुप्रतिपक्षत्वं समता मनमेययोः ।
मार्गस्य चेष्यते तस्य परिहारतः
मूल पाठ: Abhisamayālaṃkaranāmaprajñāpāramitopadeśaśāstra · Edition: unknown · Data entry Christian Coseru · GRETIL (Göttingen) · CC BY-NC-SA 4.0